A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c6.4
A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c6.4
- Language
- English
c6.4
वंशः फारकिभूपतेः सुसरलो भूमारधारक्षमः ।
श्रीमत् सद्गुणदानशूरविमलक्षमापालशाखानिधृत् ।
विख्यातो भुवि यत्र कान्यरसिकाः सत्कीर्तिवल्लीश्रिताः ।
चित्रं संचरतीति विश्वमखिलं के वर्णयन्तीतितत् ॥
तज्ञः श्रीबुरहानखान चतुरः कामानुकारी वरः ।
संगीतादिकलाप्रपूर्णविमलः साहित्यतेजोमयः ।
दारिद्यांधतमश्च यश्च गुणिनां हंताद्यदारैः करैः ।
भूमौ फारकिभूपतीश तिलकश्चंद्रश्चिरं राजते ॥
श्रीमद्दक्षिणदिङ्मुखस्य तिलके श्रीखानदेशे शुभे ।
नित्यंभोगवतीव भोगिवसती रम्या सुपर्वादिभिः ।
अस्ति स्वस्तिकरी नरेंद्रनगरी स्वानंदवल्लीति या ।
तत्र श्रीबुरहानखान नृपतिः संगीतमाकर्णयत् ॥