Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c56.37
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c56.37
- Language
- English
v1.c56.37
प्रासादं वासुदेवस्य मूर्तिभेदं निबोध मे।
धारणाद्धरणीं विद्धि आकाशं सुषिरात्मकम्॥
तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा।
पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणम्॥
प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्कशादिकम्।
शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनम्॥
धूपादिगन्धं गन्धन्तु वाग्भेर्यादिषु संस्थिता।
शुकनासाश्रिता नासा बाहू तद्रथकौ स्मृतौ॥
शिरस्त्वण्डं निगदितं कलसं मूर्द्धजं स्मृतम्।
कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्यते॥
पायुपस्थे प्रणाले तु त्वक् सुधा परिकीर्त्तिता।
मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते॥
तच्छक्तिं पिण्डिकाम् विद्धि प्रकृतिञ्च तदाकृतिम्।
निश्चलत्वञ्च गर्भोऽस्या अधिष्ठाता तु केशवः॥
एवमेष हरिः साक्षात् प्रासादत्वेन संस्थितः।
जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः॥
उर्ध्वभागे स्थितो विष्णुरेवं तस्य स्थितस्य हि॥ Agni. 61. 19-27
सर्वतत्वमयी यस्मात् प्रासादो भास्करी तनुः।
तद् यथावस्थितं कथयामि निबोधत।
पायूपस्थौ प्रणालौ द्वौ नेत्रौ ज्ञेयो गवाक्षकौ।
सुधा भुग्न (?...) पिनीज्ञेया स (व) च्तो मञ्जरीकोर्द्ध्वः॥
जङ्घा जङ्घा तु विज्ञेया वरण्डी वसना मता।
शुकाङ्गात्तु भवेन्नासा सूत्राणि विशेषतः॥
गर्भः स्थिरत्वे विज्ञेयो मुखं द्वारं प्रकीर्तितं।
कपाटौ द्युपुटौ ज्ञेयौ प्रतिमा जीवमुच्यते॥
स्कन्धस्तु वेदी गदिता कण्ठं कण्ठमिहोच्यते।
शिरोमालास्थितं ज्ञेयं '...चून संस्थितं।
एवमेष रविः साक्षात् प्रासादस्थेन संस्थितः।
जगती पिण्डिका ज्ञेया प्रासादो भास्करस्मृतः। Haya S.P. 39
Cites (2)
- Agnipurāṇa — Vyāsa, Sanskrit
- Hayaśīrṣapañcarātra — Sanskrit