The Hindu Temple v2.c13.s3.10
The Hindu Temple v2.c13.s3.10
- Language
- English
v2.c13.s3.10
कुर्य्याद्धि प्रतिमामानं दिक्षु चाष्टस्वरोपरि । महावराहमैन्द्रां तु नरसिंहं तु दक्षिणे ॥३४०॥ प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम् । आग्नेय्यां जामदग्न्यं तु नैर्ऋत्यां राममेव च ॥३४१॥ वामनं चैव वायव्यां वासुदेवमथापरे । पूर्वेभूमौ तु शयनं द्वितीये चासनं भवेत् ॥३४२॥ स्थानमेवं तृतीये तु चतुर्थे यानमेव च । पञ्चमे योगनिद्रां तु षष्ठे योगासनं भवेत् ॥३४३॥ ज्ञानयोगसमायुक्तं सप्तमे परिकल्पयेत् । नानाकाराक्षरैर्य्यत्नात् पत्रकं वा विभूषितम् ॥३४४॥ नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत् । कनिष्ठमध्यमेष्ठानां प्रासादानां यथाक्रमम् ॥३४५॥ वसुभार्गवविष्ण्वन्द्रैः प्रदेया रचना बुधैः । द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ॥३४६॥ ललाटरेखा नैव स्यात् आयस्य शृणु सांप्रतम् । यावत् कुम्भैरभिप्रेतः प्रासादकर्त्तणानघ ! ॥३४७॥ तावद्विरङ्गुलैरायो वसुभागेन वा भवेत् । एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता ॥३४८॥ कुलभूम्यन्तरे नित्यं चतुस्तम्भं प्रकल्पयेत् । तोरणस्य विधानं तु कथितं तु तवानघ ! ॥३४९॥ प्रासादाग्रे यदा कार्य्या वेदिका स्तम्भसंयुता । वैष्णवस्त तदा कार्य्या वेदिका स्तम्भसंयुता ॥३५०॥ ॥ इति प्रासादलक्षणपटलस्त्रयोदशः ॥१३॥