The Hindu Temple v2.c13.s2.8
The Hindu Temple v2.c13.s2.8
- Language
- English
v2.c13.s2.8
अथातस्तत्प्रवक्ष्यामि वास्तुचक्रस्य दैवतान् । प्रतिकोणं समासाद्य प्रत्यङ्गं निवसन्ति च ॥१॥ कथं स्याद्वास्तुचक्रस्य एकाशीतिपदं कृतम् । शिरः शिखा ललाटं च नेत्रं श्रोत्रं च नासिका ॥२॥ तालु्ये चिबुकञ्चैव १ आस्यं च मुखमण्डलम् । उपकर्णं कर्णदेशं उपबाहू च बाहू च ॥३॥ उरश्च हृदयं चैव कुक्षिहस्ताङ्गुलीय कम् ॥४॥ ऊरू जानू जङ्घादेशं पादं पादाङ्गुलीय कम् । भ्रुवौ च अस्थिमांसं च मेदोमज्जान्तरक्तकम् ॥५॥ त्वस्तेयवो २ नवद्वारा एकाशीतिपदे स्थिताः । षट्कोणं श्वेतवर्णं स्याद्वसुकोणं तु शुभ्रकम् ॥६॥ चतुष्कोणं रक्तवर्णं कौसुम्मं वसुकोणकम् । विंशत्कोणं पीतवर्णं श्यामं षट्कोणमेव च ॥७॥ कृष्णं द्वाविंशतिश्चैव त्रिशन्नीलं तथैव च । अष्टकोणं पितृ (पीत) वर्णं रक्तपीतं वसुस्तथा ॥८॥ पीतनीलं तु षट्कोणं हारीतं नवमं तथा । एकविंशं द्वितयं विद्यात्पाटलद्वितयं तथा ॥९॥ एवं वर्णानि तत्रैव पदे चित्रमिव स्थितम् । एवं बुध्या समालोच्य शास्त्रायागमवंशजान् ॥१०॥ सर्वमालोच्य कर्त्तव्यं वास्तुपूजाविधानतः । देवालये नदीतीरे मण्डपे राजमन्दिरे ॥११॥ उत्सवे नूतनस्थाने नगरग्रामबन्धने । एतेषु पूजा कर्त्तव्या वास्तुदेवस्य पूजनम् ३ ॥१२॥ कन्यामासं समारभ्य कार्त्तिकान्तं त्रिमासके । पूर्वायां दिशि शीर्षं स्यात्पादिघटमासके ॥१३॥ दक्षिणस्यां शिरो विन्यान्मिथुनादित्रिमासके । उत्तरस्यां शिरो विन्याच्चरवास्त्वोरिदं शिरः ॥१४॥ स्थिरवास्तोस्तु सर्वत्र ईशान्यां दिशि मूर्धतः ॥१५॥ स्थिरकार्याणि ४ सर्वत्र स्थिरवास्तुं प्रपूजयेत् । चरकार्येषु सर्वत्र चरवास्तुं प्रपूजयेत् ॥१६॥ स्थिरवास्तोस्त्रिपुरुषं कारयित्वा विधानतः । पूजयेच्छ्वसामीत्यं व्रजन्त्यन्ते सदा प्रजाः ॥१७॥