The Hindu Temple v2.c13.s2.5
The Hindu Temple v2.c13.s2.5
- Language
- English
v2.c13.s2.5
एवं षडङ्ग १२ संभूतं पञ्चभूतं च संभवम् । मूलाधारादिषड्भेदं शब्दस्पर्शादिसंभवम् ॥२४॥ अन्यत्सर्वं भावनया कल्पितं वास्तुपुरुषे । एतत्सर्वं समालोक्य १३ यन्त्रं रूपं च साधयेत् ॥२६॥ स्वगुरोर्मुखतः कार्य १४ बुध्या शास्त्रेण चार्जुन् । सम्प्रदायेन कर्त्तव्यमिदं प्रस्तारमार्गंतः ॥२७॥ श्रीचक्रे कथितं देवैर्भू कैलासनगोत्तमान् १५ । यथाकार्यं यथाशास्त्रं तथैवेदं प्रकीर्तितम् ॥२८॥ नरप्रस्तारमिति तद्वास्तुप्रस्तारमित्यपि । वदन्ति सर्वलोकानि १६ यथार्थं तु रहस्यतः ॥२९॥ वैष्णवाय १७ सुगोप्यं शिवमागविदूषकैः १८ । वदेच्छ्रद्धाय शैवाय मन्त्रं मन्त्रोद्भवे दिने ॥३०॥ क्रियाज्ञानविधानेषु चतुराय वदेद् बुधः ॥३१॥ इदं शरीरं पुरुषस्य वास्तुनः शरीरयन्त्रं शिवकायगौरवम् । योगेन्द्रमुख्यैः करणं रहस्यतः शिवागमे मुख्यफलप्रदं तत् ॥३२॥