Studies in Indian Art c9.s3.23
Studies in Indian Art c9.s3.23
- Language
- English
c9.s3.23
२ उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः ।।२।।
तत्र वृक्षा मधुफला नित्यपुष्पफलोपमाः । पुष्पाणि च सुगंधीनि रसवन्ति फलानि च ।।३।।
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप । अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ।।४।।
ये क्षरन्ति सदा क्षीरं भद्रसं चामृतोपमम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।।५।।
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसौपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ।।८।।
मिथुनं जायते काले समं तच्च प्रवर्धते । तुल्यरूपगुणोपेतं समवेषं तथैव च ।।९।।—Bhīṣmaparvan, 7, 2-11
Cites (1)
- Mahābhārata — Vyāsa, Sanskrit