Elements of Hindu Iconography v3.c22.s9: देव्यः ।
Elements of Hindu Iconography v3.c22.s9
- Language
- English
Contents
- v3.c22.s9.t1 दुर्गामूर्तित्रयम् । — 41 parts
- v3.c22.s9.t2 चण्डिका । — 41 parts
- v3.c22.s9.t3 नन्दा । — 1 part
- v3.c22.s9.t4 भद्रकाली । — 6 parts
- v3.c22.s9.t5 महाकाली । — 3 parts
- v3.c22.s9.t6 अम्बा । — 1 part
- v3.c22.s9.t7 अम्बिका । — 18 parts
- v3.c22.s9.t8 गौर्या मूर्तयः । — 8 parts
- v3.c22.s9.t9 गौर्यायतनम् । — 8 parts
- v3.c22.s9.t10 भूतमाता । — 51 parts
- v3.c22.s9.t11 सिद्धिः । — 2 parts
- v3.c22.s9.t12 ऋद्धिः । — 2 parts
- v3.c22.s9.t13 क्षमा । — 2 parts
- v3.c22.s9.t14 दीप्तिः । — 1 part
- v3.c22.s9.t15 रतिः । — 14 parts
- v3.c22.s9.t16 दितिः । — 1 part
- v3.c22.s9.t17 अरुन्धती । — 1 part
- v3.c22.s9.t18 अपराजिता । — 5 parts
- v3.c22.s9.t19 सुरभिः । — 2 parts
- v3.c22.s9.t20 कृष्णा । — 2 parts
- v3.c22.s9.t21 इन्द्राक्षी । — 2 parts
- v3.c22.s9.t22 अन्नपूर्णा । — 3 parts
- v3.c22.s9.t23 तुलसीदेवी । — 36 parts
- v3.c22.s9.t24 श्रीः । — 1 part
- v3.c22.s9.t25 महालक्ष्मीः । — 2 parts
- v3.c22.s9.t26 सरस्वती । — 19 parts
देव्यः ।
v3.c22.s9.1
देव्याः ।
v3.c22.s9.2
देवी ।
v3.c22.s9.3
देव्यास्संस्थापनं वक्ष्ये तल्लक्षणपुरुस्सरम् । शिलादिद्रव्यमापाद्य तैः कुर्यात्प्रतिमां ततः ॥
v3.c22.s9.4
चतुर्भुजा त्रिनेत्रा च सुप्रसन्नैकवक्त्रका । दुकूलवसना देवी करण्डमकुटान्विता ॥
v3.c22.s9.5
वरदाभयसंयुक्ता पाशाङ्कुशकरान्विता । द्विभुजा वा द्विर्नेत्रा वा प्रलम्बितकरान्विता ॥
v3.c22.s9.6
पद्महस्तातिशान्ता च सा देवी कनकप्रभा । शुकोत्पलकरा वापि शूलपाशकरापि वा ॥
v3.c22.s9.7
यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा । दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ॥
v3.c22.s9.8
देवोक्तास्वासना वापि देवालिनङ्गतत्परा । देवोरुसंस्थिता वापि स्थानकासनसंयुता ॥
v3.c22.s9.9
प्रलम्बवामपादा वा लम्बितापरपादका । देवेन सहिता वापि केवला वा प्रकीर्तिता ॥
v3.c22.s9.10
इयामा श्वेताथवा रक्ता साधकेच्छानुरूपतः । ऋज्वाकारयुता वापि द्विभङ्गिसहिताथवा ॥
v3.c22.s9.11
एवं देवी प्रकर्तव्या तस्यास्संज्ञा द्विधा मता । मनोन्मनीति गौरीति लक्ष्यभेदं नु नानयोः ॥
v3.c22.s9.12
मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्पिता । तदा मनोन्मनीसंज्ञां लभते विप्रसत्तमाः ! ॥
v3.c22.s9.13
नृत्तूर्यादिभेदेषु गौर्याख्यायां समश्नुते ।
v3.c22.s9.14
(उत्तरकामिकागमे चतुश्चत्वारिंशत्तमपटले ॥)
v3.c22.s9.15
द्विभुजां श्यामवर्णां तु सर्वाभरणभूषिताम् । दक्षिणे चोत्पलं ग्राह्यं वामहस्तं प्रसारयेत् ॥
v3.c22.s9.16
किरीटं वा करण्डाख्यं तुङ्गपीनपयोधराम् । गौरीरूपमिदं विद्धि विष्णुरूपं ततश्शृणु ॥
v3.c22.s9.17
(सुप्रभेदागमे चतुस्त्रिंशत्तमपटले ॥)
v3.c22.s9.18
द्विभुजा च द्विनेत्रा च किंचित्प्रहसितानना । करण्डमकुटोपेता सर्वाभरणभूषिता ॥
v3.c22.s9.19
दुकूलवसनोपेता सर्वावयवसुन्दरी । दक्षिणे कटकं हस्तं वामहस्तं प्रलम्बितम् ॥ पीनोरुः पीनगण्डा च पीनस्तनसमन्विता । द्विबाहुका द्विनेत्रा च श्यामाभा कमलेक्षणा ॥ दक्षिणे चोत्पलं हस्ते वामहस्तं प्रलम्बितम् । भवान्याकृतिरेवं स्याद्रागीश्याकृतिरुच्यते ॥ (पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s9.20
दुर्गा । चतुर्भुजा त्रिनेत्रा च सा स्याच्छ्यामनभा वरा । सौम्या पीताम्बरोपेता पीनोरुजघनस्तना ॥ करण्डमकुटोपेता सर्वाभरणभूषिता । अभयं दक्षिणं हस्तं कटकं वामहस्तकम् ॥ परहस्ते तु सव्ये तु चक्रं वामे तु शङ्खधृक् । समपादस्थिता चैव पद्मपीठोपरिस्थिता ॥ नागेन्द्रेण स्तनं बध्वा रक्तकञ्चुकधारिणी । एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥ (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)
v3.c22.s9.21
आदिशक्तेस्समुद्भूता विष्णुप्रानुजा शुभा । शङ्खचक्रधरा देवी धनुस्सायकधारिणी ॥
v3.c22.s9.22
खड्गखेटकसंयुक्ता शूलपाशसमायुता । चतुर्भुजां वा कुर्वीत सर्वाभरणभूषिताम् ॥ श्यामवर्णां सुवदनां महिषस्य शिरस्थिताम् । सिंहारूढां च वा कुर्यात्पद्मासनसमागतम् ॥
v3.c22.s9.23
(सुप्रभेदागमे षट्चत्वारिंशत्तमपटले ॥)
v3.c22.s9.24
शक्तिं बाणं तथा शूलं खड्गं चक्रं च दक्षिणे । चन्द्रबिम्बमधो वामे खेटमूर्ध्वं कपालकम् ॥ शूलं चक्रं च बिभ्राणा सिंहारूढा च दिग्भुजा । एषा देवी समुद्दिष्टा दुर्गा दुर्गपहारिणी ॥
v3.c22.s9.25
(विष्णुधर्मोत्तरे ॥)
v3.c22.s9.26
ललाटलोचनं तस्यास्तिलकं च शिखामणिः । शशिखण्डकिरीटं वा मकुटं सकरण्डकम् ॥ सनक्रकुण्डलं रत्नमण्डनं कर्णमण्डनम् । कर्णावतंसाकर्णचूलिकापालिकान्वितम् ॥ चतुर्भुजसमायुक्तामष्टाभिर्दोर्भिरन्विताम् । शूलं खड्गं शरं चक्रं दक्षिणेषु करेषु च ॥ पाशखेटकशाङ्गैश्च शङ्खं वामकरेपु च । चतुर्भुजे च वामे तु शङ्खं वरदहस्तकम् ॥
v3.c22.s9.27
चक्रं चाभयहस्तं च दक्षिणे तु समायुता ।
द्विनेत्रा सौम्यवदना महिषस्य शिरस्थिता ॥
दुर्गास्याकृतिर्ह्येवं ब्रह्मण्याकृतिरुच्यते ।
(पूर्वकारणागमे द्वादशपटले ॥)
दुर्गामूर्तित्रयम् ।
v3.c22.s9.t1.1
वरं त्रिशूलं खेटं च पानपात्रं च बिभ्रती ।
नीलकण्ठे तथा नागा१ महालक्ष्मीसुखप्रदा ॥
वरं त्रिशूलं पद्मं च पानपात्रं करे तथा ।
क्षमङ्करी तदा नाम क्षमारोग्यप्रदायिनी ॥
कमण्डलुं च खड्गं च डमरुं पानपात्रकम् ।
हरसिद्धिस्तदा नाम सर्वेषां सिद्धयेतवे ॥
(रूपमण्डने ॥)
v3.c22.s9.t1.2
रुद्रांशदुर्गा ।
v3.c22.s9.t1.3
रक्ताम्बरां श्यामलिनीं द्विनेत्रां किरीटरत्नाङ्कितहेमभूषाम् ।
सशूलखड्गां धृतशङ्खचक्रां मृगेन्द्रयानां रविचन्द्रभूषाम् ॥
(कारणागमे ॥)
v3.c22.s9.t1.4
¹ ‘नीलकण्ठी तदा नामे’ति स्यात् ।
v3.c22.s9.t1.5
वनदुर्गा ।
v3.c22.s9.t1.6
अरिशङ्खकृपाणखेटबाणसधनुश्शूलतर्जनीं दधाना ।
मम सा महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥
v3.c22.s9.t1.7
(आम्नाये ॥)
v3.c22.s9.t1.8
अग्निदुर्गा ।
v3.c22.s9.t1.9
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ॥
हस्तैश्चक्रवरासिखेटविशिखांश्चापाङ्कुशौ तर्जनीं ।
बिभ्राणामनलात्मिकां शशीधरां दुर्गां त्रिनेत्रां भजे ॥
v3.c22.s9.t1.10
जयदुर्गा ।
v3.c22.s9.t1.11
कालां स्फारां कटाक्षैरकुलभयदां मौलिबद्वेन्दुरेखां
शङ्खं चक्रं कृपाणं विशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेदुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
v3.c22.s9.t1.12
विन्ध्यवासिनी दुर्गा ।
v3.c22.s9.t1.13
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्स्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥
v3.c22.s9.t1.14
रिपुमारिणी दुर्गा ।
v3.c22.s9.t1.15
तर्जनीं विशिखं दोर्भ्यां धारयन्तीं भयङ्करीम् । रक्तां ध्यात्वा रवेर्बिम्बे प्रजपेद्युतं मनुम् ॥
v3.c22.s9.t1.16
मारयेदचिरादेव रिपूबन्धुसमन्वितान् ।
v3.c22.s9.t1.17
(शारदातिलके ॥)
v3.c22.s9.t1.18
कात्यायनी ।
v3.c22.s9.t1.19
वक्ष्ये कात्यायनीं देवीं शिवनारायणान्विताम् । बाहुभिर्दशभिर्युक्तां जटामुकुटमण्डिताम् ॥
v3.c22.s9.t1.20
लोचनत्रयसंयुक्तामर्धेन्दुकृतशेखराम् । अतसीपुष्पसंकाशामिन्दीवरदलेक्षणाम् ॥
v3.c22.s9.t1.21
पीनोन्नतकुचाम्भोजां तनुमध्येन शोभिताम् । त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दनीम् ॥
v3.c22.s9.t1.22
त्रिशूलं दक्षिणे खड्गं शक्तिं चक्रधरं (?) तथा । अधिज्यं कार्मुकं वामे पाशमङ्कुशखेटकम् ॥
v3.c22.s9.t1.23
घण्टां च परशुं चापि धारयन्तीं समालिखेत् । अधस्तान्महिषं चास्याश्छिन्नग्रीवं समालिखेत् ॥
v3.c22.s9.t1.24
छिन्नस्थाने समुत्पन्नं खड्गखेटकधारिणम् । हृदि शूलेन निर्भिन्नं रुधिरारुणविग्रहम् ॥
v3.c22.s9.t1.25
प्रबद्धं नागपाशेन भ्रुकुटीभीषणेक्षणम् । नाभेरूध्वं विनिष्क्रान्तं दानवं दारुणं लिखेतू ॥
v3.c22.s9.t1.26
दक्षिणं चरणं देव्यास्सिंहपृष्ठे प्रतिष्ठितम् । उत्तुङ्गम्स्थितं वामं महिष्योपरिस्थितम् ॥
v3.c22.s9.t1.27
(शिल्परत्नसंयोजिते कस्मिंश्चिद्ग्रन्थे ॥)
v3.c22.s9.t1.28
कात्यायन्याः प्रवक्ष्यामि रूपं दशभुजं तथा । त्रयाणामपि देवानामनुकारानुकारिणीम् ॥
v3.c22.s9.t1.29
जटाजूटसमायुक्तामर्धेन्दुकृतलक्षणाम् । लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥
v3.c22.s9.t1.30
अतसीपुष्पसङ्काशां सुप्रतिष्ठां सुलोचनाम् । नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥
v3.c22.s9.t1.31
सुचारुदर्शनां तद्वत्पीनोन्नतपयोधराम् । त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥
v3.c22.s9.t1.32
त्रिशूलं दक्षिणे दध्यात्खङ्गं चक्रं तथैव च । तीक्ष्णबाणं तथा शक्तिं वामतो विनिबोधत ॥
v3.c22.s9.t1.33
खेटकं पूर्णपात्रं च पाशमङ्कुशमेव च । घण्टां च परशुं चापि चामरं सन्निवेशयेत् ॥
v3.c22.s9.t1.34
अधस्तान्महिषं विद्याद्विशिरस्कं प्रदर्शयेत् । शिरश्छेदोद्भवं तद्दानवं खड्गपाणिकम् ॥
v3.c22.s9.t1.35
हृदि शूलेन निर्भिन्नं निर्यद्दन्तविभूषणम् ।
रक्तक्तीकृताङ्गं च रक्तविस्तारितेक्षणम् ॥
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशं च दुर्गया ॥
वमद्रुधिरवक्त्रं च देव्यास्सिंहं प्रदर्शयेत् ।
v3.c22.s9.t1.36
(मयदीपिकायाम् ॥)
v3.c22.s9.t1.37
कात्यायनीं ततो वक्ष्ये दशहस्तां महाभुजाम् ।
तेजःप्रतापदा नित्यं नृपाणां सुखबोधिनी ॥
त्रिभङ्गस्थानसंस्थाना महिषासुरसूदनी ।
दक्षे त्रिशूलं खड्गं च चक्रं बाणं च शक्तिकाम् ॥
खेटकं पूर्णाचापं च पाशमङ्कुशमेव च ।
घण्टा च वामतो वूयदैत्यमूर्धजधृत्करी१ ॥
अधस्तान्महिषं तद्विधिशिरस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम्२ ॥
हृदि शूलेन निर्भिन्नं निर्यद्दन्तविभूषितम् ।
रक्तक्तीकृताङ्गं च रक्तविस्फारितेक्षणम् ॥
v3.c22.s9.t1.38
१ ‘दध्यादैत्यमूर्धजधृत्करी’ ति स्यात् ।
v3.c22.s9.t1.39
२ ‘पाणिक’ मिति स्यात् ।
v3.c22.s9.t1.40
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किञ्चिदूध्र्वं तथा वाममङ्गुष्ठं महिषोपरि ॥
v3.c22.s9.t1.41
(रूपमण्डने ॥)
चण्डिका ।
v3.c22.s9.t2.1
निगद्यते ह्यथो चण्डी हेमाभा सा सुरूपिणी । त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्ध्वस्थिता मता ॥
v3.c22.s9.t2.2
कृशमध्या विशालाक्षी चारुपीनपयोधरा । एकवक्त्रा तु सुग्रीवा बाहुविंशतिसंयुता ॥
v3.c22.s9.t2.3
शूलासिशङ्खचक्राणि बाणशक्तिपवीनपि । अभयं डमरुं चैव छत्रिकां दक्षिणे करे ॥
v3.c22.s9.t2.4
ऊर्ध्वादिक्रमयोगेन बिभ्रती सा सदा शुभा । नागं पाशं तथा खेटं कुठाराङ्कुशकार्मुकम् ॥
v3.c22.s9.t2.5
घण्टाध्वजदादर्शं मुद्गरं वाम एव च । तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥
v3.c22.s9.t2.6
शस्त्रोद्यतकरस्तब्धस्तद्ग्रीवासंभवः पुमान् । शूलभिन्नो वमद्रक्तो रक्तभूमूर्धजेक्षणः ॥
v3.c22.s9.t2.7
सिंहेन खाद्यमानश्च पाशबद्धो गले भृशम् । याम्याङ्घ्याक्रान्तसिंहा च सव्याङ्घ्यालीढगासुरे ॥
v3.c22.s9.t2.8
चण्डी चोद्यतशस्त्रेयं चाशेषरिपुनाशिनी ।
v3.c22.s9.t2.9
चण्डिका श्वेतवर्णा सा शिवरूपा च सिंहगा१ । जटिला वर्त्तुलत्र्यक्षा वरदा शूलधारिणी ॥
v3.c22.s9.t2.10
कर्त्रिकां बिभ्रती दक्षे पाशपात्राभयान्विता२ ।
v3.c22.s9.t2.11
(नृसिंहप्रासादे ॥)
v3.c22.s9.t2.12
गोधासनाद्वेद्गौरी लीलया (?) हंसवाहना । सिंहारूढा भवेद्दुर्गा मातरस्त्वस्ववाहनाः ॥
v3.c22.s9.t2.13
चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी भग्ननेत्रा च निर्मांसा विकृतानना ॥
v3.c22.s9.t2.14
व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता । कपालमालिनी कृष्णा शवारूढा भयावहा ॥
v3.c22.s9.t2.15
त्रिशूलं खेटकं खङ्गं धनुः पाशाङ्कुशे शरः । कुठरो३ दर्पणं घण्टा शङ्खचक्रं गदा पविः ॥
v3.c22.s9.t2.16
दण्डो मुद्ग्रह४ इत्येतैर्यथास्थानायुधैर्युता । बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी ॥
v3.c22.s9.t2.17
१. ‘स्याच्छवारूढा च षड्भुजे’ ति विष्णुधर्मोत्तरपाठः । २. ‘वर्णिकां बिभ्रती दक्षे पानपात्राभयान्वतः’ इति विष्णुधर्मोत्तरपाठः । ३. कुठार इति स्यात् । ४. मुद्गर इति स्यात् ।
v3.c22.s9.t2.18
चण्डिकाप्रतीहाराः ।
v3.c22.s9.t2.19
चण्डिकायाः प्रतीहारान्कथयिष्याम्यनुक्रमात् । वेतालः करटश्चैव पिङ्गाक्षो भुकुटस्तथा ॥
v3.c22.s9.t2.20
धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्रानविकटास्यास्सफुरदशनोद्धुलाः ॥
v3.c22.s9.t2.21
बर्बरा कृष्णदेहाश्च रक्ताश्च सु महाबलाः । तर्जनी चैव खट्वाङ्गमुर्ध्वं डमरुदण्डकौ ॥
v3.c22.s9.t2.22
वेतालस्तु समाख्यातोऽपसव्ये करटः पुनः । अभयं खड्गखेटं च दण्डं पिङ्गललोचनः ॥
v3.c22.s9.t2.23
वामापसव्ययोगेन भवेद्भुकुटिनामके । तर्जनी वज्राङ्कुशे च दण्डं धूम्रक ईरितः ॥
v3.c22.s9.t2.24
सव्यापसव्ययोगेदं भवेत्कङ्कदनामकः । तर्जनी च त्रिशूलं च खट्वाङ्गं दण्ड एव च ॥
v3.c22.s9.t2.25
रक्ताक्षो नामभेदेन वामे दक्षे त्रिलोचनः(?) । दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशकाः ॥
v3.c22.s9.t2.26
(रूपमण्डने ॥)
v3.c22.s9.t2.27
नव दुर्गाः ।
v3.c22.s9.t2.28
नवपद्मान्विते स्थाने पूज्या दुर्गास्वमूर्तितः । आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् ॥
v3.c22.s9.t2.29
अष्टादशभुजैका तु पीनवक्षोरुहोरुहा १ । सर्वालङ्कारसंयुक्ता सर्वसिद्धिप्रदायिनी ॥
v3.c22.s9.t2.30
मूर्धजं खेटकं घण्टामादर्शं तर्जनीं धनुः । ध्वजं डमरुकं पाशं बिभ्रती वामपाणिभिः ॥
v3.c22.s9.t2.31
शक्तिमुद्गरशूलानि वज्रं शङ्खमथाङ्कुशम् २ । शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ॥
v3.c22.s9.t2.32
जयमिच्छद्भिरित्येताः पूजनीया महात्मभिः । शेषाषोडशहस्ताश्च शलाकां मार्गणं विना ३ ॥
v3.c22.s9.t2.33
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥
v3.c22.s9.t2.34
नवमी चोग्रचण्डा च मध्यस्था वह्निसन्निभा । रोचनाभारुणा कृष्णा नीला शुक्ला च धूम्रिका ॥
v3.c22.s9.t2.35
पीता च पाण्डुरा ज्ञेया आलीढस्था हरिस्थिता ४ । महिषस्था सशस्त्रीका दैत्यमूर्धजमुष्टिका ॥
v3.c22.s9.t2.36
पद्माकृतिरवस्थाप्या इत्युक्तं स्कन्दयामले ।
v3.c22.s9.t2.37
(भविष्यपुराणे ॥)
v3.c22.s9.t2.38
¹ ‘वक्षोभुजोरुके’ति कारणागमपाठः ।
v3.c22.s9.t2.39
² ‘शङ्खमथाम्बुज’ मिति कारणागमपाठः ।
v3.c22.s9.t2.40
³ ‘शरं डमरुकं विने’ति कारणागमपाठः ।
v3.c22.s9.t2.41
⁴ ‘हरिद्वता’ इति कारणागमपाठः ।
नन्दा ।
v3.c22.s9.t3.1
नन्दा भगवती देवी भारद्वाजाभिनन्दजा । वरपाशाङ्कुशानि बिभ्रती च चतुर्भुजा ॥ गौरवर्णा गजस्था वा खड्गखेटवराभया ।
भद्रकाली ।
v3.c22.s9.t4.1
अष्टादशभुजा कार्या भद्रकाली मनोहरा । आलीढस्वासनास्था१ च चतुस्सिंहे रथे स्थिता ॥ अक्षमाला त्रिशूलं च खड्गश्चन्द्रश्च यादव२ । बाणचापे च कर्तव्ये शङ्खपद्मे तथैव च ॥ स्रुक्स्रुवौ च तथा कार्यौ तथोदकमण्डलू३ । दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ ॥ हस्तानां भद्रकाल्यास्तु भवेच्छान्तिकरः करः४ । एकश्चैव महाभाग रत्नपात्रधरो भवेत् ॥
v3.c22.s9.t4.2
१ ‘आलीढस्थानसंस्थाने’ति नृसिंहप्रासादपाठः ।
v3.c22.s9.t4.3
२ ‘खड्गं चर्म च सर्वदे’ति नृसिंहप्रासादपाठः ।
v3.c22.s9.t4.4
३ ‘तथा दिव्यकमण्डलु’ रिति नृसिंहप्रासाद-पाठः ।
v3.c22.s9.t4.5
४ ‘भवेच्छान्तिकरोऽवर’ इति नृसिंहप्रासादपाठः ।
v3.c22.s9.t4.6
(विष्णुधर्मोत्तरे ॥)
महाकाली ।
v3.c22.s9.t5.1
खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
(चण्डीकल्पे ॥)
v3.c22.s9.t5.2
अष्टबाहुमहाकाया कालमेघसमप्रभा ।
शङ्खचक्रगदाकुम्भमुसलाङ्कुशपाशयुक ॥
वज्रं करे बिभ्रती सा महाकाली मुदेऽस्तु नः ।
(कारणागमे ॥)
v3.c22.s9.t5.3
सा भिन्नाञ्जनसङ्काशा दंष्ट्राङ्कितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥
खड्गपात्रशिरःखेटरलंकृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरस्त्रजम् ॥
अम्बा ।
v3.c22.s9.t6.1
अम्बा कुमुदवर्णाभा पाशाब्जाभीतिपात्रिणी ।
(विष्णुधर्मोत्तरे ॥)
अम्बिका ।
v3.c22.s9.t7.1
सिंहारूढाम्बिका त्र्यक्षा भूषिता दर्पणोद्वहा ।
(वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्ता, यदुक्तम्—
v3.c22.s9.t7.2
दक्षिणे तु करे प्रोक्तो वरस्साधारणस्सदा । खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा ॥ (लक्षणसमुच्चये ॥)
v3.c22.s9.t7.3
मङ्गला ।
v3.c22.s9.t7.4
सिंहासनस्थिता देवी जटामुकुटमण्डिता । शूलाक्षसूत्रधरा च वरदाभयचापधृक् ॥ दर्पणं शरखेटं च खड्गचन्द्रधरा शिवा । सुरूपा लक्षणोपेता सुस्तनी चारुहासिनी ॥ सर्वाभरणभूषाङ्गी सर्वशोभासमन्विता । (देवीपुराणे ॥)
v3.c22.s9.t7.5
सर्वमङ्गला ।
v3.c22.s9.t7.6
चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गला । अक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे ॥ (विष्णुधर्मोत्तरे ॥)
v3.c22.s9.t7.7
हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशदलषोडशाष्टदलयुक्पद्मस्थितां सुस्मिताम् । भक्तानां धनदां वरं च दधतीं वामेन हस्तेन त- दक्षिणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥ (शरभतन्त्रे ॥)
v3.c22.s9.t7.8
कालरात्रिः ।
v3.c22.s9.t7.9
एकबेणी१ जपाकर्णपूरा नग्ना खरस्थिता ।
लम्बोष्ठी२ कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा३ ।
वर्धन्मूर्ध्वजा कृष्णा४ कालरात्रिर्भयङ्करी ॥
v3.c22.s9.t7.10
ललिता ।
v3.c22.s9.t7.11
शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः ।
याम्ये फलाज्ञनीहस्ता ललितोर्ध्वा सुभूषणा ॥
v3.c22.s9.t7.12
गौरी ।
v3.c22.s9.t7.13
गौरी कुमारिकारूपा ध्यायमाना महेश्वरैः ।
वरदाभयहस्ता सा द्विभुजा श्रेयसे सदा ॥
अक्षसूत्राभये पद्मं तस्याधश्च कमण्डलुः ।
गौर्या मूर्तिश्चतुर्बाहुः कर्तव्या कमलासना ॥
v3.c22.s9.t7.14
(विष्णुधर्मोत्तरे ॥)
v3.c22.s9.t7.15
¹ 'एकवीणे' ति विष्णुधर्मोत्तरपाठः ।
v3.c22.s9.t7.16
² 'लम्बोष्ठी' ति विष्णुधर्मोत्तरपाठः ।
v3.c22.s9.t7.17
³ 'वामपादोल्लसल्लोहकृतकण्टकभूषणे' ति विष्णुधर्मोत्तरपाठः ।
v3.c22.s9.t7.18
⁴ 'वर्धन्मूर्ध्वजाकृष्णे' ति विष्णुधर्मोत्तरपाठः ।
गौर्या मूर्तयः ।
v3.c22.s9.t8.1
अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्तिनिर्णयम् । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ॥
v3.c22.s9.t8.2
अक्षसूत्राम्बुजे धत्ते दर्पणं च कमण्डलुम् । उमानाम्नी भवेन्मूर्तिर्वन्दिता त्रिदशैरपि ॥
v3.c22.s9.t8.3
अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् । पक्षद्वयेऽग्निकुण्डे च मूर्तिस्सा पार्वती स्मृता ॥
v3.c22.s9.t8.4
अक्षसूत्रं तथा पद्ममभयं च वरं तथा । गोधासनाश्रिता मूर्तिर्गृहे पूज्या श्रिये सदा ॥
v3.c22.s9.t8.5
कमण्डल्वक्षसूत्रं च बिभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्तव्या सर्वकामदा ॥
v3.c22.s9.t8.6
शूलाक्षसूलदण्डांश्च बिभ्राणा श्वेतचामरम् । तोतल्ला कथिता चेयं सर्वपापप्रणाशिनी ॥
v3.c22.s9.t8.7
नागपाशाङ्कुशौ चैवाभयदं वरदं करम् । त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥
v3.c22.s9.t8.8
(रूपमण्डने ॥)
गौर्यायतनम् ।
v3.c22.s9.t9.1
वामे सिद्धिः श्रिया (?) याम्ये सावित्री चैव पश्चिमे । पृष्ठकर्णद्वये कार्या भगवती सरस्वती ॥
v3.c22.s9.t9.2
ईशाने तु गणेशस्यात्कुमारश्चाग्निकोणके । मध्ये गौरी प्रतिष्ठाप्या सर्वाभरणभूषिता ॥
v3.c22.s9.t9.3
गौर्या अष्टौ द्वारपालिकाः ।
v3.c22.s9.t9.4
अभयाङ्कुशपाशदण्डैर्जया चैव तु पूर्वतः । सव्यापसव्ययोगेन विजया नाम सा भवेत् ॥
v3.c22.s9.t9.5
अभयाम्बुजपाशदण्डैरजिता चापराजिता । अभयवज्राङ्कुशदण्डैर्विभक्ता मङ्गलापि च ॥
v3.c22.s9.t9.6
अभयशङ्खपद्मदण्डैर्मोहिनी स्तम्भिनी तथा । जया च विजया चैव अजिता चापराजिता ॥
v3.c22.s9.t9.7
विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा । गौर्या आयतने सृष्टा अष्टौ स्युर्द्वारपालिकाः ॥
v3.c22.s9.t9.8
(रूपमण्डने ॥)
भूतमाता ।
v3.c22.s9.t10.1
श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना । द्विभुजा बिभ्रती लिङ्गं चर्म शस्त्रं तु दक्षिणे ॥
v3.c22.s9.t10.2
सिंहासनोपविष्टेयं मुक्ताभरणमूर्धजा । भूतप्रेतपिशाचैस्सेविता तु विशेषतः ॥
v3.c22.s9.t10.3
इन्द्रयक्षैश्च गन्धर्वैस्सिद्धविद्याधरादिभिः । अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता ॥
v3.c22.s9.t10.4
योगनिद्रा । निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा१ । पानपात्रधरा२ चेयं द्विभुजा परिकीर्तिता ॥
v3.c22.s9.t10.5
(विष्णुधर्मोत्तरे ॥)
v3.c22.s9.t10.6
वामा । वृत्तस्था जटिला त्र्यक्षा वह्निज्वालासमप्रभा । कपालाभयहस्तोत्रा वामावामफलप्रदा ॥
v3.c22.s9.t10.7
द्विबाहुरेक्ववैषा विधातव्या विपश्चिता ।
v3.c22.s9.t10.8
ज्येष्ठा । पाटलाभा भवेद्ष्टाकपालशरधारिणी । उग्रा महाबला भूत्यै शत्रुघ्नी शेषपूर्वजा ॥
v3.c22.s9.t10.9
रौद्री । रक्तवस्त्रा तथा रौद्री कपालचमरीकरा । शेषपूर्वा तु विज्ञेया कृष्णवक्त्रा सुभीषणा ॥
v3.c22.s9.t10.10
१. ‘कमलेक्षणे’ ति पाद्मसंहितापाठः । २. ‘पाशपात्रधरे’ ति पाद्म-संहितापाठः ।
v3.c22.s9.t10.11
काली ।
v3.c22.s9.t10.12
घनश्यामा ततः काली ताम्ररक्तनिमानना । कपालकर्णिकाहस्ता विज्ञेया भयनाशिनी ॥
v3.c22.s9.t10.13
कलविकर्णिका ।
v3.c22.s9.t10.14
नीलशुभा महादेवी विकर्णी कलपूर्विका । कपालशक्तिहस्तेयं भयहच्च शुभप्रदा ॥
v3.c22.s9.t10.15
बलविकर्णिका ।
v3.c22.s9.t10.16
बभ्रुवर्णा विशालाक्षी कपालं जपमालिकाम् । बिभ्राणा शान्तिदा भूत्यै बलपूर्वा विकर्णिका ॥
v3.c22.s9.t10.17
बलप्रमथनी ।
v3.c22.s9.t10.18
ताम्राभा श्वेतवर्णा स्याद्बलप्रमथनी शुभा । कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी ॥
v3.c22.s9.t10.19
सर्वभूतदमनी ।
v3.c22.s9.t10.20
जपाकुसुमवर्णाभा दंष्ट्री च महोदरी । कपालवज्रिणी भूतदमनी सर्वपूर्विका ॥
v3.c22.s9.t10.21
(भविष्यत्पुराणे ॥)
v3.c22.s9.t10.22
मनोन्मनी ।
v3.c22.s9.t10.23
नीलताम्रारुणा भासा पृथुवक्त्रा मनोन्मनी । कपालखङ्गिनी भूत्यै शत्रूणां भयवर्धनी ॥
v3.c22.s9.t10.24
(विश्वकर्मशास्त्रे ॥)
v3.c22.s9.t10.25
वारुणी चामुण्डा ।
v3.c22.s9.t10.26
लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा । शूलहस्ता महाभागा भुजप्रहरणा तथा ॥
v3.c22.s9.t10.27
कार्पासकलुषा(?) देवी वारुणी चातिसुन्दरी । बृहन्नखा च कर्तव्या बहुबाहुस्तथैव च ॥
v3.c22.s9.t10.28
चामुण्डा कथिता चैव सर्वसत्ववशङ्करी ।
v3.c22.s9.t10.29
(विष्णुधर्मोत्तरे ॥)
v3.c22.s9.t10.30
रक्तचामुण्डा ।
v3.c22.s9.t10.31
खङ्गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगीश्वरीति च ॥
v3.c22.s9.t10.32
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् । इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥
v3.c22.s9.t10.33
अधीते य इमां नित्यं रक्तदन्त्यावपुस्तकम् (?) । तं सा पारिचरेद्देवी पतिं प्रियमिवाङ्गना ॥
v3.c22.s9.t10.34
शिवदूती ।
v3.c22.s9.t10.35
तथैवार्तमुखी शुष्का शुष्ककाया विशेषतः । बहुबाहुयुता देवी भुजगैः परिवेष्टिता ॥ कपालमालिनी भीमा तथा खट्वाङ्गधारिणी । शिवदूती तु कर्तव्या शृगालवदना शुभा ॥ आलीढासनसंस्थाना तथा राजंश्चतुर्भुजा । असृक्पात्रधरा देवी खड्गशूलधरा तथा ॥ चतुर्हस्तु करस्तस्यास्तथा कार्यस्तु सामिषः ।
v3.c22.s9.t10.36
(मत्स्यपुराणे ॥)
v3.c22.s9.t10.37
वामाधो रत्नपात्रं तदुपरि च गदां खेटपाशौ दधानां
दक्षैः पद्मं कुठारं तदुपरि च महाखङ्गमध्येऽङ्कुशं च ।
मध्याह्वार्कप्रभाभां नवमणिविलसद्भूषणामष्टहस्तां
दूतीं नित्यां त्रिनेत्रां सुरगणमुनिभिस्स्तूयमानां भजेऽहम् ॥
v3.c22.s9.t10.38
(श्रीतत्त्वनिधौ ॥)
v3.c22.s9.t10.39
योगेश्वरी ।
v3.c22.s9.t10.40
दशबाहुस्त्रिनेत्रा च शस्त्रशक्त्यसिडामरम् । बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकम् ॥ खट्वाङ्गं च त्रिशूलं च देवी योगेश्वरी मता ।
v3.c22.s9.t10.41
(लक्षणसमुच्चये ॥)
v3.c22.s9.t10.42
भैरवी ।
v3.c22.s9.t10.43
एवंरूपा भवेदन्या पाशाङ्कुशयुतारुणा । भैरव्याख्या यदीष्टा तु भुजैर्द्वादशभिर्युता ॥
v3.c22.s9.t10.44
(विश्वकर्मशास्त्रे ॥)
v3.c22.s9.t10.45
त्रिपुरभैरवी ।
v3.c22.s9.t10.46
उद्यद्भानुसहस्रकान्तमरुणाक्षां शिरोमालिनीं रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् । हस्ताब्जैर्दधतीं विनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥
First 200 of 327 passages. Read on
Cites (18)
- Bhaviṣyapurāṇa — Vyāsa, Sanskrit
- Matsyapurāṇa — Vyāsa, Sanskrit
- Mārkaṇḍeyapurāṇa — Vyāsa, Sanskrit
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Nāradasaṃhitā — Nārada, Sanskrit
- Kāraṇāgama — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Lakṣaṇasamuccaya — Hemādri, Sanskrit
- Skandapurāṇa — Vyāsa, Sanskrit
- Mayadīpikā — Sanskrit
- Tattvanidhi — Kṛṣṇarāja III, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit
- Tulasīmāhātmya (Māyādharadvija) — Māyādharadvija, Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit
- Śāradātilaka — Śaṅkara, Sanskrit
- Devīpurāṇa — Sanskrit
- Nṛsiṃhaprasāda — Dalapatirāja 1511, Sanskrit