Elements of Hindu Iconography v1.c8.175
Elements of Hindu Iconography v1.c8.175
- Language
- English
v1.c8.175
जटामौलिः किरीटं च करण्डं च शिरस्त्रकम् ॥
कुन्तलं केशबन्धश्च धम्मिल्लालकचूडकम् ।
मकुटं च इति ख्यातं तत्तदाकारमानतः ॥
पत्रपट्टं पुष्पपट्टं रत्नपट्टं त्रिधा मतम् ।
पितामहस्य रुद्रस्य जटामकुटयोग्यकम् ॥
किरीटमकुटं चैव नारायणस्य योग्यकम् ।
अन्यदा देवतानां च करण्डमकुटान्वितम् ॥
जटामौलिर्मनोमन्याश्चेन्दिरा कुन्तलं तथा ।
सरस्वत्याश्च सावित्र्याः केशबन्धश्च कुन्तलम् ॥