Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.23

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.23

Language
English

v1.c63.s2.23

ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः ।
नैर्ऋते पदिकौ कोणे जयेन्द्रौ कथितावुभौ ॥
षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः ।
कोणे परोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः ।
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥
इत्यन्तःसंश्रयान् देवान् प्रोक्तानूमो बहिः स्थितान् ।
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥
अग्निसदनु पर्जन्यो जयन्तश्चेन्द्र एव च ।
रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥
स्वेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः ।
चरकी च विदारी च पूतना पापराक्षसी ॥
पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम् ।
पदभोगमथ ब्रूमो बहि.स्थानां नमःसदाम् ॥
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च ।
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥
एभ्यः शेषा बहिर्ये तु ते स्युःपदभुजः सुराः ।
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥
@H शतपदवास्तु
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
@H १६. १५–२०
भवेच्छतपदो वास्तुब्रूमोऽत्राप्यमरस्थितिम्॥
द्विरष्टगुणितं मध्ये पदमेकं पितामहः ।
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः ।
भोगमिच्छन्ति वै तेषामर्यम्णा इव सूरयः ॥
सवित्राद्यापवत्सान्ता ये च प्रोक्ताः सुरोत्तमाः ।
यथैकाशीतिके तद्वत् तेषां भोगः पदाष्टकम् ॥
अन्यन्तरिक्षपवना मृगश्च पितरोऽपि च ।
रोगो दित्तिस्तथाद्यर्धपदभाजो बहिः स्थिताः ॥
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः ।

Linked texts (1)