Pramāṇa · Search · About · API

The Hindu Temple v2.c13.s4: ॥ कामिकागमः ॥

The Hindu Temple v2.c13.s4

Language
English

॥ कामिकागमः ॥

v2.c13.s4.1

॥ एकोनपञ्चाशः पटलः ॥

v2.c13.s4.2

नागरादिप्रभेदं तु प्रवक्ष्यामि विशेषतः । विन्ध्यान्तं चैव कृष्णान्तं कन्यान्तं तु हिमाचलात् ॥१॥ तस्मात्तस्मात्क्रियाधात्रीयुक्तसत्त्वतमोरजाः । नागरं द्राविडं चैव वेसरं सार्वदेशिकम् ॥२॥ कालिङ्गं च वराटं च षड्विधं त्विह कीर्त्तितम् । नागरं सात्त्विको १ क्षेत्रे वेसरं स्यात्तमोधिके ॥३॥ राजसे द्राविडं चैव सर्वदेश्यं सर्वत्र सम्मतम् । कालिङ्गं च वराटं च ग्राह्यं सत्त्वरजोधिके ॥४॥ कुलं मसूरकं २ जङ्घा कपोतं शिखरं गलम् । ऊर्ध्वंन्दामलसारेणाष्टवर्गः कुम्भस्तथायुक् ॥५॥ अन्यैः परिनिक्षिप्तं प्रोक्तवर्गाष्टकं तु यत् । अन्यैः प्रतीरयैः ३ कोणैरन्योन्याधिकभद्रजैः ॥६॥ त्रिभिर्वा पञ्चभिर्वागैर्नवैर्वाथ सप्तभिः । साष्टा नवभिर्वाथैर्युक्ते वा दवकस्तकैः ४ ॥७॥ स्वच्छन्दाङ्गं विचित्राङ्गं सन्तारः प्रस्तरः कियान् । ऊहप्रत्यूहसंयुक्तं रेजातीशांशमुण्डयुक् ५ ॥८॥ सकर्माकर्मजं यं तु मण्डनानलसारकम् ६ । शुकनासिका युक्तं पाश्वेयोः प्रमुखे मुखे ॥९॥ कुण्डमण्डपसंयुक्तमङ्गवृत्त्यङ्गकल्पितम् । यथाशक्ति यथाशोभं विधातव्यं हि नागरम् ॥१०॥ हो [दो] रभ्यन्तरस्तम्भभित्तितुल्यसमन्वितम् । प्रकृत्यपरजं मूर्ध्नि सोपपीठमसूरकम् ॥११॥

v2.c13.s4.3

समस्तम्भां यत्तु सभासमपि भागभाक् ७ । जन्मोपपीठानुष्ठानस्तम्भप्रस्तरकन्धरैः ॥१२॥ शिखरे ८ स्तूपिकाभ्यां च षड्वर्गैस्सहिलं तु यन् । मानसूत्राद्दिनिर्यात्समसूत्राद्भद्रकम् ॥१३॥ समस्तम्भान्तरस्योर्ध्वप्रस्तरान्तरबन्धनम् । मध्यकर्णमिदं गच्छेत्प्रमाणभवनान्वितम् ॥१४॥ एवमादिविशिष्टाङ्गं विमानं द्राविडं मतम् । युक्तद्राविडविन्यासनागरक्रिययाऽन्वितम् ॥१५॥ नागरं धामिदोदिष्ट ९ विशेषेण विभूषितम् । सखण्डखण्डहर्म्यं तु कण्ठमायोभयात्मकः १० ॥१६॥ उत्तरोत्तरतो व्यूह्युक्कान्तरतलक्रिया । एवमादिविचिताङ्गं विमानं नाम वेसरम् ॥१७॥ मूळादूर्ध्वंस्तन्धेयं तदुपर्यस्ततां मा(ग)तम् । तदुपर्युत्थितग्रीवशिखास्तूपिकान्विता ॥१८॥ भद्रोपभद्रचित्राङ्गस्तम्भान्तरतलक्रियाम् । साधारणतला सप्तकाथ स्तम्भनिवेशनाम् ॥१९॥ श्रोण्याकारकियोपेतच्छायाप्रस्तरबन्धनम् । एवमाङ्गवैचित्र्यं वराटं धाम सम्मतम् ॥२०॥ विनां धारितयो ११ रस्य पताका बाह्यमण्डनम् । उत्तराधा १२ लुपारोहक्रियां धारिकान्वितम् ॥२१॥ उन्नता वा न तस्याङ्गैः सर्वाङ्गैः परिमण्डलम् । चतुराष्टवृत्ताभग्रीवाशिखरसौरभम् ॥२२॥

v2.c13.s4.4

∗ Copied from a manuscript in the Government Sanskrit College Library, Calcutta, which is a copy of the manuscript No. D.5421 of Government Oriental Manuscripts Library, Madras. १। सात्त्विके । २। मूलं मसूरकं । ३। रथैः । ४। भागसत्कैः । ५। जर्गतीशांशमुण्डयुक् । ६। कण्ठमामलसारकं । ७। समस्तम्भान्तरं यत्तु सभागमपि भागभाक् । ८। शिखरैः । ९। द्रामिडो । १०। खण्डऽखण्डहर्म्यं तु कण्ठपाश्वोर्ध्वोभयात्मकः । ११। विनाऽधारिकयो । १२। धो ।

v2.c13.s4.5

ईदृभूताइसङ्कल्पं कालिङ्गं सङ्घ सम्मतम् । नालिकां धारिकां धारां हीरारस्या ? हि मण्डलम् ॥२३॥ कपोतशालया युक्तं ब्रह्मद्वारपताकया । षड्विंशाकृतियुक् सङ्घ सम्मतं सर्वदेशिकम् ॥२४॥ प्रत्येकं त्रिविधं प्रोक्तं द्विमित्य १३ स्वधुनोच्यते । हस्तच्छेदपरीहार नानाकृतसमीकृतम् ॥२५॥ अथ संवत्स १४ सुत्पन्नैर्नागरं तत्समागतम् । हस्तच्छेदपरीत्यै १५ हित्वा समविधानवत् ॥२६॥ भद्राल्ङ्कारसंयुक्तं द्रामिडं चेति कीर्त्तितम् । लब्धमात्रा न १६ हीनं तु नातिरिक्तं सवस्त्रकम् ॥२७॥ उत्तरोत्तरनियुक्तं सङ्घं वेसरं मतम् । त्रि-पञ्च-सप्त-द्वि-चतुः-षड्भच्यैकतलक्रमात् ॥२८॥ नागरादिषु षड्भेदहीनं मध्यममुत्तमम् । साक्षाद् द्वित्रिचतुःपञ्चतलम्ष्टनवांशकम् ॥२९॥ कनिष्ठं मध्यमं ज्ञेयं दशांशैकादशांशकम् । श्रेष्ठत्रयोदशांशं तु द्वादशांशमिति स्मृतम् ॥३०॥ तथा षट्सप्तभौमं त्रिः पञ्चद्विसप्तभागभाक् । तथा चाष्टतलं प्रोक्तं नवभूमं १७ निकेतनम् ॥३१॥ सप्ता १८ दश द्विश्ांशं नवाष्टादिदशांशकम् । विमानं द(ण्ड) राभौमं तु द्वात्रिंशत्सप्तभागयुक् ॥३२॥ एकादशतलं द्वित्रिभागयुग्विदशांशकम् १६ । युग्माऽयुग्मत्रिभूम्यादि या सा त्रियंशवधनात् ॥३३॥ दशाद्वादशभूम्यां तु संख्या ख्याता क्रमागता । कनिष्ठमध्यमा श्रेष्ठा नागरादिषु पञ्चसु ॥३४॥ अविरोधेन विन्यासभाषणं सर्वदेशिकम् । असमं नाग २० द्राविडा चेत्समागत ॥३५॥

v2.c13.s4.6

द्विविधं २१ भक्तयो ग्राह्या वेसरे सार्वदेशिके । अनन्योनाधिकर्षीणं २२ क्षीणा नागरयामिनी ॥३६॥ द्राविडे सङ्घविश्वे पे क्षेत्रभागोदितक्षणात् । ईषदनाधिका वा स्युर्वेसरादिषु भक्तयः ॥३७॥ त्रिचतुःपञ्चमात्राभिः कपोतैः स्थलभिश्च यः । एवं भक्तिविभागस्तु गर्भगृहंमथोच्यते ॥३८॥ सैकत्रिपञ्चभक्त्यंशषण्णवैकादशांशकम् । नागरे सैकभौमः स्यात्प्रासादस्यैकनालका ॥३९॥ श्रेष्ठमध्यमहीनस्य बहिश्ांशेषण भकिता । गर्भ त्रि षड् दश त्रिचतुः पञ्चभागभाक् ॥४०॥ द्वितको २३ नागरस्योक्ता नालगेहविशालता । षोडशांशे तु षड्भागे गर्भसप्तदशांशके ॥४१॥ अष्टादशांशे सप्तांशस्त्रितले नागरस्य तु । द्राविडे त्रिचतुः पञ्चभागैर्नाल २४ विशालता ॥४२॥ गर्भे नवदशांशे तु वस्वांशे २५ विंशदंशके । त्रिस्पते तु नवांशं त्रितलद्राविडे मतः ॥४३॥ त्रिष्वसप्तभिर्नालषड्दशभाजिते । वेसरस्यैकभौमस्य श्रेष्ठमध्याधमक्रमात् ॥४४॥ नवैकादशविज्ञेन्दु चतुः पञ्च षडंशकम् । वेसरे द्वितलस्योक्त नालो गृह २६ विशालता ॥४५॥ द्वित्रिवेदंशके विंशत्यंशे नवदिंगंशकः । वेसरं गर्भगेहं स्यात्तदन्ते तु द्विजोत्तमाः ॥४६॥ एकद्वितलतानां तु गर्भस्त्वेवमुदाहृतः । नागरोक्तं वराटे स्यात्कालिङ्गं द्रामिडोचतम् २७ ॥४७॥ वेसोक्तं तु यत्सर्वं तद्योग्यं सावेदेशिके । यथाक्रमं वा तद्ग्राह्यं २८ सर्वे वा सार्वदेशिके ॥४८॥

v2.c13.s4.7

१३। द्विविध । १४। सम्पत् । १५। हस्तच्छेदपरीहारं । १६। लब्धमात्रा न्हीनं । १७। भौमं । १८। सप्त । १६। द्विव्ांशकस् । २०। असमां नागरं प्राहुः । २१। द्विविधा । २२। क्षीणा । २३। द्विवले । २४। नाल । २५। वस्वंशो । २६। नालगेहविशालता । २७। द्रामिडोक्तवत् । २८। तद्ग्राह्यं ।

v2.c13.s4.8

अष्ट त्रि त्रिदश त्रिंशद् गर्भः स्यात् त्रितलादिषु । एतत्सर्वं च सामान्यं विशेषालिङ्ग तिस्थितः २६ ॥४४॥ श्रेयः श्रेयः सुनाडीके श्रेयः श्रेयसि वा मता ३० । एवं गर्भगृहं प्रोक्तं भद्रस्य विधिरुच्यते ॥५०॥ सैकत्रिपञ्चत्यंशपञ्चषडसप्तविस्तरः । तत्तारेरंशनिष्कान्तं मध्ये मूषा ३१ कनीयसी ॥५१॥ कनिष्ठे नवपञ्चांशा सप्तविंशा च मध्यमे । व्यंशकैकांके षट् स्युर्नागरादिश्यनुक्रमात् ॥५२॥ निष्कान्तरासां पूर्वोक्तनीयतैव परिकल्पितः । शाक्तिकन्याः ३२ कामदान्ताः पञ्चाशद्द्रमिडोचिताः ॥५३॥ वास ३३ द्विगुण उत्सेधाः ३४ कामदारुया स्तनावरे । एकद्वित्रिचतुः पञ्चभागैः ३५ द्विगुणाधिकाः ॥५४॥ अष्टांशेषु विशालेषु उत्सेधः शान्तिकाविकम् । वराटे चापि कालिङ्गं वेसरे नागरोक्तवत् ॥५५॥ नागरे समहस्ता स्युर्द्रामिडादिषु पूर्ववत् । स्वयंभुवादिलिङ्गानां पूजांशपरिणाहके ॥५६॥ पञ्चा ३६ दशांशके पञ्चभोभागेनो ३७ त्सैधं तु शान्तिकम् । नागरं समलिङ्गान्तं नागरे ३८ समदशांशके ॥५७॥ नागरं पौष्टिकं नाम समांशोच्चं शिवाधिकम् । एकोनविंशदंशात्तु नवांशं वधमानकम् ॥५८॥ जयदं नागरं तस्मादंशांशो तत्तुङ्गकम् । अद्भुतं चाभिवारं च तदर्थं सर्वदेशिकम् ॥५९॥ एतन्नागरलिङ्गं तु सौधमोजः पदेन तु । परिणाहै विकारांशो भूतकौशिकधातुभिः ॥६०॥ हृदयं द्रामिडं प्रोक्तं शान्तिपुष्टि जयावहम् । तत्तदर्धांश ३६ चाधिक्यं हीनद्व्यन्तरमानकम् ॥६१॥ अद्भुतं चाभिवारं च सर्वकामिकमुच्यते ।

v2.c13.s4.9

नाहे तु भास्करे भागे त्रिचतुःपञ्चभागिकम् ॥६२॥ पौष्टिकं तुङ्गजयदं जयदं वेसरं मतम् । पूर्वोक्तविधिना ज्ञेया अद्भुताशास्त्रयस्त्वयः ॥६३॥ द्रामिडे वेसरे लिङ्गं समभागप्रमाणतः । प्रासादं योजयेद्विद्वान् यथाशास्त्रं द्विजोत्तमाः ॥६४॥ कानवेलस्य ३९ दध्यं यत्तद् द्विरंशांशके कृते । भूतवेदगुणन्यासनाहरं ४० शान्तिकादिकम् ॥६५॥ अर्धाधार्धिकहीनं तु ह्यक्षरं तु विशालकम् । अद्भुतं चाभिवारं च नागरं सार्वकामिकम् ॥६६॥ अष्टादशांशके तुङ्गे कोशिकेन्द्रियवेदकम् ४१ । द्रामिडं शान्तिकादि स्यादद्भुतदथ पूर्ववत् ४२ ॥६७॥ वेसरे विंशदशे तु वसुभानुरसांशकम् । शान्तिकादिक्रमेण स्यादद्भुताद्यथ पूवकम् ४३ ॥६८॥ लिङ्गायामसमो व्यासः पूजाशोच्छ्रयेन वा । तदन्तरेऽष्टभागे तु पूर्ववत्परिकल्पयेत् ॥६९॥ विष्णुभागसमुत्सेधशा ४४ भूगतमिष्यते । विष्णुभागे तु तुल्यांशो नाधिका वाऽथपीठिका ॥७०॥ निष्कम्भ ४५ त्रिगुणो व्यासोऽधस्ताद्ब्रह्मशिलां न्यसेत् । व्यासत्रिभाग उत्सेधश्चतुरंशैक एव वा ।७१॥ यस्य लिङ्गस्य विष्कम्भश्चाष्टभागकमेव वा । नवभागैकभागं वा गाम्भीर्यमवटस्य तु ॥७२॥ एषां ४६ नागरलिङ्गं तु ब्रह्मण्ये कथिता शिला । गर्भकणस्य तुर्यांशा व्यासोत्सेध्यंशकोदया ॥७३॥ लिङ्गव्यासार्धभागैकं तत्रा ४७ द्रामिडभूशिला । गर्भाधचतुर्भागा हीनविस्तारसंयुतम् ४८ ॥७४॥ तद्वत्पादांशदायापतशिला वा वेसरे मता । लिङ्गपीठे शिलायामजातीये सुसम्पदे ॥७५॥

v2.c13.s4.10

२६ । स्थितम् अथवा स्तिवदम् । ३० । मतम् । ३१ । मूषा । ३२ । शान्तिकाः । ३३ । भाग । ३४ । उत्सेधः । ३५ । भागे तु । ३६ । पञ्च । ३७ । भागेन । ३८ । भागे । ३९ । तत्तदंशांश । ४० । नाहकं । ४१ । तुङ्गकम् । ४२ । अद्भुताद्यु पूर्ववत् । ४३ । स्यादद्भुताद्य पूर्ववत् । ४४ । शेष । ४५ । विष्कम्भ । ४६ । एवं । ४७ । भागैकमात्रा । ४८ । संयुता ।

v2.c13.s4.11

विपरीत विपत्तयै स्यात्कर्तुः कारयितुस्तथा। अयं विभागो लिङ्गे तु नेष्यते सावदेशिके ॥७६॥ प्रासादेऽपि तथा लिङ्गनियमो नेष्यते बुधैः। एवं पीठशिलायां च नियमो नेष्यतेऽत्र तु ॥७७॥ मुख्यत्वात्सर्वलिङ्गं भ्यस्त्वत्रापि च सम्मतम्। तथा प्रासाद एवं स्यात्तीठश्वापि तथैव च ॥७८॥ शान्तिदं पौष्टिकंयदद्भुतं सावकामिकम्। शान्तिकोबोच्छ्रयेऽष्ट्रांशभागोच्छ्रायविनिर्मितम् ॥७९॥ विभागश्चरणोत्सेधः प्रस्तरोऽष्ट्रांशहीनकः। त्रिभागं गलमित्युक्तमर्धांशं शिवगेोदयम् ॥८०॥ स्तूपिकाष्टांशहीनं स्यात् द्रामिडं चैकभूमिकम्। नवदशांशांशयुग्मसुद्विगुणं भवेत् ४९ ॥८१॥ तारोश्चप्रस्तरो भागो गलभागविनिर्मितम्। त्रिभागशिखरोत्सेधं शेषान् स्तूपिका भवेत् ५० ॥८२॥ द्रामिड ५१ पौष्टिकं प्रोक्तं दशांशे तु सपादकम्। मसूरद्विगुणः पादो भागविस्तार उच्यते ५२ ॥८३॥ भागमानं गलं प्रोक्तं स्वार्धांश ५३ तु शिरो भवेत्। सन्न विकाजय ५४ द्रामिडं परिकल्पितम् ॥८४॥ द्वादशांशे सपादांश मसूर त्रिभागभाक्। द्विपादः पाद इत्युक्तः सपादः प्रस्तरोदयः ॥८५॥ एकांशं गलमित्युक्तं चतुरर्थं शिराभवेत्। सपादभागस्तूप्युच्चमद्ध [तं] द्रामिडं भवेत् ॥८६॥ त्रयोदशांशे सार्धांशमसूत्रं वा त्रिभागतः। सपादः प्रस्तरः प्रोक्त एकेन गलमिष्यते ॥८७॥ पञ्चांश शिखरं ज्ञेयं सपादा स्तूपिका भवेत्। सार्वकामिकासज्ञं तु द्रामिडं परिकल्पितम् ॥८८॥

v2.c13.s4.12

सभद्रं वा विभद्रं वा कर्णकण्ठयुतं तु वा। निष्कण्ठकूटं वा कार्यं सनीडं वा सतोरणम् ॥८९॥ एवं लक्षणसंयुक्तं विधेयं चैकभूमिकम्। गर्भान्तगलवेशस्तु यदि स्यान्मरणं भवेत् ॥९०॥ नागरे सार्वदेश्ये च कालिङ्गे द्रामिडेऽपि वा। वराटैन प्रवेशं तु बेसरे परिकल्पयेत् ॥९१॥ विष्णुर्ह्या हरश्चेति विप्रराज्यं न वैश्यकाः। नागरे द्राविडे धाम्नि बेसरे त्वधिपा मताः ॥९२॥ उपानात्तूपिपर्यन्तं युगाश्रं नागरं भवेत्। कर्णाभृति वृत्तं यत्तद्देसरं परिकीर्तितम् ॥९३॥ सावदेशिकधाम्ने ५५ तन्नागराय प्रकीर्तितम्। चतुरश्रायश्रान्तं ५६ नागरं परिकीर्तितम् ॥९४॥ अष्टाश्रं च षडश्रं च तत्तदायाममेव च। सौद्रं ५७ द्रामिडमित्युक्तं प्रे वसरं ५७ परिकीर्तितम् ॥९५॥ वृत्तवृत्तायतं व्यस्रं वृत्तं चान्यत्रकथ्यते। द्रामिडाख्यविमानेऽपि नागरादिप्रभेदिकम् ॥९६॥ लिङ्गाद्यं कथितं पूर्वं वपुस्तत्रापि कथ्यते। नागरे लक्षणं पूजा नागाषाडशभञ्जितम् ॥९७॥ ऊर्ध्वं षड्भूतवेदांशं त्यक्त्वाथोक्षम ५८ कारयेत्। विष्णुवंश। दिमुखे ५९ सूत्रे पार्श्वयोद्वं च लङ्घयेत् ॥९८॥ पृष्ठे तयोर्युक्तिहीने वेदाग्निनयनान्यथ। सहायमध्यमे भूतवेदाग्निनयनानि च ॥९९॥ ज्येष्ठष्टपञ्चवेदाग्निपादभागानधस्त्यजत्। त्रिभागं चक्रभागं च द्व्यंशं सूत्रान्तरं मतम् ॥१००॥ तदधं पाश्वसूत्रामं तारं प्रोक्तं मुनीश्वराः। यवमानं भवेत्सूत्रगाम्भीर्य विस्तरेण च ॥१०१॥

v2.c13.s4.13

४९। नवदशांशांशयुग्मसुद्विगुणं भवेत्। ५०। त्रिभागः शिखरोत्सेधः शेषान् तु स्तूपिका भवेत्। ५१। द्रामिडं। ५२। मसूरद्विगुणो भागो पादविस्तार उच्यते। ५३। स्वार्धांशः। ५४। सन्न तज्जयदं नाम। ५५। धाम्ने। ५६। चतुरश्रायश्रं च। ५७। बेसरं। ५८। त्यक्त्वाधो पद्म। ५९। दिमुखे।

v2.c13.s4.14

॥ कामिकागमः ॥

v2.c13.s4.15

होने हि भवेद्रष्ट्रवैश्यै कोत्तं द्विजाः । एवं नागरलिङ्गेषु लक्षणं द्विजसत्तमाः ॥१०२॥ द्रामिडे शिवभागे तु त्रिपञ्चांशे मृते क्रमात् । नवभागदशःशोन ह्यकादशविभागाकैः ॥१०३॥ हीनमध्योत्तमख्या तु लक्षणा ६० द्वारकं भवेत् । सप्ताष्टनवभागेभ्यस्सूत्रे संलम्बयेत्क्रमात् ॥१०४॥ त्रिचतुर्द्वयराके हीने यत्स्यादत्रसूत्रयोः । मध्यमे भूतवेदाग्निध्रुवैकैषापि युतिर्भवेत् ॥१०५॥ षड्भूतदैवन्ध्यंशैः श्रष्ठे पृष्ठे तयोर्युतिः । स्वभावात्सूत्रविस्तारः पक्षमसूत्रं प्रकल्पयेत् ॥१०६॥ षोडशांशैर्दिशावायामैस्सूत्रायामो दशांशभाक् । चतुर्भागं तदूर्ध्वंघः पृष्ठे द्व्यंशं विहाय च ॥१०७॥ बकुलाधारमारभ्य संयुतिः पार्श्वसूत्रयोः । अथवाऽष्ट्यंशं तु त्यक्त्वोर्ध्वं रुद्रभागतः ॥१०८॥ नालायामस्समुद्दिष्टशेषं पूर्ववदेव हि । एवं द्राविडलिङ्गस्य ब्रह्मसूत्रं प्रकल्पितम् ॥१०९॥ बेसरस्यार्चनाशोच्चत्रिपञ्चांशे दशांशकः । नालायामस्समुद्दिष्टष्टभार ६१ प्रभृत्यथः ॥११०॥ भूतदेवगणांशेषु सङ्गमः पक्ष ६२ सूत्रयोः । द्वादशांशार्धनाभागेधांशा द्व्यंशा तदूर्ध्वतः ॥१११॥ नालायामो नवांशं स्यात्सङ्गमः पूर्ववद्भवेत् । व्यासे द्विरष्टभागे तु भागं स्यात्सूत्रविस्तृतः ६३ ॥११२॥ तदर्थं पक्ष ६४ सूत्रं स्यादन्तरं शेषपूर्ववत् । एवं बेसरलिङ्गस्य ब्रह्मसूत्रमुदाहृतम् ॥११३॥ सावदेशिकलिङ्गे तु विभागोयन्न ६५ कीर्तितः । तथा पीठं तु पीठे स्यान्नागराद्यं विधीयते ॥११४॥ अभद्रं द्रामिडे पीठ ६६ भद्रभद्रोपभद्रकम् । नागरे बेसरे योगे कालिङ्गऽपि वराटके ॥११५॥

v2.c13.s4.16

सामान्यं पीठमुद्दिष्टं प्रतिमास्त्वधुनोच्यते । गर्भे धिष्ण्यमसुरे च द्वारे स्तंभे च मस्तके ॥११६॥ स्तूपिकोच्चे दशांशे तु समांशे प्रतिमा खरा । चतुर्थ्यंशो दया हीना ६७ षड्विशालन्तरोऽन्तरम् ॥११७॥ नक्षत्रसंख्यतुङ्गानि प्रतिमायां भवन्ति हि । नागरे त्रित्रिसंख्यानि द्रामिडे नवसंख्यया ॥११८॥ बेसराणि तथान्यानि श्रेष्ठमध्याधमक्रमात् । सात्विकं राजसं चैव तामसं च त्रिधा क्रमात् ॥११९॥ सात्विकं स्थानके योग्यं राजसं नृत्तरूपके । तामसव्यानरूपे तु योजनीयं विचक्षणैः ॥१२०॥ सार्वदेशिकलिङ्गे तु विमानं नेष्यते बुधैः । धाम वा त्वमराणां तु नागराद्यं पुरा मतम् ॥१२१॥ ग्रामे च नगरे वापि पत्तने राजधानिके । खेटादौ परमेशस्य ब्रह्मस्थानेऽष्टदिक्षु वा ॥१२२॥ बहिर्वाष्टासु काष्ठासु कुड्यन्त्वर्वा बहिष्कृता । एतेषामन्तरालर्वा प्रासादं कर्तुमारभेत् ॥१२३॥ उत्तरे नागरं कुर्याद्वायव्यैशानदेशके । दक्षिणे द्रामिडं कुर्यान्मै वा नैऋतेऽपि वा ॥१२४॥ पूर्वस्मिन्पश्चिमे वापि बेसरं हर्म्यमाचरेत् । सोमपाद्वे द्वये तद्व्यमध्यपाश्वद्वये तथा ॥१२५॥ इन्द्रपार्श्वद्वये तद्वा ६८ वरुणोभयतस्तथा । धामान्येतानि सर्वाणि द्राविडानि भवन्ति हि ॥१२६॥ सार्वदेशिकहर्म्य चेत्सर्वत्र ६६ समाचरेत् । एतेषामिष्टमेकाधमिष्टदेशे समाचरेत् ॥१२७॥ ब्राह्मे चेदग्निकोणस्थे कोष्ठं वा स्याद्वा(दा)पणस्थ च । नैऋत्येशदेशस्य सभायाश्चाविरोधतः ॥१२८॥ धामान्येतानि कार्याणि वंशसूत्रानुरोधतः । पावेतीभवनं सर्वदेशे स(श)वौक्तवन्नयेत् ॥१२९॥

v2.c13.s4.17

६० । लक्षणोद्धारकं । ६१ । भाग । ६२ । पक्षसूत्रयोः । ६३ । विस्तृतिः । ६४ । पक्षसूत्रं । ६५ । विभागोऽयं न । ६६ । द्रामिडं पीठं । ६७ । चतुर्थ्यंशोदयादीना । ६८ । तद्वत् । ६९ । सार्वदेशिकहर्म्यं चेत्सर्व तत्र ।

v2.c13.s4.18

वल्यङ्कारकोपेते ७० द्रामिडाकारमेव च । विघ्नेशस्य च मध्ये वा पूर्वोक्ते वा यथा शिवे ॥१३०॥ हस्तिपृष्ठः शिवः कार्या ७१ साधारणशिवस्तु वा । सेना(नी ?)भवनं कार्यं यथा शर्वस्य सम्मतम् ॥१३१॥ पूर्वोक्तेदेशे कर्त्तव्यं नागरं विष्णुमन्दिरम् । मध्यमे व ७२ चतुर्दिक्षु नैऋतेऽन्यत्र ब्रह्मणः ॥१३२॥ बेसरं धाम कर्त्तव्यं चतुर्भद्रसमन्वितम् । वारुण्यां वाथ याम्याग्निमध्ये वा ग्राममध्यमे ॥१३३॥ श्रीधाम वैष्णवं कुर्यादग्ने नैऋतमध्यमे । ग्रामादिमध्यमेऽन्यत्र यथा वा ब्रह्ममन्दिरम् ॥१३४॥ तथाविघ्नेनाग्नेय्यां सूर्यस्य शिववन्मतम् । अष्टदिक्ष्वष्टदेशेषु क्षेत्रेशे द्रामिडं मतः ७३ ॥१३५॥ पार्वतीभवनं यद्वत्पूर्वोक्तस्थानकं द्विजाः । ज्येष्ठायामथवाऽन्या ? स्कन्दपावकमध्यमे ॥१३६॥

v2.c13.s4.19

पूर्वोक्तदेशे वा कार्यं तन्मौलिकृतं भवेत् । शास्तुर्धाम विधातव्यं यथा विघ्नेशमन्दिरम् ॥१३७॥ सोमस्य सोमदिग्भागे नैऋते वाऽथ तद्गृहम् । नागरं सोमवायव्ये वास्तुवैश्रवणे गृहम् ॥१३८॥ सोममन्दिरवत्कार्यं वह्नौ सोमेशमध्यमे । कामध्यानं यथा विष्णो मुधवन्यत्र ७४ देशतः ॥१३९॥ अनुक्तानां च सर्वेषां देवानां योषितामपि । प्रागुक्तानां च देवानां देवीनां सार्वदेशिकम् ॥१४०॥ अथवा कार्येद्धाम तद्यद्ब्राहनसंयुतम् ७५ । सार्वदेशिकसंज्ञस्य प्रासादस्य च लक्षणम् ॥१४१॥ ब्रह्मशैलस्य तद्वन्देरादिलक्षणम् ७६ । ततदध्ययनं सिद्धं ७७ सम्प्राप्तं देशिकोत्तमैः ॥१४२॥ इति श्रीकामिकाख्ये महातन्त्रे क्रियापादे नागरादिविमानभेदो ॥ नाम एकोनपञ्चाशः पटलः ॥

v2.c13.s4.20

७० । कालिङ्गाकारकोपेतं । ७१ । शिवः कार्यः । ७२ । च ७३ । मतम् । ७४ । मध्यदन्यत्र । ७५ । तत्तद्ब्राहनसंयुतम् । ७६ । ब्रह्मशैलस्य पीठस्य तत्तद्देशादिलक्षणम् । ७७ । तत्तदध्ययनात्सिद्धं ।

Cites (1)