Elements of Hindu Iconography v1.c8.180
Elements of Hindu Iconography v1.c8.180
- Language
- English
v1.c8.180
उष्णीषभूषणं कुर्यात्त्रिमात्रेण विशेषतः ।
पार्श्वयोः पुरतः पृष्ठे चतुष्पूरिसमन्वितम् ॥
मध्ये मकरकूटं स्यात्सप्तकोटरसंयुतम् ।
पार्श्वयोः पत्रकूटं स्यात्पृष्ठे स्याद्रत्नकूटकम् ॥
अग्रे दशाङ्गुलं तस्य मूले तु मुखविस्तरम् ।
तत्तत्त्रिगुणाऽहं तु वामे वामेऽर्धचन्द्रकम् ॥
वामे महापणिं (?) तस्य सर्वालङ्कारभूषितम् ।
जटाभिः पञ्चभिर्ग्रन्थिं त्रिमात्रेण विशेषतः ॥
एकधा तु त्रिधावृत्य शेषाभिः पार्श्वलम्बनम् ।
जटामुकुमेतद्धि सर्वालङ्कारमीरितम् ॥
(उत्तरकामिकागमेऽष्टचत्वारिंशत्तमपटले ॥)