Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s2: ॥ नारदोर्यं वास्तुपुरुषविधानम् ॥

The Hindu Temple v2.c13.s2

Language
English

॥ नारदोर्यं वास्तुपुरुषविधानम् ॥

v2.c13.s2.1

अथ अष्टमोऽध्यायः

v2.c13.s2.2

अथातः सम्प्रवक्ष्यामि वास्तुचक्रस्य लक्षणम् । दशोर्ध्वरेखां १ विन्यस्य तिर्यग्रेखा दशस्तथा ॥१॥ तद्व्रखान्तं त्रिशूलं च तत्सन्धौ बीजमेव च । कोणाम्रे दण्डरेखां च पार्श्वे...२ विनिक्षिपेत् ॥२॥ एवं कृते भवेच्चक्रं वास्तुचक्रं प्रकीर्तितम् । वास्तुचक्रे वास्तुदेवं शयानं वामभागतः ॥३॥ वामादि (पादादि) केशपर्यन्तं वामाङ्गादक्षिणङ्गतः । उत्तमाङ्गे त्रिकोणं स्याल्ललाटे द्विपदं तथा ॥४॥ कर्णयोः षट्पदं चैव नेत्रे द्विपदमेव च । चिबुकैकपदं प्रोक्तं कण्ठे त्वेकपदं तथा ॥५॥ बाहुमूले द्विरेखा स्यादुरसि साधष्टपदम् । भुजस्थाने तु षट्कोणं अङ्गुल्यासुतकोणकम् ॥६॥ कुक्षौ तु रामकोणं स्यात्कठ्यां षट्कोणमेव च । गुदे त्रिकोणं सौर्यं स्यादण्डे रेखाद्वयं तथा ॥७॥ ऊरुदेशे चतुष्कोणं ३ जानुदेशे त्रिकोणकम् । जङ्घे तु भूतकोणं स्यात्पदे कोणद्वयं तथा ॥८॥ कटिञ्च ४ त्रिकोणं स्यादङ्गुल्यां सम रेखिकाः । शेषास्त्वर्धषः कोणा अनुक्ताङ्गे नियोजिताः ॥९॥ तत्तदङ्गे वदान्यत्र ५ सावशेषेण संयुतम् । ऐशानं शिरोमूलं नैष (नैर्ऋतं) म्यादपमूलतः ॥१०॥ नक्षत्रपादपर्यन्तं बाहुस्थानं प्रकीर्तितम् । कर्णस्थानं नगपदः इन्द्रकोणं कटिर्भवेत् ॥११॥ अङ्गुलिनिर्देशमारभ्य ऊरुदेशावधिस्तथा । पुराणसंख्याकोणं स्याज्जानुदेशं द्विपञ्चकम् ॥१२॥

v2.c13.s2.3

उत्तमाङ्गादि पादान्तं प्रत्यङ्गं कोणलक्षणम् । आहत्यैकाशीतिसंख्या-पदं वास्तुनरस्य च ॥१३॥ वास्तुनो लक्षणं वक्ष्ये अघोरण सुविस्तृतम् । वास्तु ब्रह्म ति विलोतं ६ विराजा निर्मितं पुरा ॥१४॥ शिवविष्णुस्थलादीनां ७ वास्तु हीनं यदा भवेत् । देवालस्य निर्माणे पत्तने ग्राममन्दिरे ॥१५॥ उत्सवे चाभिषेके च वास्तुकर्माचरेत्सुधीः । वास्तुपूजाविहीनं यद् विनाशं व्रजति ध्रुवम् ॥१६॥ शतयोजनविस्तीर्णं त्रिंशद्योजनमायतम् । शुद्धस्फटिकसङ्काशं चतुर्हस्तं किरीटिनम् ॥१७॥ पीताम्बरधरं देवं मुक्तामयविभूषितम् । भूतले न्यस्तदोर्वामं दक्षिणं जानुमूलतः ॥१८॥ चन्द्रचूडं त्रिनेत्रं च ८ प्रसन्नवदनाम्बुजम् । अङ्गदान्नु पुरान् हारान् वलयां शुभभूषणान् ॥१९॥ दधानं भूतलावासं सर्वालङ्कारसंयुतम् । पादादिकेशपर्यन्तम् ईशानादिशु योजयेत् ॥२०॥ एकाशीतिसमाख्याता देवतन्त्र ८ निक्षिपेत् । पञ्चवक्त्र ण पुरुषम् आकृत्या कल्पयेद्बुधः । शिल्पिना कुशलैनैव शास्त्रज्ञेन विचक्षणः । सम्प्रदायेन सिध्यन्ति देशिकैरुप्रदेशतः ॥२२॥ प्रस्तरयुक्ते न मार्गेन्ह १० लिखेद् बुधः । वृत्तं तु शिरसस्थाने षट्कोणमुरसि स्थितम् ॥२३॥ त्रिकोणं कुक्षिरित्याहुरुर्व्वचन्द्रं तु जान्वतः । पादं तु चतुरस्रं च त्वाद्यशान्ते ११ तु बिन्दवः ॥२४॥

v2.c13.s2.4

∗ See p. 11, ‘Vāstuvidhāna’. १। रेखा । २। तत्र । ३। चतुष्कोणं । ४। कव्यां च । ५। वदाम्यत्र । ६। विख्यातं । ७। स्थलादीनि । ८। तु । ९। देवतास्तत्र । १०। मार्गेन्ह । ११। प्रादेशान्ते

v2.c13.s2.5

एवं षडङ्ग १२ संभूतं पञ्चभूतं च संभवम् । मूलाधारादिषड्भेदं शब्दस्पर्शादिसंभवम् ॥२४॥ अन्यत्सर्वं भावनया कल्पितं वास्तुपुरुषे । एतत्सर्वं समालोक्य १३ यन्त्रं रूपं च साधयेत् ॥२६॥ स्वगुरोर्मुखतः कार्य १४ बुध्या शास्त्रेण चार्जुन् । सम्प्रदायेन कर्त्तव्यमिदं प्रस्तारमार्गंतः ॥२७॥ श्रीचक्रे कथितं देवैर्भू कैलासनगोत्तमान् १५ । यथाकार्यं यथाशास्त्रं तथैवेदं प्रकीर्तितम् ॥२८॥ नरप्रस्तारमिति तद्वास्तुप्रस्तारमित्यपि । वदन्ति सर्वलोकानि १६ यथार्थं तु रहस्यतः ॥२९॥ वैष्णवाय १७ सुगोप्यं शिवमागविदूषकैः १८ । वदेच्छ्रद्धाय शैवाय मन्त्रं मन्त्रोद्भवे दिने ॥३०॥ क्रियाज्ञानविधानेषु चतुराय वदेद् बुधः ॥३१॥ इदं शरीरं पुरुषस्य वास्तुनः शरीरयन्त्रं शिवकायगौरवम् । योगेन्द्रमुख्यैः करणं रहस्यतः शिवागमे मुख्यफलप्रदं तत् ॥३२॥

v2.c13.s2.6

इति नारदीये वास्तुपुरुषविधाने वास्तुचक्रपुरुषविधिर्नाम ॥ अष्टमोऽध्यायः ॥

v2.c13.s2.7

॥ अथ दशमोऽध्यायः ॥

v2.c13.s2.8

अथातस्तत्प्रवक्ष्यामि वास्तुचक्रस्य दैवतान् । प्रतिकोणं समासाद्य प्रत्यङ्गं निवसन्ति च ॥१॥ कथं स्याद्वास्तुचक्रस्य एकाशीतिपदं कृतम् । शिरः शिखा ललाटं च नेत्रं श्रोत्रं च नासिका ॥२॥ तालु्ये चिबुकञ्चैव १ आस्यं च मुखमण्डलम् । उपकर्णं कर्णदेशं उपबाहू च बाहू च ॥३॥ उरश्च हृदयं चैव कुक्षिहस्ताङ्गुलीय कम् ॥४॥ ऊरू जानू जङ्घादेशं पादं पादाङ्गुलीय कम् । भ्रुवौ च अस्थिमांसं च मेदोमज्जान्तरक्तकम् ॥५॥ त्वस्तेयवो २ नवद्वारा एकाशीतिपदे स्थिताः । षट्कोणं श्वेतवर्णं स्याद्वसुकोणं तु शुभ्रकम् ॥६॥ चतुष्कोणं रक्तवर्णं कौसुम्मं वसुकोणकम् । विंशत्कोणं पीतवर्णं श्यामं षट्कोणमेव च ॥७॥ कृष्णं द्वाविंशतिश्चैव त्रिशन्नीलं तथैव च । अष्टकोणं पितृ (पीत) वर्णं रक्तपीतं वसुस्तथा ॥८॥ पीतनीलं तु षट्कोणं हारीतं नवमं तथा । एकविंशं द्वितयं विद्यात्पाटलद्वितयं तथा ॥९॥ एवं वर्णानि तत्रैव पदे चित्रमिव स्थितम् । एवं बुध्या समालोच्य शास्त्रायागमवंशजान् ॥१०॥ सर्वमालोच्य कर्त्तव्यं वास्तुपूजाविधानतः । देवालये नदीतीरे मण्डपे राजमन्दिरे ॥११॥ उत्सवे नूतनस्थाने नगरग्रामबन्धने । एतेषु पूजा कर्त्तव्या वास्तुदेवस्य पूजनम् ३ ॥१२॥ कन्यामासं समारभ्य कार्त्तिकान्तं त्रिमासके । पूर्वायां दिशि शीर्षं स्यात्पादिघटमासके ॥१३॥ दक्षिणस्यां शिरो विन्यान्मिथुनादित्रिमासके । उत्तरस्यां शिरो विन्याच्चरवास्त्वोरिदं शिरः ॥१४॥ स्थिरवास्तोस्तु सर्वत्र ईशान्यां दिशि मूर्धतः ॥१५॥ स्थिरकार्याणि ४ सर्वत्र स्थिरवास्तुं प्रपूजयेत् । चरकार्येषु सर्वत्र चरवास्तुं प्रपूजयेत् ॥१६॥ स्थिरवास्तोस्त्रिपुरुषं कारयित्वा विधानतः । पूजयेच्छ्वसामीत्यं व्रजन्त्यन्ते सदा प्रजाः ॥१७॥

v2.c13.s2.9

॥ इति नारदीये वास्तुविधाने दशमोऽध्यायः ॥

v2.c13.s2.10

१२। षडङ्ग । १३। समालोक्य । १४। कार्य । १५। नगोत्तमाः । १६। सर्वलोकेषु । १७। वैष्णवात् । १८। शिवमागविदूषकात् । १। चिबुकं चैव । २। त्वक्स्तयवो । ३। पूजने । ४। स्थिरकार्येषु ।

Linked texts (1)