Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c27.s42.4

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c27.s42.4

Language
English

v3.c27.s42.4

मध्यमादि कनिष्ठांतं दोर्घमेव प्रस(श)स्यते ।
विस्तारं सप्तषट्पंच यवमानमुदाहृतं ।
तदर्धं च तदर्धं च नखविस्तारमुच्यते ।
बाहुमध्यविशाले तु सप्तांशं कूर्परं तथा ।
वेदांगुल्यं प्रकोष्ठं च मणिखंधे त्र्यर्थंशकं ।
त्र्यर्थंशं सार्धं पक्षांशं षडंशं तलमूलां वा ।
तलावांतरं युगांगुलं ।
तलदीर्घं षडंगुल्यं शेषांशं मध्यमांगुलं ।
सार्धंपंचांगुलं दीर्घं तर्जन्यनामिकाद्वयोः ।
सार्धंपंचारंगुलां दीर्घं कनिष्ठये तत्प्र(द)थापि वा ।
वंशां पक्षाधं सप्तयवार्थं चतुर्यवं क्रमात् ।
अंगुष्ठादि कनिष्ठातं विस्तारे परिकीर्तितं ।
स्थूलमूलं कृशाग्रं तु दुरूमानेन योजयेत् ।
अग्रे त्रिद्विभागेन नखतारं प्रशस्यते ।
तच्चतुर्भागमाधिक्यं नखताया (र) मुदाहृतं ।
ए(ये) कद्वित्रियवं वापि नखाग्रं कारयेत् सुधीः ।
अंगुष्ठेव च द्विपर्वं स्यात् त्रिपंचांचान्यदंगुलैः ।
ज्ञानरेखादि रेखैश्च कुर्यात्सुतलमध्यमे ।
केशांता दक्षिणे सूत्रांतं भू(भ्रु) वोर्मध्येमवस्थितिः ।
अक्षायामद्वयंगुलं तदर्धं तस्य विस्त्रि(स्तृ)तं ।
भू(भ्रु) वाया म युगांगुल्यं द्वयविस्तार मात्रिकं ।
द्वयंगुलं पुटपर्यंतं नासिका विस्त्रि(स्तृ)तं भवेत् ।
तदर्धं मध्यविस्तारं तदर्धं स्यात् तदर्धांगुलं ।