Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.37
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c25.37
- Language
- English
v3.c25.37
सप्तगोपुरमाख्यातं षोडशानां ततात्मकम्
अंशं पूर्ववदुद्दिष्ट्वा तले तले तु वर्धयेत
उत्तरादिरथूपिपर्यन्तं शाखाक्तं तु प्रगृह्यतां
विस्तारामयोर्मध्ये बाकवाह्नामुच्यते ।
विस्तारस्य त्रिभागैकं चतुर्भागैकमेव च
पञ्चभागे द्विभागं वा सालाद् बाह्ये तु निर्गमः
सार्धहस्तं समारभ्य षट्षडंगुलवर्धनात्
पञ्चहस्तविनिर्यान्तं क्षुद्राणां द्वारविस्तृतं ।
द्वाराणां तु तथा प्रोक्तं हैयमाने तथा . . . . . ।
तारे पञ्चांशसप्तांशे सप्तांशे तु दशांशके
अन्यर्थं पाददोनं तु द्विगुणं द्विगुणं तु वा
सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तधा ।
लिंगस्य मध्यमहारे मध्यमं तु वदाम्यहम् ।
शिवानि भूतधातुश्च नवांगुन विशेषतः ।
लिंगमध्ये तु वामे तु द्वारमध्यं प्रयोजयेत ।
तन्मध्ये गोपुराद्वाथ ध्रुवयापादसंयोमतम् ।
मुखं वक्ष्ये समारभ्य यावदेकोनविंशति
तावत् पक्तिस्तु विस्तारे द्वयर्थं प्रकल्पयेत् ।
यावत् पंक्तिस्तु यान्या सेयतेपाच पडिकया ।
विस्तारे पञ्चभागे तु शुभांशं गर्भगृहकम्
शेषं कुड्याविशालं स्यात् तारामहं वा प्रहस्तथा ।
एवमेकतलं ख्यातं द्वितलं तथोच्यते
विस्तारे सप्तभागं वा आयामे पि तथैव च
युगांशं गर्भगृहे तु शेषं कुड्यविशालकम् ।
एकांशं कर्णकूटं स्यात् युगांशं गोष्ठदैर्घ्यकम्
द्वारांतरंशिवांशं स्यात् कल्प्यमेवं तु मेव वा
विस्तारे सप्तभागं स्यात् नवभाग तथायतम्
शालादीर्घे तु पञ्चांशं वायामे तु प्रकल्पयेत्
हारांतरं तु कूटं च एकैकांशे न कारयेत्
कूटान्तरसमायां शेषं हारांतरंत्तिमम् ।
हारान्तराधमानेन भद्रं वा भद्रपञ्जरम्
द्वितलं ह्येवमाख्यातं त्रितलं चाधुनोच्यते
नवांशं विमधे(जे)त व्यासं अ यामं च तथा भवेतु
गर्भगृहं गुणांशं स्यात् शेषांशं ग्रहपिण्डकः