Pramāṇa · Search · About · API

Studies in Indian Art c9.s3.22

Studies in Indian Art c9.s3.22

Language
English

c9.s3.22

जातरूपमयैश्चापि हुताशनसमप्रभैः । नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।।४३।।
दिव्यगन्धरसस्पर्शाः सर्वान् कामान् स्रवन्ति च । नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।।४४।।
मुक्तावैदूर्यचित्राणि भूषणानि तथैव च । स्त्रीणां याम्यनुरूपानि पुरुषाणां तथैव च ।।४५।।
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः । महाहंमणिचित्राणि फलन्त्यन्ये नगोत्तमाः ।।४६।।
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च । मनःकान्तानि माल्यानि फलन्त्यपरे द्रुमाः ।।४७।।
पानानि च महार्हाणि भक्ष्याणि विविधानि च । स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ।।४८।।
—Kishkindhā kāṇḍa, ch. 43, verses 43-48.