Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s2.2

The Hindu Temple v2.c13.s2.2

Language
English

v2.c13.s2.2

अथातः सम्प्रवक्ष्यामि वास्तुचक्रस्य लक्षणम् । दशोर्ध्वरेखां १ विन्यस्य तिर्यग्रेखा दशस्तथा ॥१॥ तद्व्रखान्तं त्रिशूलं च तत्सन्धौ बीजमेव च । कोणाम्रे दण्डरेखां च पार्श्वे...२ विनिक्षिपेत् ॥२॥ एवं कृते भवेच्चक्रं वास्तुचक्रं प्रकीर्तितम् । वास्तुचक्रे वास्तुदेवं शयानं वामभागतः ॥३॥ वामादि (पादादि) केशपर्यन्तं वामाङ्गादक्षिणङ्गतः । उत्तमाङ्गे त्रिकोणं स्याल्ललाटे द्विपदं तथा ॥४॥ कर्णयोः षट्पदं चैव नेत्रे द्विपदमेव च । चिबुकैकपदं प्रोक्तं कण्ठे त्वेकपदं तथा ॥५॥ बाहुमूले द्विरेखा स्यादुरसि साधष्टपदम् । भुजस्थाने तु षट्कोणं अङ्गुल्यासुतकोणकम् ॥६॥ कुक्षौ तु रामकोणं स्यात्कठ्यां षट्कोणमेव च । गुदे त्रिकोणं सौर्यं स्यादण्डे रेखाद्वयं तथा ॥७॥ ऊरुदेशे चतुष्कोणं ३ जानुदेशे त्रिकोणकम् । जङ्घे तु भूतकोणं स्यात्पदे कोणद्वयं तथा ॥८॥ कटिञ्च ४ त्रिकोणं स्यादङ्गुल्यां सम रेखिकाः । शेषास्त्वर्धषः कोणा अनुक्ताङ्गे नियोजिताः ॥९॥ तत्तदङ्गे वदान्यत्र ५ सावशेषेण संयुतम् । ऐशानं शिरोमूलं नैष (नैर्ऋतं) म्यादपमूलतः ॥१०॥ नक्षत्रपादपर्यन्तं बाहुस्थानं प्रकीर्तितम् । कर्णस्थानं नगपदः इन्द्रकोणं कटिर्भवेत् ॥११॥ अङ्गुलिनिर्देशमारभ्य ऊरुदेशावधिस्तथा । पुराणसंख्याकोणं स्याज्जानुदेशं द्विपञ्चकम् ॥१२॥