Elements of Hindu Iconography v1.c8.153
Elements of Hindu Iconography v1.c8.153
- Language
- English
v1.c8.153
∗ चक्रं पद्मासनं कूर्म मायूरं कौक्कुटं तथा । वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा ॥ मुक्तासनं गोमुखं च मुख्यान्येतानि नारद । . . . . . ऊर्वोरुपरि संस्थाप्य उभे पादतले सुखम्॥ पद्मासनमिदं प्रोक्तं सर्वकिल्बिषनाशनम्। गुदं निपीड्य गुल्फाम्यां व्युत्क्रमेण समाहितः॥ एतत्कूर्माननं प्रोक्तं योगसिद्धि करं परम् । . . . . . पद्मासनमधिष्ठाय जान्वन्तरविनिस्तृतौ । करौ भूमौ निवेश्यैतद् व्योमस्थः कुक्कुटासनम् ॥ एकत्रोरुणि संस्थाप्य पादमेकमथेतरत् । ऊरुं पादे निवेश्यैतद्वीरासनमुदाहृतम् ॥ . . . . . सीविन्याः पार्श्वयोर्गुल्फौ निवेश्याग्रपदे दृढम् । बध्वा कराभ्यां तत्रोक्तं भद्रासनमघापहम् ॥ सीविन्याः पार्श्वयोर्गुल्फौ व्युत्क्रमेण निवेश्य च । करौ जान्वोर्निधायोभौ प्रसार्य निखिलाङ्गुलीन् ॥ नासाग्रन्यस्तनयनो व्यात्तवक्त्र ऋजुसुधीः । एतत्सिंहासनं प्रोक्तं सर्वदेवाभिपूजितम् ॥ (अहिर्बुध्न्यसंहितायां त्रिंशाध्याये ॥)
Linked texts (1)
- Ahirbudhnyasaṃhitā — Sanskrit