Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s3.3

The Hindu Temple v2.c13.s3.3

Language
English

v2.c13.s3.3

प्रासादं संप्रवक्ष्यामि सर्वसाधारणं शृणु । चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा पुनः ॥११०॥ मध्ये तस्य चतुर्भिस्तु कुर्यादायासमान्वितम् । द्वादशैव तु भागादि भित्त्यर्थं परिकल्पयेत् ॥१११॥ जङ्घोच्छ्रायं तु कर्त्तव्यं चतुर्भागेन चायताम् । जङ्घाया द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥११२॥ चतुर्भागेन मञ्जर्याः कार्यं सम्यक् प्रदक्षिणा । उन्मालानिगमं कार्यमुभयोः पार्श्वयोः समम् ॥११३॥ शिखरेण समं कार्यं मानं जगतिविस्तारम् । द्विगुणैर्वापि कर्त्तव्यं यथाशोभानुरूपतः ॥११४॥ विस्तारं मण्डपस्याग्रे गर्भ सूत्रद्वयेन तु । दैर्ध्यात् पादादिकं कार्यं मध्ये स्तम्भैर्विभूषितम् ॥११५॥ प्रासादगर्भमानं वा कुर्वन्ति मुखमण्डपम् । एकाशीतिपदैर्व्वस्तुच्छाया मण्डपमारभेत् ॥११६॥ शक्ताद्यान् द्वारविन्यासे पदान्तस्थान् यजेत् सुरान् । तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान् ॥११७॥ सर्वसाधारणं चैव प्रासादस्य तु लक्षणम् । मानेन प्रतिमाया वा प्रासादपरं शृणु ॥११८॥