The Hindu Temple v2.c13.s3: ॥ हयशीर्षपञ्चरात्रम् ॥
The Hindu Temple v2.c13.s3
- Language
- English
॥ हयशीर्षपञ्चरात्रम् ॥
v2.c13.s3.1
॥ अथ त्रयोदशः पटलः ॥
v2.c13.s3.2
श्रीभगवानुवाच :—
v2.c13.s3.3
प्रासादं संप्रवक्ष्यामि सर्वसाधारणं शृणु । चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा पुनः ॥११०॥ मध्ये तस्य चतुर्भिस्तु कुर्यादायासमान्वितम् । द्वादशैव तु भागादि भित्त्यर्थं परिकल्पयेत् ॥१११॥ जङ्घोच्छ्रायं तु कर्त्तव्यं चतुर्भागेन चायताम् । जङ्घाया द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥११२॥ चतुर्भागेन मञ्जर्याः कार्यं सम्यक् प्रदक्षिणा । उन्मालानिगमं कार्यमुभयोः पार्श्वयोः समम् ॥११३॥ शिखरेण समं कार्यं मानं जगतिविस्तारम् । द्विगुणैर्वापि कर्त्तव्यं यथाशोभानुरूपतः ॥११४॥ विस्तारं मण्डपस्याग्रे गर्भ सूत्रद्वयेन तु । दैर्ध्यात् पादादिकं कार्यं मध्ये स्तम्भैर्विभूषितम् ॥११५॥ प्रासादगर्भमानं वा कुर्वन्ति मुखमण्डपम् । एकाशीतिपदैर्व्वस्तुच्छाया मण्डपमारभेत् ॥११६॥ शक्ताद्यान् द्वारविन्यासे पदान्तस्थान् यजेत् सुरान् । तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान् ॥११७॥ सर्वसाधारणं चैव प्रासादस्य तु लक्षणम् । मानेन प्रतिमाया वा प्रासादपरं शृणु ॥११८॥
v2.c13.s3.4
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा । गर्भस्तु पिण्डिकार्द्धेन गर्भमानात्तु भित्तयः ॥११९॥ भित्तियाममानेन १ उच्च्रायं तु प्रकल्पयेत् । भित्तिच्छायं २ तद्विगुणं शिखरं कल्पयेद् बुधः ॥१२०॥ शिखरस्य तु तुर्येण भ्रमणं परिकल्पयेत् । शिखरस्य चतुर्थेन अग्रतो मूलमण्डपम् ॥१२१॥ अष्टमांशन गर्भस्य रथकानां तु निगमः । परिघेर्गुण्भागेन रथकान्त्र कल्पयेत् ॥१२२॥ तत्तृतीयेन वा कुर्याद्रथकानां तु निर्गमम् । वारत्रयं स्थापनीयं रथकत्रितये सदा ॥१२३॥ शिखरार्थं हि सूत्राणि रत्नानि विनिपातयेत् । कलशस्योर्ध्वतः सूत्रं तिर्यक्सूत्रं निपातयेत् ॥१२४॥ शिखरस्योर्ध्वभागस्थं सिंहं तत्र च कारयेत् । शुकनासां स्थिरीकृत्य मध्यशङ्कौ विचारयेत् ॥१२५॥ अपरे च तथा पार्श्वं तद्वत् सूत्रं निधाययेत् । तदूर्ध्वं तु वेदीशक्यमानेन सारवान ३ ॥१२६॥ स्कन्धमग्नं न कर्त्तव्यं विकरालं तथैव च । ऊर्ध्वं तु वेदिकामानात् कलशं परिकल्पयेत् ॥१२७॥
v2.c13.s3.5
* A Ms. of the ‘Hayaśīrṣapañcarātra’ is in the Library of the Varendra Research Society, Rajshahi. The Ms. has not been published ; certain chapters however have been printed (I—XIV). Ch. XIII is copied from the printed portion of the text and follows the numeration of its verses.
v2.c13.s3.6
¹ भित्ते ।
v2.c13.s3.7
² भित्त्युच्छ्रायं ।
v2.c13.s3.8
³ तदूर्ध्वं तु भवेद्वेदी सकथा मलसारकम् ॥
v2.c13.s3.9
विस्तारं द्विगुणं द्वारं ४ कर्त्तव्यं तु सुशोभनम् । जातरूपं सरे कुर्यात् चक्रं वा खरदुःस्वरैः ॥३२८॥ औदुम्बरकृतस्वर्णं दत्त्वा शाखां न्यसेद् बुधः । तूर्य्यमङ्गलघोषेण ब्राह्मणान् स्वस्तिवाच्य च ॥३२९॥ द्वारस्य तु चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ । दण्डहस्तौ तु कर्त्तव्यौ विश्वक्सेनोपमावुभौ ॥३३०॥ शाखाद्वे न्यस्य रत्नानि न्यसेदूर्ध्वमुदुम्बरम् । तस्य मध्ये स्थिता देवी शङ्खलक्ष्मी सुरेश्वरी ॥३३१॥ कर्त्तव्या दिग्जैः सा तु स्थाप्यमाना मटेन तु ५ । शाखोडुम्बरकैः कार्य्यौ पत्रावल्यादिभूषितौ ॥३३२॥ एकशाखं त्रिशाखं वा षटशाखं द्वारमिष्यते । नवशाखं च कुर्व्वन्ति अत ऊर्ध्वं न कारयेत् ॥३३३॥ विष्णुरुद्रवरुणाद्यैः शाखां यत्नाद्विभूषयेत् । प्रासादस्य चतुर्थांशः प्राकारस्योच्चयो भवेत् ॥३३४॥ प्रासादात् पादहीनस्तु गोपुरस्योच्चयो भवेत् । पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका ॥३३५॥ तस्मात्तु द्विगुणः प्रोक्तस्तथा गरुडमण्डपः । एकहस्ताद्वि कुर्व्वीत त्रिंशद्धस्तान्तमेव च ॥३३६॥ एकभूम्यादिकं कुर्य्यात् समभूम्यन्तमेव च । वायव्यां नागनाम्ना तु विष्णवे चैकभूमिकाम् ॥३३७॥ द्विभौमिकं तथामेन्द्रे माहेन्द्रं तु त्रिभौमिकम् । चतुर्भागं तु वारुण्यां सौरं स्यात् पञ्चभौमिकम् ॥३३८॥ सौम्यं षड्भौमिकं ज्ञेयं वैष्णवं सप्तभौमिकम् । गरुत्वन्तं तथा कुर्य्यादुपरिष्टाच्चतुर्दिशम् ॥३३९॥
v2.c13.s3.10
कुर्य्याद्धि प्रतिमामानं दिक्षु चाष्टस्वरोपरि । महावराहमैन्द्रां तु नरसिंहं तु दक्षिणे ॥३४०॥ प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम् । आग्नेय्यां जामदग्न्यं तु नैर्ऋत्यां राममेव च ॥३४१॥ वामनं चैव वायव्यां वासुदेवमथापरे । पूर्वेभूमौ तु शयनं द्वितीये चासनं भवेत् ॥३४२॥ स्थानमेवं तृतीये तु चतुर्थे यानमेव च । पञ्चमे योगनिद्रां तु षष्ठे योगासनं भवेत् ॥३४३॥ ज्ञानयोगसमायुक्तं सप्तमे परिकल्पयेत् । नानाकाराक्षरैर्य्यत्नात् पत्रकं वा विभूषितम् ॥३४४॥ नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत् । कनिष्ठमध्यमेष्ठानां प्रासादानां यथाक्रमम् ॥३४५॥ वसुभार्गवविष्ण्वन्द्रैः प्रदेया रचना बुधैः । द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ॥३४६॥ ललाटरेखा नैव स्यात् आयस्य शृणु सांप्रतम् । यावत् कुम्भैरभिप्रेतः प्रासादकर्त्तणानघ ! ॥३४७॥ तावद्विरङ्गुलैरायो वसुभागेन वा भवेत् । एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता ॥३४८॥ कुलभूम्यन्तरे नित्यं चतुस्तम्भं प्रकल्पयेत् । तोरणस्य विधानं तु कथितं तु तवानघ ! ॥३४९॥ प्रासादाग्रे यदा कार्य्या वेदिका स्तम्भसंयुता । वैष्णवस्त तदा कार्य्या वेदिका स्तम्भसंयुता ॥३५०॥ ॥ इति प्रासादलक्षणपटलस्त्रयोदशः ॥१३॥
Linked texts (1)
- Hayaśīrṣasaṃhitā — Sanskrit