Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v4.c30.s1.385
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v4.c30.s1.385
- Language
- English
v4.c30.s1.385
तथा भरतमुनिना त्र्यस्रं वृत्तं गृहमुक्तम् । तस्मादन्यशास्त्रादानीय प्रसङ्गादस्माभिरिह प्रदर्श्यते ।
तद्यथा ।
> एकाशीतिपदं क्षेत्रे कर्तव्यं वृत्तपञ्चकम् ।
> बाह्ये वृत्तद्वयं यत्तत्पदद्वात्रिंशता युतम् ॥
> तृतीयं द्वादशपदं चतुर्थं तु चतुष्पदम् ।
> केवलं पञ्चमं कार्यं ब्रह्मा पञ्चस्ववस्थितः ॥
> शिख्यादयस्तु द्विपदा बहिर्विष्कम्भसंस्थिताः ।
> अर्यमाद्याः सुराः सर्वे पदिकाः परिकीर्तिताः ॥
इति वृत्तक्षेत्रे एकाशीतिपदं ।
> वृत्तानि चत्वारि समानि कृत्वा वास्तोश्चतुःषष्टिपदस्य सम्यक् ।
> अर्धस्तदर्धेन च सूर्यवेदैर्विभज्यते वृत्तचतुष्टयं च ॥
> शिख्यादयश्चैकपदे निविष्टाः पदद्वये चार्यमकादयश्च ।
> आपादयश्च त्रिपदाः प्रतिष्ठाश्चतुष्पदश्चात्र पितामहः स्यात् ॥
इति वृत्तक्षेत्रे चतुःषष्टिपदे ।
> एवमेव षडंश्चिप्रभृतीनां विन्यासः कार्यः । त्र्यस्रे क्षेत्रे च ।
> त्र्यस्त्राणि पञ्चक्षेत्राणि त्रिकोणे परिकल्पयेत् ॥
> प्राचीदिगष्टा कार्या कोणवर्ज्या ततः परे ।
> रविभागविभक्ते ते वास्तुद्वाराणि तानि तु ॥
> दितिं वायुं जलपतिं कोणेषु त्रिषु विन्यसेत् ।
> ततः शिख्यादिकान् सर्वान् शेषेषु विनिर्देशयेत् ॥
> द्वितीये पूर्ववद्भागाः षोडशद्विगुणास्ततः ।
> तत्रापि कोणत्रितये पूर्वोक्तान् विबुधान् न्यसेत् ॥
> शेषेषु वास्तुकौष्ठान् सुरांश्च विनिवेशयेत् ।
> क्षेत्रे तृतीये चत्वारि सर्वशाखासु कारयेत् ॥