Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s4.8

The Hindu Temple v2.c13.s4.8

Language
English

v2.c13.s4.8

अष्ट त्रि त्रिदश त्रिंशद् गर्भः स्यात् त्रितलादिषु । एतत्सर्वं च सामान्यं विशेषालिङ्ग तिस्थितः २६ ॥४४॥ श्रेयः श्रेयः सुनाडीके श्रेयः श्रेयसि वा मता ३० । एवं गर्भगृहं प्रोक्तं भद्रस्य विधिरुच्यते ॥५०॥ सैकत्रिपञ्चत्यंशपञ्चषडसप्तविस्तरः । तत्तारेरंशनिष्कान्तं मध्ये मूषा ३१ कनीयसी ॥५१॥ कनिष्ठे नवपञ्चांशा सप्तविंशा च मध्यमे । व्यंशकैकांके षट् स्युर्नागरादिश्यनुक्रमात् ॥५२॥ निष्कान्तरासां पूर्वोक्तनीयतैव परिकल्पितः । शाक्तिकन्याः ३२ कामदान्ताः पञ्चाशद्द्रमिडोचिताः ॥५३॥ वास ३३ द्विगुण उत्सेधाः ३४ कामदारुया स्तनावरे । एकद्वित्रिचतुः पञ्चभागैः ३५ द्विगुणाधिकाः ॥५४॥ अष्टांशेषु विशालेषु उत्सेधः शान्तिकाविकम् । वराटे चापि कालिङ्गं वेसरे नागरोक्तवत् ॥५५॥ नागरे समहस्ता स्युर्द्रामिडादिषु पूर्ववत् । स्वयंभुवादिलिङ्गानां पूजांशपरिणाहके ॥५६॥ पञ्चा ३६ दशांशके पञ्चभोभागेनो ३७ त्सैधं तु शान्तिकम् । नागरं समलिङ्गान्तं नागरे ३८ समदशांशके ॥५७॥ नागरं पौष्टिकं नाम समांशोच्चं शिवाधिकम् । एकोनविंशदंशात्तु नवांशं वधमानकम् ॥५८॥ जयदं नागरं तस्मादंशांशो तत्तुङ्गकम् । अद्भुतं चाभिवारं च तदर्थं सर्वदेशिकम् ॥५९॥ एतन्नागरलिङ्गं तु सौधमोजः पदेन तु । परिणाहै विकारांशो भूतकौशिकधातुभिः ॥६०॥ हृदयं द्रामिडं प्रोक्तं शान्तिपुष्टि जयावहम् । तत्तदर्धांश ३६ चाधिक्यं हीनद्व्यन्तरमानकम् ॥६१॥ अद्भुतं चाभिवारं च सर्वकामिकमुच्यते ।