A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c8.s2.9
A Comparative Study of Some of the Leading Music Systems of the 15th, 16th, 17th & 18th Centuries c8.s2.9
- Language
- English
c8.s2.9
नीरसं सरसं कुर्वन् निर्माणं भावसंयुतं । ज्ञात्वा श्रोतृमभिप्रायं यो गायेत् सतु भावुकः ॥ मनोहरति गीतेन विदित्वा श्रोतुराशयम् । रंगं गीते विधत्ते यो रंजकः सोऽभिधीयते ॥ यथा शास्त्रप्रयोगेण मार्गं दर्शयमेव च । यो गायति क्रियाक्षमान् कथ्यतेऽसौ क्रियापरः ॥ स्वरो वर्णश्च तालश्च स्पष्टं घाटयति स्वयं । सुन्दरंनिर्गमंयुक्तः सुघटं तं प्रचक्षते ॥ आलापदिषु द्विधापि कुर्यात् सौख्यविधायिनीं । आलापगायकः सोऽयं निर्दिष्टो गीतवेदिभिः ॥ आलापपि यद्गीतं भवेदातिमनोहरं । उक्तो गायकभेदैः सोऽयं रूपकगायकः ॥ नानाविधं विभक्तं च ध्वनीं यस्य सवेद्रतम् । निबंधः सतु विज्ञेयो गीततत्वविचक्षणैः ॥ रागे रागांतरच्छायां मिश्रयेदोषवर्जितः । प्रवीणत्वेन सगायन बुधैर्मिश्र उदाहृतः ॥ गायकदोषाः । रसानुरूपरागाणामतत्वविदग्धता । ग्राम्योक्तिरपशब्दश्च प्रबंधज्ञानहीनता ॥ विविधकाकुमेदाः । श्रुतिमानाधिकतया रागे स्वरस्य कुमचित् । छाया या दृश्यते ता तु स्वरच्छायां जगुर्बुधाः ॥ या रागस्य निजच्छया रागच्छायां तु तां विदुः । रागे रागांतरच्छाया सैव स्यादन्यरागजा ॥ रागस्योत्पत्तिभूक्षेत्रं शरीरं जगुर्बुधाः । तस्यैवानुकृतित्वाच्च क्षेत्रच्छायेति सा मता ॥ वीणावंशादियंतोत्था वंशच्छाया स्मृता बुधैः । देशच्छायायिता रागे देशच्छायाप्युच्यते बुधैः ॥