Elements of Hindu Iconography v1.c8.178
Elements of Hindu Iconography v1.c8.178
- Language
- English
v1.c8.178
अथवा सर्वशक्तीनां करण्डमुकुतान्वितम् ।
किरीटं सार्वभौमस्य (चातिराज्यस्य ?) चाधिराज्यस्य योग्यकम् ॥
नरेन्द्रस्य करण्डस्यात्पार्ष्णिकस्य शिरस्त्रकम् ।
चक्रवर्त्त्यादिभूपालैः करण्डं मुकुटं सदा ॥
पत्रपट्टं पट्टधरो रत्नपट्टं च पार्ष्णिकः ।
पट्टभाक् पुष्पपट्टं च चोक्तमेवं पुरातनैः ॥
प्रभाकरास्त्रग्राहौ च पुष्पमाल्य प्रकीर्तितः ।
चक्रवर्त्तमहिष्यस्य (?) कुन्तलं मुकुटं भवेत् ॥
अधिराजनरेन्द्रस्य महिष्याः केशबन्धनम् ।
पार्ष्णिकश्च पट्टधरो मण्डलेशश्च पट्टभाक् ॥
एतेषां च महिष्याश्च धम्मिल्लालकमाहतम् ।
प्रभाकरास्त्रग्राह्याभ्यां महिष्यालकचूडकम् ॥
(मानसारे ॥)
Linked texts (1)
- Mānasāra — Sanskrit