Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2: द्वितीयः पटलः मौलिकाधाराः

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2

Language
English

द्वितीयः पटलः मौलिकाधाराः

v1.c63.s2.1

मौलिकाधाराः—

v1.c63.s2.2

१. दिङ् निर्णयः (शङ्कुस्थापनं च)
२. वस्तुपदानि
३. मानम्
४. आयादिषड्वर्गः
५. पताकादिच्छन्दांसि च

v1.c63.s2.3

दिङ्-निर्णयः

v1.c63.s2.4

आदौ कालं परीक्षेत सर्वकार्यार्थसिद्धये ।

v1.c63.s2.5

कालो हि सर्वजीवानां शुभाशुभफलप्रदः ॥ कालातिक्रमणे दोषो द्रव्यहानिश्च जायते । देवानांमपि देवीनां विप्रादीनां विशेषतः ॥ प्रासादभवनारम्भे स्तम्भस्थापनकर्मणि । द्वारस्थापनवेलायां भवनानां प्रवेशने ॥ वापीतटाकनिर्माणे गोपुरारम्भकर्मणि । विमानमण्डपारामगर्भगेहोदृष्टौ तथा ॥ कालं शुभं परीक्षेत मङ्गलावाप्तिसाधकम् । देशभेदेन कालोऽपि भिन्नतां प्रतिपद्यते ॥ इष्टिकान्यासनं शस्तं शुभकाले विशेषतः । तस्मात्सर्वप्रयत्नेन शुभं कालं न लङ्घयेत् ॥ प्राचीं परीक्षयेत्सम्यक् सूर्यगत्यनुमानतः । गृहीतस्थलके शङ्कुमवटे स्थापयेत्क्रमात् ॥ खदिरस्तिन्दुक वाणि क्षीरवृक्षसमुद्भवः । शङ्कुः श्रेयस्करः प्रोक्तो द्वादशाङ्गुलमानभाक् ॥ हस्तप्रमाणतो वापि द्विहस्तो देवमन्दिरे । शङ्कोरूपरि मानस्य सूचिका सा शिखा मता ॥ यत्र सा पतति व्यक्ता तत्स्थानं विन्दुसंज्ञकम् । शिल्पाचार्यवरैः शङ्कुस्थापनं कल्पयेद् बुधः ॥ चक्राकारे नेमियुक्ते मण्डले शङ्कुभासुरे । शङ्कुच्छायाप्रसारस्तु यत्र भाति सलक्षणः ॥ तं प्रदेशं निरीक्ष्यैव प्राचीनिर्णयमादिशेत् । उत्तरायणमासेषु दक्षिणायनगेष्वपि ॥

v1.c63.s2.6

केंन्यायां वृषभे मासि यदि व्यक्ते दिवाकरे ।
शङ्कुच्छाया मध्यगा स्यान्नहि पार्श्वे कदाचन ॥
मेषस्थे वा मृगस्थे वा रवौ तु चतुरङ्गुला ।
शङ्कुच्छाया भवेद्व्यक्ता दिशां निर्णयकारिणी ॥
मकरस्थे रवौ शङ्कोरच्छायाष्टाङ्गुुलका भवेत् ।
मिथुनस्थे रवौ शङ्कोरच्छाया तु त्र्यङ्गुला मता ॥
कुलीरस्थे रवौ शङ्कोरच्छाया वेदाङ्गुला मता ।
सिंहस्थे तु रवौ शङ्कोरच्छाया वेदाङ्गुला मता ॥
तुलास्थिते रवौ शङ्कोरच्छाया तु द्वयङ्गुला मता ।
वृश्चिकस्थे रवौ शङ्कोरच्छाया स्याच्चतुरङ्गुला ॥
चापस्थिते रवौ शङ्कोरच्छाया स्याच्च षडङ्गुला ।
मीनस्थिते रवौ शङ्कोरच्छाया स्याच्चतुरङ्गुला ॥
इति द्वादशमासस्थे रवौ छाया स्फुटा भवेत् ।
उत्तरायणमासेषु छाया दक्षिणगा भवेत् ॥
दक्षिणायनमासेषु छाया चोत्तरगा भवेत् ।
छायामानवशादेवमङ्गलानि विसर्जयेत् ॥
शिष्टच्छायाप्रसारेण सम्यक्प्राचीं समादिशेत् ।
विन्ध्यस्य दक्षिणे देशेष्वेवं प्राचीविनिर्णयः ॥
आर्यावर्तस्थदेशानां प्राचीनिर्णय उच्यते ।
मकरादिचतुर्मासेष्वेवं छायाङ्गुला भवेत् ॥
वृषभस्थे रवौ शङ्कोरच्छाया तु चतुरङ्गुला ।
मिथुनस्थे रवौ शङ्कोरच्छाया स्याच्च षडङ्गुला ॥
इति दक्षिणगा छाया प्राचीनिर्णयकारिणी ।
कुलीरस्थे वृश्चिकस्थे रवौ छाया न विद्यते ॥
सिंहस्यैकाङ्गुला प्रोक्ता कन्यास्थे द्वयङ्गुला भवेत् ।
तुलाचापस्थिते भानावङ्गुल सा प्रकीर्तिता ॥
इति चोत्तरगाच्छाया प्राचीनिर्णयकारिणी ।
ब्रह्मावर्तस्थदेशानां प्राचीनिर्णय उच्यते ॥
मकरादिषु मासेषु त्रिपुच्छायाङ्गुला भवेत् ।
मेषस्थे वृषभस्थे च छाया तु त्र्यङ्गुला मता ॥
मिथुनस्थे झषस्थे च छाया पञ्चाङ्गुला मता ।
मीनस्थे च क्वचिच्छाया न भवेदिति तान्त्रिकाः ॥
कुलीरस्थे रवौ चापस्थिते च न हि सा स्फुटा ।
सिंहकन्यास्थिते भानौ सा चतुष्पञ्चका मता ॥
तुलास्थिते द्वयङ्गुक्ता स्यादितिच्छायाक्रमो भवेत् ।

v1.c63.s2.7

शङ्कुस्थापनवेलायां विप्रेभ्यो बहुदक्षिणाः ॥
मार्दङ्गिकैः स्वस्तिकैश्च जयशब्दैश्शुभावहः ।
सूत्रप्रसारमानेन शुद्धां प्राचीं समाश्रयेत् ॥
पुरारम्भे गृहारम्भे गोपुरारम्भकर्मणि ।
गर्भगेहविमानादिसिद्धास्तुष्ठ शुभावहः ॥
शिल्पिनां माननं शस्तं हेमभूषादिभिश्चशुभैः ।
स्थूपित्थापनकाले च प्राकारस्थापने तथा ॥
प्रासादभवनारम्भे वापीकूपादिकेषु च ।
गृहप्रवेशकाले च स्वस्तिघोषश्शुभावहः ॥
दिशां कोणास्तु चत्वारो न शस्ता आद्यलक्षणे ।
तस्मात्सर्वप्रयत्नेन शुद्धां प्राचीं समाश्रयेत् ॥
@H २. अ० पृ० ६३. १६-३२
प्राचीमतः प्रवक्ष्यामि दिङ्मूढभ्रान्तिनाशिनीम् ।
सा च पञ्चविधा प्रोक्ता कथये यामनुक्रमात् ॥
दिनादौ मेषतुलयोः कृत्तिकाश्रवणोदये ।
चित्रास्वात्यन्तरे चैव शङ्कुच्छाया ध्रुवेषु च ॥
कृत्तिकोदये या प्राची सा प्राची श्रवणोदये ।
चित्रास्वात्यन्तरे प्राची तत्र सूत्रान्तरोत्तरा ॥
ध्रुवगङ्गोद्भवा प्रांची सूत्रसूत्रान्तरोत्तरा ।
दिनादौ मेषतुलयोः सूर्य्यभुक्त्यैकमार्गतः ॥
स्यात्पलत्रयतो वृद्धिर्ह्रस्वे ह्रस्वं तु वर्धयेत् ।
ह्रासवृद्धीह्यर्बुद्धार्द्धममयनं दक्षिणोत्तरम् ॥
जलाग्रमस्तकभवा साधने स्यात् समक्षितिः ।
साधनीया क्षमा त्वेवं शङ्कुम्मूर्ध्वं च स्थापयेद् ॥
श्रमसिद्धाः समतला निर्ऋणा दोषवर्जिताः ।
द्वादशपर्वोद्गवाश्च शङ्कुच्छायाश्च पर्वभिः ॥
द्वादश दशाष्टाभिश्च त्रिभिर्वृत्तं क्षिताङ्कितम् ।
शङ्कुच्छायास्त्रिगुणतो द्विपर्वयुक्तिकोत्तमाः ॥
परिधौ बाह्यवृत्तस्य व्यासे शङ्कुतुल्योत्तमां ।
कुंजवंशपूर्वां छाया शङ्कुश्चरणाश्रितैः ? ॥
छायाग्रे वृत्ततुल्या च छाया पूर्वापरोद्भवा ।
प्रवेशे निर्गमे छाया याति सूत्रं सदा भवेत् ॥
याम्योत्तरं सूत्रपाते मत्स्यमुखं पुच्छ्रामसूत्रे ? ।
याम्योत्तरोद्भूतं सूत्रं विकर्णैः कर्णसाधनम् ॥
अथ रात्रौ ध्रुवं साध्यं ध्रुवाक्षा दक्षिणोत्तरम् ।
मण्डलोभयपक्षे च मध्ये स्थाप्यं त्रिदीपकम् ॥

v1.c63.s2.8

एकसूत्रे यदा त्रीणि दीपशिखाग्रकाणि च।
पूर्वसंस्थं ध्रुवं साध्यमपरस्थं च दोषकृत् ॥
शस्तं तु मीनपातैश्च पूर्वापरादिसाधनम्।
विकर्णकर्णगा साध्या ध्रुवशङ्कुप्राच्युद्भवः ॥

v1.c63.s2.9

प्राची मेषतुलारवेरुदयतः स्याद्वैष्णवे वह्निभे
चित्रास्वातिभमध्यगा निगदिता प्राची बुधैः पञ्चधा।
प्रासादं भवनं करोति नगरं दिङ् मूढमर्थक्षयं
हर्म्यं देवगृहे पुरे च नितरामायुर्धनं दिङ्मुखे ॥
तारे मार्कटिके ध्रुवस्य समतां नीतेऽवलम्बे नते
दीपाग्रेण तदैवयतश्च कथिता सूत्रेण सौम्या दिशा।
शङ्कोर्नेत्रगुणे तु मण्डलवरे छायाद्वयान्मत्स्ययो-
र्जाता यत्र युतिस्तु शङ्कुतलतो याम्योत्तरे स्तः स्फुटे ॥

v1.c63.s2.10

यन्त्रेणावनतादिना च निपुणो यद्वाम्बुसम्पूरणे-
नोर्वी चारु समीकरोत्वथ दृढं शङ्कुं करार्धायतम्।
मूले द्व्यङ्गुलविस्तृतं क्रमवशादग्रे तदर्धान्वित-
न्यासं वृत्ततरं सरोजमुकुलाकाराग्रमाकल्पयेत् ॥
शङ्कुदीर्घयुगसम्मितसूत्रेणाकलय्य परिवृत्य सुवृत्तम्।
वृत्तमध्यमवधार्य सुसूक्ष्मं शङ्कुमत्र तु दृढं निवेशयेत् ॥
शङ्कुच्छायाग्रभागे त्ववहितहृदयो वृत्तलग्नेऽङ्कयित्वा
प्राह्नान्ते पश्चि(मस्यां?)मायां दिशि तदितरदिश्येवमेवापराह्ने ।
पाश्चात्त्येऽन्येद्युरप्यङ्कनमपि च विधायाङ्कयोरेतयोर-
प्यन्तर्भागत्रिभागे नयतु गतदिनाङ्कं तदेवेह सूक्ष्मम् ॥
पूर्वापरेद्युःप्रभवाङ्कयुग्ममेवं सुसूक्ष्मं परिकल्पितं यत्।
तदङ्कयुग्माहितसूत्रमेव पूर्वापराशाप्रभवं सुसूक्ष्मम् ॥
एवं क्षेत्रस्य मध्ये सुविहितमिह यद् ब्रह्मसूत्रं तदाहु-
स्तन्मध्येऽन्योन्यमन्तर्गतमथ रचयेद् वृत्तयुग्मं च धीमान्।
तद्योगात् तिर्यगुद्यज्झषजठरसुपुञ्छाध्वना सूत्रमेकं
याम्योदग्गामि सूक्ष्मं रचयतु यमसूत्रं तदित्यामनन्ति ॥
तत्सूत्रद्वितयेऽथ दिक्षु चतसृष्वङ्कान् समं कल्पयि-
त्वाङ्कारोपितमध्यकानि सुसमं चत्वारि वृत्तानि च।
सिद्ध्यन्त्यत्र विदिक्षु वृत्तयुगलीयोज्ञेन मत्स्याःशिवा-
न्त्याग्रास्तद्गतसूत्रयुग्ममपि चान्त्राब्ध्यश्रमाकल्पयेत् ॥
सूत्रे प्रागुदगग्रके क्षितितले कृत्वा चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसतिं शर्वेऽथवा नैऋते।
क्षेत्रे विस्तृतितस्त चेत् पुनरपि श्रुत्यंशिते गृह्यते

v1.c63.s2.11

शैवे नैऋ्‌तखण्डमेव निन्दितौ शैवं शुभं चोभयोः ॥
धात्रीतलेऽध्यक्षिनि मानुषाख्यं गृहाभिवृद्धिप्रदमैशखण्डम् ।
देवाख्यं नैऋ्‌तमिष्टं स्यादुभे शुभे गेहविधौ नराणाम् ॥
आग्नेयखण्डं यमसंज्ञितं स्यान्मृतिप्रदं चाखिलवर्ज्यमेतत् ।
वायव्यमप्यासुरसंज्ञितत्वान्निन्द्यं विशां क्वापि च गृह्यते तत् ॥
अथातः संप्रवक्ष्यामि शङ्कुस्थापनलक्षणम् ।
आदित्योदयकाले तु शङ्कुस्थापनमारभेत् ॥
उत्तरायणमासे तु दक्षिणायनगे (न ए) ऽथवा ।
शुक्लपक्षे यथा (ऽथवा) कृष्णपक्षे शुभतमे दिने ॥
पौर्णमीं(पूर्णिमा)चाप्यमावास्यां वर्जयेत्सुमुहूर्तके ।
प्रभाते स्थापयेच्छङ्कुमपराह्नात् (ह्ने) ततः स्थितम् ॥
स्थापनात्पूर्वदिवसे स्थलशुद्धिं प्रकारयेत् ।
वास्तूमध्यदेशे तु चतुरश्रं समन्ततः ॥
चतुर्हस्तप्रमाणेन विश्वतः सलिलस्थलम् ।
कृतमाल(लं) शमीशाखाचन्दनं रक्तचन्दनम् ॥
खदिरं तिन्तु(न्दु)कं चैव शङ्कुदारु प्रकीर्तित्वा (तम्) ।
श्वेतक्षीरिणि(णी)वृक्षं(क्षो)वा शुभदन्तमथापि(वा) ॥
शङ्कायामं तु हस्तं स्यान्मूलाग्रान्तं क्षयं क्रमात् ।
सुवृत्तं निर्व्रणं चैव छत्राकारं तदग्रकम् ॥
एवं तु चोत्तमं शङ्कु मध्यं तन्नवद्यते ।
अष्टादशाङ्गुलायामं मूलतारं शराङ्गुलम् ॥
अग्रमेकाङ्गुलं तारं शेषं प्रागुक्तवन्नयेत् ।
कन्यसं द्वादशाङ्गुल्यं शङ्कायामं विशेषतः ॥
चतुरङ्गुलविस्तारं मूलमग्रं श्रयाङ्गुलम् ।
अथवायामसंमूले नाहमग्रे नवाङ्गुलम् ॥
शेषं पूर्ववदुद्दिष्टं स्वीकीकृतभूतले ।
तन्मध्ये विन्दुतरवज्ञो शङ्कायामद्वयेन च ॥
भ्रामयेन्मण्डलं कुर्यात्तन्मध्ये शङ्कुमर्पयेत् ।
पूर्वाह्ने शङ्कुतरच्छायां पश्चिमे मण्डलान्तकम् ॥
तत्रैव विन्दुसंज्ञाञ्च कुर्यात्तु शिल्प(ल्पि)वित्तमः ।
(अ)परा शङ्कुतरच्छायां पूर्वदिक् मण्डलान्तके ॥
पूर्ववद्विन्दु(न्दुं)संस्थाप्य पश्चाच्छङ्क त्यजेत्ततः ।
शङ्कायामपडाधिक्यनत्र्यंशविभाजिते ॥
तस्यांशेन ह्यपच्छायां त्यक्त्वा प्राचीं नयेत्ततः ।
कन्यावृषभमासौ च ह्य(सयोर्)पच्छाया न विद्यते ॥

v1.c63.s2.12

मेषे च मिथुने चैव तुलासिंहचतुष्टये ।
एव हि द्वयङ्गुलं न्यस्तं वृश्चिकाषाढमीनयोः (नेषु) ॥
चतुरङ्गुलं प्रकर्त्तव्यं धनुःकुम्भो(म्भयोः)षडङ्गुलम् ।
मकरेऽष्टाङ्गुलं प्रोक्त(क्ता)मव(ह्यप)च्छायां(या)विशेषतः ॥
छायायां बिन्दुवामे(तु)दक्षिणे चोक्ताङ्गुलं न्यसेत् ।
अङ्गलान्ते तु यच्छुद्धं प्राचीसूत्रं प्रयोजयेत् ॥
मकरादि(दौ) च षण्मासे छाया दक्षिणतो भवेत् ।
कुलीरादि(दौ) च षण्मासे छाया चोत्तरतो दिशि ॥
छायाया अभिमुखे प्रत्यग्वामे वामं न्यसेद्यते(न्यसेद्गतः) ।
पूर्वे च दक्षिणे नीत्वा प्रत्यग्वामाङ्गलान्यसेत् ॥
अपच्छायां त्यजेच्छिल्पी प्राक् प्रत्यक् सूत्र(त्रं)विन्यसेत् ।
तत्सूत्रात्पूर्वदिग्देशे नीत्वा चोत्तरतो दिशि ॥
एवं मीनविवृद्धिः स्यात्पुरतोऽङ्गुलमेव च ।
तत्सूत्राद्दक्षिणे सौम्यं(म्ये) तस्य द्वारं प्रकल्पयेत् ॥
मत्स्यपुच्छानने न्यस्तं सूत्रं स्याद्दक्षिणोत्तरम् ।
मण्डलावधिदेशे तु नीत्वा सूत्रा(न्नम)ङ्गुलं न्यसेत् ॥
मासानां पङ्क्तिपङ्क्तेश्च दिवसानां त्रिधा त्रिधा ।
विद्यमानाव(प)च्छाया(य)पच्छायां(या)चोच्यते ॥
मेषे च प्रथमे पङ्क्ते (ङ्कौ) द्वयङ्गुलं च विसर्जयेत् ।
मध्ये दशदिने चैकं चान्त्ये पङ्क्त्या(म) ङ्गुलं विना ॥
वृषभे प्रथमदशके दिवसे त्वङ्गुलं नहि ।
मध्ये चैकाङ्गुलं प्रोक्तं पङ्क्त्यन्ते द्वयङ्गुलं त्यजेत् ॥
मिथुने प्रथमदशके दिवसे त्व(द्वय) ङ्गुलं त्यजेत् ।
मध्ये दशदिने वह्नि(र्द्धिं)चान्त्यपङ्क्ति(तै)च तु त्यजेत् ॥
कुलीरे प्रथमदशके वेदमात्रं विसर्जयेत् ।
मध्ये दशदिने चापि त्र्यङ्गुलं तत्परित्यजेत् ॥
द्वयङ्गुलं चान्त्यदिवसे दशके समुदाहृतम् ।
सिंहस्य चादिदशके द्वयङ्गुलं च परित्यजेत् ॥
मध्ये दशदिने चैकवा(म)न्त्यपङ्क्तौ विनाङ्गुलम् ।
युवत्यामादिदशके दिवसे नाङ्गुलं भवेत् ॥
मध्ये चैकाङ्गुलं त्यक्त्वा (क्तं) चान्त्यपङ्क्तौ द्वया(द्वय)ङ्गुलम् ।
तुलारम्भे दशदिने द्वयङ्गुलं च निषेधयेत् ॥
विसृज्य(ज्यं) द्वय(त्र्य)ङ्गुलं मध्ये चान्त्ये. वेदमिति स्मृतम् ।
वृश्चिके प्रथमे पङ्क्तर्(ङ्कौ)दिवसे चतुरङ्गुलम् ॥
मध्ये दशदिने बाणं चान्त्यपङ्क्तौ षडङ्गुलम् ।

v1.c63.s2.13

धनुराशौ दशदिने प्रथमे तु षडङ्गुलम् ॥ मध्ये दशदिने सप्तद्वय(सप्ता)ङ्गुलं च विवर्जयेत् । अन्येष्वङ्किदिने त्याज्यं वसुमात्रमिति स्मृतम् ॥ मकरादौ दशदिने त्यजेदष्टाङ्गुलं बुधः ॥ मध्ये सप्ताङ्गुलं त्यक्त्वा(त्यक्तं)चान्त्ये त्यक्त्वा(क्तं)षडङ्गुलम् । कुम्भे चादौ दशदिने विसृजेत्तु षडङ्गुलम् ॥ मध्ये पञ्चाङ्गुलं त्यक्त्वा(क्तं)चान्त्ये च चतुरङ्गुलम् । मीनराशौ च दशके दिवसे चतुरङ्गुलम् ॥ मध्ये च पङ्किदिवसे द्वय(नूय)ङ्गुलं च विसर्जयेत् । अन्ते दशदिने चापि वर्जयेद्बहुकाङ्गुलम् ॥ अपच्छायां(या)तत्र नास्ति यदुक्तं तदिहोच्यते । प्रागुक्ताविराश्यां तु कन्यायां वृषभस्थितम् ॥ अपरे विंशतिदिने तत्तदृक्षं भवेद्यदि । उक्ताङ्गुलं तत्र नास्ति सूत्रं ज्ञात्वा प्रसारयेत् ॥ राश्यां(ऋक्ष)युतं रवेर्मासं प्रो(प्रे)क्ष्यापि च परित्यजेत् । ऊहापोहप्यक्त्यादि दशा(द्वया)ङ्गुलं न्यत्र(स्तं)सूरिभिः ॥ तद्दशाक्तकुभं ग्राह्य(ह्यं)तत्र सूत्रं प्रसारयेत् । शुद्धप्राची भवेत्सम्यगैशान्या प्राच्यथोच्यते ॥ प्राच्यङ्गुलकृताद्विन्दोरुत्तरे चाङ्गुलं न्यसेत् । प्रतीचीमात्रतद्विन्दोरीशप्राची(चीं) प्रसूत्रयेत् ॥ मुक्तिकामस्य करणे शुद्धप्राचीं प्रयोजयेत् । ऐशान्यप्राची सर्वस्य भोगकामस्य संमताम्(ता) ॥ आग्नेयं प्राचीसंयुक्तं सर्वदोषकरं भवेत् । आग्नेयप्राचिकं वास्तु तस्मात्सर्वं विसर्जयेत् ॥ एवं कृते त्वलं वास्तौ(स्तु)सुगाढं सुसमृद्धये । दण्डमानस मं सूत्रदीर्घमानं प्रकल्पयेत् ॥ आदौ तन्तुं त्रिधा कृत्वा सूत्रग्राहीति योजयेत् । वा(द्वि)मावर्तं तु सूत्रं स्यात्तृतीयावर्तदक्षिणम् ॥ कार्पासं(स)सूत्रसंयुक्तं(वा)पट्टसूत्रमथापि वा । सूत्राल्ल(द्य ल)भ्यते वास्तौ प्रमाणं हीति निश्चितम् ॥ मध्यादिन्द्राच्च त(न्नेन्द्रात्तात्त)द्दिन्नु न्यसेन्द्रादि(सेदिन्द्र)शिखान्तकम् । इन्द्रादीशानपर्यन्तं चान्तकात्पावकान्तम् ॥ वरुणाद्वायुरुपर्यन्तं सौम्याद्देर्वायु(यो)र्वान्तकम् । सौम्यादीशानपर्यन्तं सूत्रमेवं परित्यजे(वाजये)त् ॥ विमाने विगृहे वाऽपि मण्डपादीनि(दोच)वास्तुके ।

v1.c63.s2.14

ग्रामादीनां च सर्वेषां मानयेन्मानसूत्रकम् ॥
तत्प्रमाणस्य परितो हस्तद्विहस्तम(म)धिकम् ।
तत्तत्सूत्रावसाने च शङ्कुमेवं प्रतिष्ठितम् ॥
गर्भसूत्रस्य कर्णैश्च द्विदिशङ्कु निखानयेत् ।
चतुर्दिक्षु चतुःशङ्कु जन्मनिष्क्रमणार्थम् ॥
चतुष्कर्णैश्च कर्णैश्च चतुःशङ्कु(ङ्कु)समायुतम् ।
एवं महार्थर्कम् कुर्याच्छङ्कु दारु प्रवक्ष्यते ॥
खदिरं चादिमेदं च मधूकं क्षीरिणी तथा ।
अन्यैश्च सारवृक्षैर्वा खातं(त) शङ्कु रिति स्मृतम् ॥
एकविंशाङ्गुलं वाऽपि चैकपञ्च(पञ्चविंश)त्यङ्गुलायतम् ।
खातं शङ्कुमिदं मुष्टिमानं तत्परिणाहकम् ॥
मूलं तु सूचिवत्कुर्यान्मूला(द)ग्रक्षयक्रमात् ।
गृहीत्वा वामहस्तेन स्थपतिस्थापकावुभौ ॥
शङ्कुदक्षिपहस्तेन लोष्ट्र(ष्ट्रं)संगृह्य ताडयेत् ।
प्रत्येक्रमष्टसंख्या च प्राङमुखो वाप्युदङमुखः ॥
शङ्कुस्थापनकाले तु ब्राह्मणैः(णः)स्वस्तिवाचक(न)म् ।
कुर्यान्मङ्गलघोषैश्च समभ्यां(माज्यः)पूजयेत्ततः ॥
एवं नैर्ऋतिकोणे तु(णादी)स्थपत्याज्ञश्च तक्षकम्(कः) ।
पश्चान्मङ्गलघोषैश्च सर्वशङ्कुः(ङ्कन्)प्रहारयेत् ॥

v1.c63.s2.15

शङ्कुं कलाङ्गुलायामं नाहं तत्सत्यमुच्यते ।
मूलताराष्टभागैकं हीनाग्रमति(वि)शालकम् ॥
सुवृत्तमर्जयेश(च्छ्रं)ङ्कु सारवृक्षं विशेषतः ।
शङ्कु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥
तन्मध्ये स्थापयेच्छङ्कु चतुर्दिक्षु विशेषतः ।
पूर्वापराह्नयोश्छाया यदि तौ मण्डलान्तकौ ॥
छायाग्रमध्यं संलक्ष्यं तथैव त्वपराह्नके ।
विन्दुद्वयान्तरं सूत्रं पूर्वापरादिगिष्यते ॥
तयोर्विन्दान्तरग्राह्यं यच्चापराननपुच्छकम् ? ।
दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥
येन मध्यममाधातुं ह्यपच्छायाङ्गुलं व्रजेत् ।
मण्डलं कुञ्जतालेन ह्यङ्गुलं तु विभाजयेत् ॥
भानुर्मीनाष्टविंशांशं सप्तविंशांशयोत्तरे ।
गते त्वर्जवनत्युक्ता कन्यायां च तथैव हि ॥
मीनेऽष्टविंशदेशं हि भागं प्रत्यर्धमातृकम् ।
वर्धयेन्मिथुने सप्तविंशदेशावसानके ॥

v1.c63.s2.16

ततोत्रि(ति)मात्रं क्षीणं स्याद्भागं प्रति विशेषतः ।
कन्यायां द्वन्द्वविंशांशं तद्धारांशविवर्धनात् ॥
छायोऽष्टविंशदं शान्तं ततो हासं तथैव हि ।
छायावृद्धि क्षयं चैव कृत्तिकांशं खु(कु) मध्यनम् ॥
छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।
पूर्वापराह्वयोश्छाया मध्ये मानं च वर्जयेत् ॥
प्रागादिपरितं सूत्रमिष्टमाने तु विन्यसेत् ।

v1.c63.s2.17

साध्वे शङ्कुमिनाङ्गु्लं समतले कृत्वा पृथक्कोलज-
च्छायाग्राचितंत्रिविन्दुपारिवृत्त्योत्पाद्य मत्स्यद्वयम् ।
तत्सौपुन्नसिरोत्थसूत्रयुगयोगाच्छङ्कुनाभ्यन्तिमं
सूत्रं न्यस्य सुसाधयेद् यमधनेशाशे ततश्चेतरे ॥

v1.c63.s2.18

टि०—दिङ्निर्णाय एव प्लवविचारस्य प्रासङ्गिकत्वात् प्लवपरीक्षा यथा:—

v1.c63.s2.19

भुवः प्लवं प्रवक्ष्यामि नराणां च शुभाशुभम् ।
'पूर्वप्लवा वृद्धिकरी ह्युत्तरा धनदा स्मृता ॥
अर्थक्षयकरीं विद्यात् पश्चिमप्लवनां ततः ।
दक्षिणप्लवना 'पृथ्वी नराणां मृतिदा भवेत् ॥
वारुणोच्चसमायुक्ता नीचमाहेन्द्रसंयुता ।
गोवीथिरिति सा ज्ञेया ऐन्द्रोच्चानीचवारुणा ॥
जलवीथिरिति प्रोक्ता वास्तुज्ञानविशारदैः ।
सोमोच्चा यमनीचा च यमवीथीति कथ्यते ॥
यमोच्चसोमनीचा च गजवीथीति कथ्यते ।
ईशोच्चं निर्ऋतीनीचं भूतलं भूतवीथिकम् ॥
आग्नेयोच्चं वायुनीचं नागवीथी प्रशस्यते ।
वायूच्चमग्निनीचं यद् वीथीं वैश्वानरीं विदुः ॥
निर्ऋत्युच्चमिशानीचं धनवीथीत्युदाहृतम् ।
इन्द्राग्न्यन्तरमुच्चं स्थान्नीचं वरुणवातयोः ॥
वास्तु पैतामहं विद्यान्नराणां कुरुते शुभम् ।
याम्याग्न्यन्तरमुच्चं स्यान्नीचं मारुतसोमयोः ॥
सुपथं नाम तद्वास्तु प्रशस्तं सर्वकर्मणाम् ।
सोमेशानान्तरं नीचमुच्चं निर्ऋतिकालयोः ॥
दीर्घायुर्नाम तद्वास्तु प्रशस्तं कुलवर्धनम् ।
ईशानेन्द्रान्तरं नीचमुच्चं वरुणरक्षसोः ॥
पुण्यकं नाम तद्वास्तु द्विजानां च शुभावहम् ।
इन्द्राग्न्योरन्तरं नीचमुच्चं वायुजलेशयोः ॥

v1.c63.s2.20

अपथं नाम तद्वास्तु वैराय कलहाय च।
कालाग्न्योरन्तरं नीचमुच्चं स्याद् वायुसोमयोः॥
रोगकृन्नाम तद्वास्तु नराणां रोगवृद्धिकृत्।
निर्ऋत्यन्तकयोर्नीचमुच्चं सोमशिवान्तरम्॥
अर्गलं नाम तद्वास्तु ब्रह्महत्यादिनाशकृत्।
रुद्रेन्द्रान्तरमुच्चं स्यान्नीचं वरुणरक्षसोः॥
श्मशानं नाम तद्वास्तु केवलं कुलनाशनम्।
नीचमग्नौ भवेदुच्चं निर्ऋतीशानवायुषु॥
श्येनकं नाम तद्वास्तु नाशाय मरणाय च।
रुद्राग्निवरुणेपूच्चं नीचं स्यान्निर्ऋतौ तथा॥
श्वमुखं नाम तद्वास्तु दारिद्र्यं कारयेत् फलम्।
निर्ऋत्यग्निशिवेषूच्चं नीचं रवीन्द्रयोस्तथा॥
ब्रह्मघ्नं नाम तद्वास्तु नेष्टं प्राणभृतां सदा।
अग्नौ यदि भवेदुच्चं नीचं निर्ऋतिरुद्रयोः॥
वातनिम्नं च तद्वास्तु स्थावरं नाम शोभनम्।
उच्चं निर्ऋतिभागे स्यान्नीचं ज्वलनवातयोः॥
रुद्रनिम्नं च तद्वास्तु स्थण्डिलं नाम शोभनम्।
रुद्रोच्चं यदि निम्नं स्याद् वह्नौ निर्ऋतिवातयोः॥
शार्दूलं नाम तद्वास्तु प्रापयत्यशुभं सदा।
निर्ऋत्यग्निशिवेषूच्चं नीचं चन्द्रमसं प्रति॥
द्विजेन्द्राणां तु सुस्थानमवनी समुदाहृता।
नीचमिन्द्रे भवेदुच्चं निर्ऋत्यां पश्चिमानिले॥
सुलभं नाम तद्वास्तु राजराष्ट्रविवर्धनम्।
सौम्येशपवनेषूच्चं नीचं भवति चेद् यमे॥
नाम्ना वास्तुचरं नाम वैश्यानां तदभीष्टदम्।
नीचं वारुणमुच्चं चेदीशनेन्द्राग्निषु क्रमात्॥
श्वमुखं नाम तद्वास्तु शूद्राणां तदभीष्टदम्॥

v1.c63.s2.21

वास्तुपदानि-

v1.c63.s2.22

एकाशीतिपदं यत् स्यात् तथा शतपदञ्च यत्।
चतुःषष्टिपदं यच्च वास्तुरत्नं त्रिधोदितम्॥
चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः।
मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः॥
तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा।
आग्नेयकोणे सवितृसावित्रौ पदिकावुभौ॥

v1.c63.s2.23

ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः ।
नैर्ऋते पदिकौ कोणे जयेन्द्रौ कथितावुभौ ॥
षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः ।
कोणे परोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः ।
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥
इत्यन्तःसंश्रयान् देवान् प्रोक्तानूमो बहिः स्थितान् ।
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥
अग्निसदनु पर्जन्यो जयन्तश्चेन्द्र एव च ।
रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥
स्वेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः ।
चरकी च विदारी च पूतना पापराक्षसी ॥
पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम् ।
पदभोगमथ ब्रूमो बहि.स्थानां नमःसदाम् ॥
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च ।
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥
एभ्यः शेषा बहिर्ये तु ते स्युःपदभुजः सुराः ।
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥
@H शतपदवास्तु
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
@H १६. १५–२०
भवेच्छतपदो वास्तुब्रूमोऽत्राप्यमरस्थितिम्॥
द्विरष्टगुणितं मध्ये पदमेकं पितामहः ।
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः ।
भोगमिच्छन्ति वै तेषामर्यम्णा इव सूरयः ॥
सवित्राद्यापवत्सान्ता ये च प्रोक्ताः सुरोत्तमाः ।
यथैकाशीतिके तद्वत् तेषां भोगः पदाष्टकम् ॥
अन्यन्तरिक्षपवना मृगश्च पितरोऽपि च ।
रोगो दित्तिस्तथाद्यर्धपदभाजो बहिः स्थिताः ॥
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः ।

v1.c63.s2.24

अदित्यन्ता द्विपदिकास्ते शेषं प्राक् प्रसाधितम् ॥

v1.c63.s2.25

चतुरश्रीकृते क्षेत्रे पूर्ववद् भाजितेऽष्टभिः ।
चतुः षष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् ॥
अस्मिन् पदानि चत्वारि भुङ्क्त्यन्तः पितामहः ।
अर्यमाद्याः सुराश्चान्ते द्वे द्वे मध्यगताः पदे ॥
मध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कोणेषु चाष्टसु ।
ये देवाः सर्व एकत्र ते पदार्धभुजः स्मृताः ॥
पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा ।
शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः ॥
जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता ।
प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥
सिरां बहिः पदादूर्ध्वं नयेत् पितृपदान्ततः ।
बाह्याशानिर्गतां चैनां रोगनामानमानयेत् ॥
द्विनाम्नः प्रापयेद् भृङ्गं भृङ्गात् सुग्रीवमानयेत् ।
ततोऽदितिं तां गमयेद् द्विनामानं प्रवेशयेत् ॥
सौराद् याम्यं पदं नीत्वा वारुणं प्रापयेत् ततः ।
नयेत् पदं ततः सौम्यं तत आदित्यमानयेत् ॥
भृशादानीय वितथं शोषाख्यं वितथादथ ।
शोषान्मुख्यं समानीय नयेत् तस्मात् पुनर्भृशम् ॥
ये विभागाः समुद्दिष्टा यथासङ्ख्‍येन तैरिरह ।
यन्नामरनॄणां वास्तुं समस्तं विभजेत् सुधीः ॥

v1.c63.s2.26

अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे ।
एकश्चतुःषष्टिपदभागः शतपदोऽपरः ॥
अष्टधा भाजिते वृत्तविष्कम्भे भागिकान्तरान् ।
चतुरः परिधीन् कुर्यान्मध्यवृत्तं द्विभागिकम् ॥
स्याद्बर्हिर्वृत्तवलयमष्टाविंशतिभागिकम् ।
तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥
एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् ।
इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥
दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः ।
कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥
बहिस्यं बलयं तस्य भजेत् षट्त्रिंशता ततः ।
शेषं चतुःषष्टिपदस्थित्या स्याच्छतवास्तुनि ॥
देवतापदसङ्क्षिक्षिरनयोश्चतुरश्रवत् ।
एवं कार्यवशात् कार्या वास्तवोऽन्येऽपि धीमता ॥

v1.c63.s2.27

द्व्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत्।
वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम्॥
एक एव पुमानेषु बहुधा परिकल्पितः।
सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेद् ततः॥

v1.c63.s2.28

देवतानां ; पदैरित्थं संविभक्तैः पृथग्विधैः।
स्थपतिः प्रयत्नः कुर्याद् , वास्तुमित्थंपुमाकृतिम्॥
शिरस्तस्याभिरुद्दिष्टं दृष्टिदित्यम्बुदाधिपौ।
जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः॥
अर्कः स्याद् दक्षिणे वामे भुजे सोमः प्रतिष्ठितः।
महेन्द्रचरकौ सापवत्सावस्योरसि स्थितौ॥
स्तनेऽर्यमा दक्षिणे स्याद् वामे च पृथिवीधरः।
यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी॥
दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः।
सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम्॥
पञ्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः।
सावित्रसंवितारौ च रुद्रशक्तिधरावपि॥
चत्वारोऽमी कलाः फोणिस्थाः कस्योहृदि च स्वभूः।
वितथौकःक्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ॥
वामे पुनः स्थितावस्य देवौ शोषारुराभिधौ।
मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ॥
मेढ्रमध्यस्थितावस्य सुराविन्द्रजयाभिधौः।
यमश्च वरुणश्चोभौः क्रमाद् दक्षिणवामयोः॥
गन्धर्वभृङ्गौ सम्पूगौ जङ्घां सव्यामथेतराम्।
द्वास्थसुग्रीवपुष्पाख्याः संश्रिताः पितरोऽङ्घ्रशः॥
एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः।
माहेन्द्रीसंश्रितं विद्याच्चतुःषष्टिपदस्य तु॥
एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः।
यः षोडशपदः स स्याच्चतुष्षष्टिपदोद्भवः।

v1.c63.s2.29

मध्ये य एव देवानां स्थितो ब्रह्माब्जसंभवः।
स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः॥
योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः।
पर्जन्यनामा यश्चायं वृष्टिमानम्बुदाधिपः॥
जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः।
महेन्द्रस्तु सुराधीशो दनुजानां विमर्दनः॥
द्वाहित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम्।

v1.c63.s2.30

सत्यो भूतहितो धर्मो वृषः कामोऽथ मन्मथः ॥
योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम्।
मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥
अधमो वित्तथाख्यः स्यात् कलेरप्रतिमः सुतः।
गृहक्षतः पुनर्योऽत्र स चन्द्रतनयो बुधः ॥
प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः।
गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥
भृङ्गराजमिहेच्छन्ति राक्षसं निर्ऋतेः सुतम्।
यो मृगोऽस्मिन्नन्तः स स्वयंभूर्धर्म इत्यपि ॥
पितरस्तु स्मृता देवाः पितृलोकनिवासिनः।
स्मृतो दौवारिको नन्दी प्रमथानामधीश्वरः ॥
आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव ईरितः।
पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥
वरुणः पाथसां नाथो लोकपालः स कीर्तितः।
असुरो राहुरर्केन्दुर्मर्दनः सिंहिकात्मजः ॥
शोषस्तु भगवान्नेष सूर्यपुत्रः शनैश्चरः।
पापयक्ष्मा हयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥
भुजङ्गानामधिपः श्रीमान् नागस्तु वासुकिः।
त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥
चन्द्रो भल्लाट इत्युक्तः कुबेरः सोमसंज्ञितः।
चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥
दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः।
हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥
आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते।
देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥
मृत्युः शरीरहर्तालौ विवस्वानिति स स्मृतः।
नयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥
मित्रो हलधरो माली रुद्रस्तूको महेश्वरः।
राजयक्ष्मा गुहः प्रोक्तः क्षितिभ्रोऽनन्त उच्यते ॥
चरकी च विदारी च पूतना पापराक्षसी।
रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥
इत्येष वास्तुदेवानां निवह्रदुः परिकीर्तितः।
क्षो मूर्ध्नि हो दृशोर्मध्ये खो घ्राणे चिबुके तु घः ॥
शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशतः।
रेफो वस्तौ यकारस्तु मेढ्रे सः (पुच्छः) मुष्ककावुभौ ॥

v1.c63.s2.31

णकार ऊरूणौ जानुकारः पिण्डिकाश्रितः।
(ङः) डकारो गुल्फयोरन्ते पकारोऽङ्घ्रितले स्मृतः ॥

v1.c63.s2.32

शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत्।
मुखं मूर्धा ततः श्रोत्रे दृक्तालुवोष्ठरदाः क्रमात् ॥
वक्षः कण्ठः स्तनो नाभिर्मेढ्रमुष्कावथो गुदम्।
बाहू च प्रबाहू पाणी स्फिगूरूजङ्घापदद्वयम् ॥
कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः।
सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥
मर्मा‌ण्यथ महावंशा लक्ष्या वास्तुशरीरगाः।
सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥
पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम्।
महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥
प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः।
वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥
यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः।
सम्पाता ये स्युरेतेषां मर्म तत् संप्रचक्षते ॥
उपमर्माणि तान्याहुः पदमध्यानि यानि हि।
भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥
पदतो भागमिष्टं स्याद् वंशादीनामनुक्रमात्।
वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥
ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते चानुसन्धयः।
वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥
तदर्धमनुसन्धोनां प्रमाणं समुदीरितम्।
यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥
द्रव्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत्।
महावंशस्य नाक्रान्तिं कुर्याद् द्रव्येण केनचित् ॥
इतरेषु पुनर्द्रव्यं मध्यवंशेषु सन्त्यजेत्।
महावंशसमाक्रान्तौ भवेत् स्वामिवधो ध्रुवम् ॥
दर्पेण तपनाद् भीतिं वंशानां पीडनाद् विदुः।
उपमर्माणि रोगाय मर्माणि कुलहानये ॥
उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः।
फलिः स्यात् सन्धिविच्छेदे पीडितेष्वनुसन्धिषु ॥
तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत्।
ज्ञात्वा सिराः सानुसिराश्च नाडीवंशानुवंशानपि वास्तुदेहे।
यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद् यस्तमुपैति नापत् ॥

v1.c63.s2.33

प्रासादा विविधास्तद्वद् विचित्राश्चाश्च मण्डपाः ।
तान् मापयेच्छतपदप्रविभागेन बुद्धिमान् ॥
यः पुनः स्याच्चतुःषष्टिपदस्तेन विभाजयेत् ।
नरेन्द्र शिविरग्रामखेटादि नगरादि च ॥
मर्माणि वास्तुपुंसोऽस्य षए्महान्ति प्रचक्षते ॥
वंशानुवंशसम्पाताः पदमध्यानि यानि च ।
देवस्थानानि तान्याद्ये पदषोडशकान्विते ॥
देवस्थानानि सम्पाताश्चतुःषष्टिपदे पुनः ।
तथैकाशीतिपदिके पदान्तशतिकेऽपि च ॥
चतुर्व्वपि विभागेषु सिरा याः स्युश्चतुर्दिशम् ।
मर्माणि तानि चोक्तानि द्वारमध्यानि यानि च ॥
भित्तिविस्तृतमध्येन यद्वा मध्येन दारुणः ।
मर्म यत् पीड्यते येन गृहे तत्रोच्यते फलम् ॥
द्वारैर्वा भित्तिभिर्वापि मर्मणां परिपीडनात् ।
दौर्गत्यं गृहिणः प्राहुः कुलहानिमथापि वा ॥
भवेत् स्वामिवधः स्तम्भैस्तुलाभिः स्त्रीपरिक्षयः ।
स्नुषावधो जयन्तीभिर्बन्धुनाशश्च सङ्ग्रहैः ॥
मर्मस्थानक्षयैः कार्यैर्भर्तुः कायो निपीड्यते ।
सुहृद्विश्लेषमिच्छन्ति सन्धिपालैश्च तद्विदः ॥
नागपाशैर्धनोच्छेदो नागदन्तैः क्षयमादिशेत् ॥
षड्दारुकाजानुसिरागवाक्षालोकनानि च ।
मर्ममध्योपगान्येतान्यावहन्ति धनक्षयम् ॥
द्वारद्वयतुलास्तम्भनागदन्तगवाक्षकैः ।
नृपदण्डभयं पत्युः पीडनं च प्रचक्षते ।
द्वारमध्येधु षड्दारुमध्येष्वपि च सूरयः ॥
कर्णद्वयादिभिर्विद्धेष्वेवमेव फलं विदुः ।
शय्यानुवंशविहिता गृहिणां कुलनाशिनी ॥
क्षयावहा नागदन्ता भर्तुः शय्यान्विता नगाः ।
वातायनैश्च स्तम्भैर्ये विद्धा नागदन्तकाः ॥
ते शस्त्रभीतिदा भर्तुर्यद्वा चौरभयप्रदाः ।

v1.c63.s2.34

द्रव्यधान्यविनाशाय शोकाय कलहाय च ॥
गृहमध्यगतं द्वारं भवेत् स्त्रीदूषणाय च ।
द्रव्येणान्यतरेणापि महामर्म निपीडितम् ॥
भवेत् सर्वस्वनाशाय गृहिणो मरणाय च ।
अंशुकाश्चोर्ध्ववंशाश्च तुम्बिकाः सेन्द्रकीलकाः ॥
पुष्पप्रासादगेहानां वेधेऽप्येते न दोषदाः ॥
स्वस्तिकं पुष्पकं नन्दं षोडशाक्षं चतुर्थकम् ।
पञ्चमं कुलतिलकं सुभद्रं षष्ठमेव च ॥
सप्तमो मरीचिगणो भद्रकं स्यात्तथाष्टमम् ।
नवमं कामदं प्रोक्तं दशमं भद्रमुच्यते ॥
सर्वतोभद्रनामाख्यमतऊर्ध्वं न कारयेत् ।
वास्तुन्येकादशैव स्युः प्रोक्तानि परमेश्वरैः ॥
पदमेकं स्वस्तिकं स्यात्पुष्पकं च चतुष्टयम् ।
नन्दं नवपदं प्रोक्तं षोडशं षोडशपदैः ।
पञ्चविंशतिभिः कुलं षट्त्रिंशद्भिः सुभद्रकम् ।
एकोनपञ्चाशत्पादैर्मरीचिगण उच्यते ॥
भद्रकं तु चतुःषष्टिरेकाशीतिश्च कामदम् ।
शतपदैस्तु भद्राख्यं सहस्रैः सर्वतोद्भवम् ॥
पदसङ्ख्यास्तु कथिता वास्तुस्थानानि वक्ष्यहम् ।
स्वस्तिकं पदसंस्थाने ध्रुवतः कथ्यते बुधैः ॥
श्रीधरं राजगेहानां हर्म्यादीनां ध्रुवं यथा ।
चतुष्की देवताग्रे या विद्यारम्भे तत्स्वस्तिकम् ॥
दीक्षा विविधयात्रासु कन्यालग्ने च पुष्पकम् ।
नन्दं प्रपूजयेद्वास्तु वनयात्र दिशोभनम् ॥
लतिने रुचकादीनां मण्डपेषु गृहादिके ।
जगती वसुधायुक्तं षोडशाख्यं तु पूजयेत् ॥
दक्षिणोत्तरषट्कार्थं शक्राद्यं कमलोद्भवम् ।
श्रीमात्रादिषु दीक्षासु तिलकं तु प्रपूजयेत् ॥
सुकर्मणि च प्रस्थाने सुभद्रं च प्रशस्यते ।
समस्तजीर्णोद्धारेषु मरीचिगणमर्चयेत् ॥
ग्रामखेटपुरादौ च कूपे च कर्वटादिके ।
तथा राजनिवेशे च भद्रकं पूजयेत्सदा ॥
गृहादिषु समस्तेषु तृणपटच्छन्दादिषु ।
पाण्डुवस्त्रपूर्णमण्डेषु कामदं वास्तु पूजयेत् ॥
प्रासादा विविधाश्चैव विविधाश्चाथ मण्डपाः ।

v1.c63.s2.35

जगतीलिङ्गपीठे च भद्राख्यं राजवेश्मान ॥
प्रासादाश्चैव सर्वाद्या लिङ्ग षट्करतः परम्।
महार्था देशराष्ट्रे च सर्वतोभद्रमर्चयेत् ॥
अधस्तात् सर्वतोभद्राद् भद्राख्योपरि वास्तुकम्।
मध्ये च द्वाविंशतिभिर्गुणिता पदकल्पना ॥
षट्क्षेत्राणि प्रवक्ष्यामि वास्तुपदनिवासिनाम् ॥
संस्थानोन्मानसूत्रं च वास्तुवेदसमुद्भवम्।
चतुरश्रम्रायतं च वृत्तं वृत्तायतं तथा ॥
अष्टाश्रं सार्धचन्द्रं च वास्तुसूत्रं तु षड्विधम् ॥
प्रासादेषु गृहाद्येषु पुरग्रामनिवेशने ।
क्षेत्राणि चतुरश्राणि चतुरश्रं समर्चयेत् ॥
तथागताश्च प्रासादाः पुष्पाकुकुलसम्भवाः।
यथायतनि क्षेत्राणि पूजयेच्च तथायतम् ॥
वापीकूपक्षेत्रकाणि वृत्तानि प्रतिमास्तथा ।
कैलासच्छन्दोद्भवाश्च सर्वे वृत्ताः प्रकीर्तिताः ॥
वृत्तायताश्च मणिका अष्टशाला अष्टाश्रकाः।
तडागेषु समस्तेषु ह्यर्धचन्द्रं प्रपूजयेत् ॥

v1.c63.s2.36

क्षेत्रषट्कात्मके वास्तौ बाणवेदाश्च देवताः।
त्रयोदश स्थिता मध्ये द्वात्रिंशद् बाह्यतस्तथा ॥
सूत्रबाह्येऽष्टदेव्यश्च ईशादिषु प्रदक्षिणम् ।
वासां पदविधिर्नास्ति केवलं पूजनं स्मृतम् ॥

v1.c63.s2.37

ईशस्तथा च पर्जन्यो जयो माहेन्द्र एव च ।
आदित्यः सत्यभृशौ चान्तरिक्षान्ताष्ट पूर्वतः ॥
अग्निः पूषा च वितथो गृहक्षतो यमस्तथा।
गन्धर्वो भृङ्गराजश्च मृगान्तश्चाष्ट दक्षिणे ॥
पितरो दौवारिकश्च (श्वापि) सुग्रीवः पुष्पदन्तकः।
वरुणश्चासुरः शोषः पापयक्ष्मा तु पश्चिमे ॥
रोगो नागस्तुमुख्यश्च भल्लाटः सोम एव च।
गिर्यदितिर्दितिश्चैवाष्टावुत्तरदिशि क्रमात् ॥
ब्रह्मकर्णे तथा चाष्टावीशान्यादि क्रमेण तु ।
आपश्चैवापवत्सश्च ईशकर्णे तु संश्रितौ ॥
सविता चैव सावित्री आग्नेय्यां तु समाश्रितौ ।
इन्द्र इन्द्रजयश्चैव नैर्ऋत्यां ब्रह्मणः स्थितौ ॥
रुद्रश्च रुद्रदासश्च संस्थितौ वायवीदिशि।
मरीचिश्च विवस्वांश्च मित्रश्च पृथिवीधरः ॥

v1.c63.s2.38

पूर्वाद्रिक्रमयोगेन संस्थिताश्च चतुर्दिशम्।
एवमादिक्रमयोगः सर्वेषां वास्तुमण्डले॥

v1.c63.s2.39

चतुष्षष्टिपदैः क्षेत्रे पुरवास्तुं प्रकल्पयेत्।
मर्मोपमर्मसन्धींश्च वास्तुदेहसमुद्भवान्॥
पूर्वापरायता वंशा उपवंशाः प्रभेदतः।
मर्माणि वंशसम्पाता उपमर्माणि मध्यतः॥
इन्द्रादित्यतस्तिस्रोखा वरुणपुष्पदन्तगाः।
एते वंशाः समाख्याता उपवंशा याम्योत्तराः॥
सोमभल्लाटतस्तिस्रो गृहक्षतयमान्तगाः।
पूर्वापरायता रेखाः पुनर्भिन्नाश्च तिसृभिः॥
ईशब्रह्मपितृतश्च शिरा रोगाग्निमध्यतः।
शिरास्त्वेवं विकर्णस्था ईशाग्निपितृरोगतः॥
जयगन्धर्वसुग्रीवगिरिभिश्च प्रभेदिताः।
सत्यमुख्यायता रेखा वितथाच्चासुरान्तगाः॥
एते च सूत्रसंपाता महामर्माणि कीर्तिताः।
सूत्रसंपाताग्रपङ्क्ति षट्कं लाङ्गलमुच्यते॥
शिरासूत्रपातषट्कं तच्चापि लाङ्गलं स्मृतम्।
चतुर्विंशति लाङ्गलानि पदार्धेषु त्रिको णगाः॥
ब्रह्मणश्च चतुःपार्श्वेऽष्टसूत्राणि पञ्चकम्।
पञ्चेषु लाङ्गलं द्वंद्वं षड्रेखाभिर्विधीयते॥
चतुःकर्णेषु शूलानि षड्रेखाभिश्च वज्रकम्।
त्रिशूललाङ्गलपङ्किशिरानीडीविवर्जितम् ॥
बन्धूच्छेदश्चोपवंशे मर्मणि स्यात्कुलक्षयः।
वज्रे च वज्रपाताः स्युस्त्रिशूले च रिपोर्भयम्॥
पङ्क्तौ पतिविनाशश्च लाङ्गुलेपु प्रजाक्षयः।
कर्णशिरा ऽस्त्रीविनाशः सम्पाते चाग्रजातके॥
चतुर्षु ब्रह्मकर्णेषु महामर्म सुकीर्तितम्।
धनधान्यविनाशश्च सर्वनाशस्तथैव च॥
पद्वन्यासषोडशांशो भागो द्वादशकः पुनः।
बालाग्रं सन्धिसम्पाते वर्ज्यते मर्मशिल्पिभिः॥
अष्टौ वर्गाः समाख्याताः कर्णपार्श्वांश्च कीर्तिताः।
ब्रह्मकर्णे त्रिपद्वान्ते? महामर्मचतुष्टयम्॥
मर्मोपमर्मणी रच्ये महादाषभयावहे।
वंशोपवंशौ सन्धिश्च रेखाषट्कं च लाङ्गलम्॥
भूपरिग्रहो वास्तुश्च मर्मांदि कथितं तव।

v1.c63.s2.40

पित्रोर्घातो भवेच्चैव कृत कृते शिरसि खातके ॥
भुजे स्कन्धे बन्धुनाशो हृदये च महाभयम् ।
धनधान्यसमृद्धिश्च जायते कुक्षिखातके ॥
अधुना पदविन्यास लक्षणं वच्यते क्रमात् ।
प्रथमं चैकपदं स्यात्सकलं नाममैव सेवे (एव) च ॥
द्वितीयं चतुष्पदं चैव नाम पैशाच (पेचक) मेव च ।
तृतीयं नवपदं चैव नाम पीठमिति स्मृतम् ॥
चतुर्थं षोडशपदं महापीठमिति स्मृतम् ।
पञ्चमं पञ्चपञ्चांशमुपपीठमिति स्मृतम् ॥
षष्ठं च षष्ठषष्ठांशं चोग्रपीठं च कथ्यते ।
सप्तमं सप्तसप्तांशं स्थण्डिलं परिकीर्तितम् ॥
अष्टमं तु चतुःषष्टिपदं चण्डितमीरितम् ।
कथित (उक्त) मेकाशीतिपदं नवमं परमशाधि (यि) कन्
दशमं शतपदं स्यान्नाम चासनमीरितम् ।
एकादशं तथा प्रोक्तं चैकविंशच्छतं पदम् ॥
स्थानीयं नाम चैवं तु चाथ द्वादशकं तथा ।
वेदाधिक्यं स चत्वारिंशदेव (द्देश्यं) शताधिकं पदम् ॥
त्रयोदशं तथा प्रोक्तं नवषष्ट्यधिकं शतम् ।
पदमेवं विधिं ज्ञात्वा नाम चोभयचण्डितम् ॥
चतुर्दशं तथा प्रोक्तं षण्णवत्यधिकं शतम् ।
नाम तद्भद्रमेवं (तुञ्च) चाथ पञ्चदशं तथा ॥
पञ्चविंशपदाधिक्यं शतद्वयपदान्वितम् ।
नामं (म) महासनं प्रोक्तमथ षोडशकं तथा ॥
सप्ताष्टाधिकं द्विशतं पद्मगर्भपदं भवेत् ।
तथा वै सप्तदशकं नवाशीतिशतद्वयम् ॥
त्रियुतं पदमेवोक्तं तथाष्टादश(मं) कं तथा ।
चतुर्विंशत्सत्रिशतं चैव कर्णाष्टकं भवेत् ॥
एकोनविंशति तथा (चैव) सैकषष्टिशतत्रयम् ।
गणितं पदमित्येवं तथा विंशतिकं ततः ॥
चतुःशतपदं चैव प्रोक्तं कुर्याद्वि (सूर्य्यवि) शालकम् ।
तथा चैकविंशतिकं चैकपञ्चाष्टमाधिकम् ॥
चतुःशतपदं युक्तं सुसंहितमितीरितम् ।
तथापि द्वाविंशतिकं वेदाशीतिचतुःशतम् ॥
पदं सुप्रतिमाकान्तं स्यात्त्रयोविंशद्विधानके ।
नवविंशत्पञ्चशतं पदमेतद्विशालकम् ॥

v1.c63.s2.41

चतुर्विंशद्विधाने तु षडाधिक्यं (द्वय) ससप्तति ।
पञ्चशतपदयुतं विप्रगर्भमिति स्मृतम् ।
पंच्विंशद्विधाने तु पञ्चविंशत्सषट्शतम् ।
पदं विवेश (विश्वेशं) संज्ञातं (य?) नामसे वं प्रकीर्तितम् ॥
षड्विंशतिविधाने तु षट्सप्ततिसंयुक्तम् ।
षट्शतं पद (दं) संज्ञ्ात्वा विपुल (ल) भोगमिति (गं तु) स्मृतम् ॥
सप्तविंशद्विधाने तु नवविंशतिसप्तशः ।
शतयुतं पदं चैव विप्रकान्तमिति स्मृतम् ॥
तथापि चाष्टाविंशत्ये वेदा (शीर्ति च सा) शीत्या तथाधिकम् ।
सप्तसंख्याशतयुतं विशालाक्षमिरित स्मृतम् ।
नवविंशद्विधाने तु चत्वारिंशैकमा (कं चा) धिकम् ॥
अष्टशतपदयुक्तं विप्रभक्तीति (क्तिस्तु) कीर्तितम् ॥
तत्र त्रिंशद्विधाने तु पदं नवशतं तथा ।
एवं विश्वेशसारं च चैकत्रिंशद्विधानतः ॥
एकषष्टिसमांधिक्य पदं नवशतयुतम् ।
एवमीश्वरंकान्तं स्याद्वात्रिंशद्विधानके ॥
चतुर्विंशतिसंयुक्तसहस्रपदसम्मितम् ।
एवं तु चन्द्रकान्तं स्यादेवमुक्तं पुरातनैः ॥

v1.c63.s2.42

वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।
सकलं पेचकं पीठं सहापीठमतः परम् ॥
उपपीठमुग्रपीठं (च?) स्थण्डिलं नाम चण्डितम् ।
मण्डूकपदकं चैव पदं परमशायिकम् ॥
तथासनं च स्थानीयं देशीयोभयचण्डितम् ।
भद्रं महासनं पद्मगर्भं च त्रियुतं पदम् ॥
घ्रतभोगपदं चैव कर्णाष्टकपदं तथा ।
गणितं पादमित्युक्तं पदं सूर्यविशालकम् ॥
सुसंहितपदं चैव सुप्रतीकान्तमेव च ।
विशालं विप्रगर्भं च विश्वेशं च ततः परम् ॥
तथा विपुलभोगं च पदं विप्रतिकान्तकम् ।
विशालाक्षपदं चैव विप्रभक्तिसंज्ञकम् ॥
पदं विश्वेशसारं च तथैवेश्चरकान्तकम् ।
इन्द्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥
सकलं पदमेकं स्यात् पेचकं तु चतुप्पदम् ।
पीठं नवपदं चैव महापीठं द्विरष्टकम् ॥
पञ्चविंशत्युपपीठं षट्षटेचोग्रपीठकम् ।

v1.c63.s2.43

स्थण्डिलं सप्तसप्तांशं मण्डूकं चाष्टकाष्टकम् ॥
परमशायिपदं चैव नन्दनन्दपदं भवेत् ।
आसनं शतभागं स्यादेकविंशच्छतं पदम् ॥
स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम् ।
देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥
षण्णवत्यधिकं चैव शतं चैव महासनम् ।
सपञ्चविंशद् द्विशतं पन्नगर्भमिति स्मृतम् ॥
षडाधिक्यं तु पञ्चाशद्विशतं त्रियुतं पदम् ।
द्विशतं सनवाशीति वृतभोगमिति स्मृतम् ॥
त्रिशतं च चतुर्विंशत् कर्णाष्टकपदं तथा ।
त्रिशतं चैकषष्ट्यंशं गणितं पदसंज्ञितम् ॥
चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।
सुसंहितपदं चैकचत्वारिंशच्चतुःशतम् ॥
सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ॥
नवविंशत्पञ्चशतं विशालं पदमीरितम् ॥
षट्सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् ।
विश्वेशं षट्शतं पश्चात् पञ्चविंशत्पदं स्मृतम् ॥
षट्सप्ततिः षट्शतकं विपुलभोगमिति स्मृतम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥
विशालाक्षपदं वेदाशीतिसप्तशताधिकम् ।
सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥
विश्वेशसारमित्युक्तमेवं नवशतं पदम् ।
सैकषष्ट्या नवशतं पदमीश्वरकान्तकम् ॥
चतुर्विंशतिसंयुक्तं सहस्रपदसंकुलम् ।
इन्द्रकान्तमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ॥

v1.c63.s2.44

.........पदविन्यासः कथ्यते वास्तुसिद्धये ।
सकलं पेचकं पीठं महापीठोपपीठके ॥
उग्रपीठं स्थण्डिलं च मण्डूकपरशायिकम् ।
आसनं च तथा स्थानीयं च देशीयमुच्यते ॥
भयचण्डिताख्यपदं तथा भद्रमहासनम् ।
पन्नगर्भं त्रियुक्तकं वृत्ताभोगाभिधं पुनः ॥
कर्णाष्टकपदं तद्वत् तथैव गणिकापदम् ।
पदं सूर्यविशालं तु सुसंहितपदं पुनः ॥
सुप्रतीकान्तं तद्वद् विशालं विप्रगर्भकम् ।
विश्वेशं विपुलाभोगं तथा विप्रतिकान्तकम् ॥

v1.c63.s2.45

विशालाक्षं विप्रभक्तिकं च विश्वेशसारकम् ।
तथैवेश्वरकान्ताख्यमिन्द्रकान्तपदं पुनः ॥
द्वात्रिंशद्भेदसंयुक्तमेवं पदमिति स्मृतम् ।
मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा ।
सन्ति संक्षेपतस्तानि द्विधा वक्ष्यामि सांप्रतम् ॥
नाम्ना स्युर्दश पूर्वसौम्यमुखगा वास्तौ स्थिताः कल्पिते-
ष्वेकाशीतिपदेषु कर्णनिहिते सूत्रे लिखेत् तद्युते ।
पश्चात् षट्त्रिपदस्थिता श्रुतिः+ + पार्श्वस्थिता रज्जवो
मर्मादीनि विभज्य वच्मि बहुधा तन्नाडिका रज्जुभिः ॥
धर्मा यशोवती भद्रा शुभदा कामदा शुभा ।
चित्रा सौम्या सुधा गौरी नाड्यः प्रागानना दश ॥
अमृता वारुणी शान्ता नादिनी ब्रह्मवादिनी ।
मनोरमा रतिः कान्ता ज्वालिनीशोत्तरानना ॥
दक्षिणादिक्रमाज्ज्ञेया तद्रज्जुयुतिषु क्रमात् ।
अष्टाभिः सङ्गतिर्यत्र नाडीरज्जुविमिश्रितैः ॥
सूत्रैस्तत्र महामर्म ब्रह्मस्थानस्य कोणतः ।
प्रत्येकं दिक्षु षट्कानि त्रिकोणा सन्ति पार्श्वतः ॥
नाडीद्वयसमायोगान्युपमर्माणि तानि तु ।
चतुर्विंशच्चतुष्काणि नाडीमर्माणि सन्ति च ।
रज्जुमर्माणि रज्जुभ्यां चतुष्कं नवकं भवेत् ।
कोणस्तम्भगमर्मान्तं त्रिकं बाह्यं विनिर्दिशेत् ॥
षट्कं च मर्मसंभेदं कृतिं परणां वदन्ति हि ।
पञ्चकं मर्मसन्धिश्च द्वे द्वे दिक्षु चतुर्ष्वपि ॥
मध्यस्थितं मर्मरज्जुभ्यां दोषवर्जितम् ।
स्थानान्येतानि वास्तोर्गृहकरणविधौ पीडयेन्नैव विद्वान् ,
पीडा स्यात् पीडितेषु क्षितिपतिविपयब्राह्मणानां पशूनाम् ।
तत्कर्तुः शिल्पिनां वा सतनयवनिताभ्रातृसंबन्धिनां च,
स्वस्थाः स्युस्तेन विद्धे पृथगथ विहितान् वच्मि दोषान् विभज्य ॥
मूर्ध्निं वक्त्रे च कर्णो च हृदये मरणं भवेत् ।
विद्धे चोरसि हृद्रोगं पादयोः कलहस्तथा ॥
ललाटे भ्रातृहानिः स्याद् , वित्तहानिस्तु पृष्ठयोः ।
ऊर्वोर्मृत्युस्तु बन्धूनां पत्नीनाशस्तु वा भवेत् ॥
गुल्फे तु सुतहानिःस्यादष्टके गर्भविच्युतिः ।
षट्के च वृद्धिः शत्रूणां चतुष्के च गजक्षयः ॥
पञ्चके व्याधिरुद्दिष्टस्तस्क रेभ्यस्त्रिके भयम् ।

v1.c63.s2.46

वर्जयेत् कुड्यमध्ये च स्तम्भमध्यादिषु त्विदम् ॥
उक्तानुक्तं च यत्किञ्चित् प्रमादाद् यदि संभवेत् ।
एतानि दोषशान्त्यर्थं निदनेद्वास्तुकर्मणि ॥
सिंहमातङ्गमहिषकिटिकूर्मशिरांसि च।
शुद्धहाटकलृप्तानि कर्तुः सौख्यविवृद्धये ॥

v1.c63.s2.47

मानम्—

v1.c63.s2.48

तद्वस्तु मानयेच्छिल्पी मानदण्डेन सर्वतः ।
तस्मान्मानं शिल्पिवर्गैरवश्यं ज्ञेयमीरितम् ॥
मानज्ञानविहीनैस्तु कर्म कर्तुं न शक्यते ।
कृतं च कर्म वैफल्यं भजते नात्र संशयः ॥
तन्मानं बहुधा प्रोक्तं तज्ज्ञेयं सूक्ष्मचक्षुषा ।
स्वर्गे लोके मानमादौ गुरुणा संप्रकीर्तितम् ॥
विविधं तच्च मघवा प्रोक्तवान्सुरसंसदि ।
दैवेन नन्दिना तच्च बहुधाविष्कृतं पुरा ॥
तदेव विविधं प्रोक्तं नारदेन महर्षिणा ।
मानमेवं बहुविधं कथितं पूर्वसूरिभिः ॥
देवमानुषभूपालप्रासादेषु गृहेषु च ।
मण्टपेषु विमानेषु गोपुरे तोरणेऽपि च ॥
सोपानेषु प्रतोलीषु वापीकूप्रादिकेषु च ।
विविधासु च शालासु चन्द्रशालादिकासु च ॥
दोलादिषु गवाक्षेषु खट्वांसु प्रतिमासु च ।
उपपीठेषु पीठेषु सिंहवक्त्रादिकेषु च ॥
अन्येषु शिल्पकदये॑षु यन्मानं तच्च योजयेत् ।
मानाभावे क्रियादीनां न शोभा न बलादिकम् ॥
द्रव्यनाशश्चापयशो भवत्येव न संशयः ।
तस्मान्मानं शिल्पिवर्गैरवश्यं ज्ञेयमीरितम् ॥
परमाण्वादिमानन्तु प्रसिद्धं सुरसंसदि ।
न ग्राह्यं नापि विज्ञेयं मानवैस्तु कदाचन ॥
तस्मान्मानवमानन्तु प्रोच्यते फलदायि तत् ।
शालिव्रीहिस्तु सर्वत्र सिद्धमानोद्यो मतः ॥
तैर्त्रीहिभिस्त्रिभिर्युक्तमङ्गुलं मानचं मतम् ।
द्वादशाङ्गुलसंयुक्तो वितस्तिरभिधीयते ॥
वितस्तिद्वयसंयुक्तं हस्तमानमुदीरितम् ।

v1.c63.s2.49

हस्तमानद्वयोपेतो धनुर्मुष्टिरितीरिता ॥
धनुर्मुष्टिद्वयोपेतो दण्ड इत्यभिधीयते ।
दण्डद्वयेन संयुक्तो नृपदण्ड इतीरितः ॥
नृपदण्डद्वयोपेतो ब्रह्मदण्ड इति स्मृतः ।
इत्यादि बहुधा मानं शास्त्रेषूक्तं मनीषिभिः ॥
दारुणा पट्टवस्त्रेण लोहैर्वा वल्कलादिभिः ।
मानसूतमिदं कार्यं शिल्पिभिश्शास्त्रपारगैः ॥
बेरनिर्माणकार्येषु धनुर्मुष्टिरुदीरिता ।
विमाने देवपीठेषु वह्निशालादिकासु च ॥
हस्तमानन्तु संयोज्यं कार्यज्ञैश्शिल्पिनां वरैः ।
दण्डेन मानयेद्ग्रामनगरादीन्नृपेण वा ॥
घण्टापथं च श्रृङ्गाटं चत्वरं मानवं गृहम् ।
निष्ष्यां विपणिं मार्गशालां सस्यस्थितिं तथा ॥
दण्डेन क्ष्मापदण्डेन मानयेच्छल्पकोविदः ।
पुष्कलं ग्राममानं च गिरिदुर्गवनानि च ॥
तरङ्गिणीं तटाकं च नृपप्रासाद्कन्तथा ।
उपकार्या च विविधाणावरोधांश्च शिल्पिरराट् ॥
मानयेन्नृपदण्डेन सर्ववास्तुप्रमाणवित् ।
देवप्रासादशालादीन्ब्रह्मदण्डेन मानयेत् ॥
स्थिरधीरप्रमत्तश्च मानविच्छल्पकोविदः ॥

v1.c63.s2.50

रेण्वष्टकेन बालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।
भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥
अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।
ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥
सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता ।
करस्यार्धे चतुःपर्व शेषं स्याद् भक्तमङ्गुलैः ॥
तत्राग्रे पर्वर्रेखाः स्युस्तिस्रः पुष्पकभूषिताः ।
शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥
अग्राधै मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् ।
मध्यं त्रिधाष्टमं कार्यं चतुर्था द्वादशं ततः ॥
हस्तः स्यादङ्गुलमानेन विधेयाङ्गुल(मि?)इष्यते ।
तद् सार्धं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥

v1.c63.s2.51

स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ।
पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला ॥
तलं स्यात् पञ्चभिः पदभिः करःपादाङ्गुलैर्भवेत् ।

v1.c63.s2.52

सप्तभि(ष्टं?)र्दिष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते ॥
प्रादेशो नवभिस्तैः स्याच्छ्रयतालो दशाङ्गुलः।
गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला ॥
चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः।
रनिः स्यादेकविंशत्या स्यादरत्निः करोन्मितः ॥
द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्तितः।
चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा ॥
षण्णवत्याऽङ्गुलैश्चापं भवेन्नाडीयुगं तथा।
शतं षडुत्तरं दण्डो नलवस्त्रिंशद्धनुर्मितः॥
क्रोशो धनुःसहस्रं तु गव्यूतं तद्वयं विदुः।
चतुर्गव्यूतमिच्छन्ति योजनं मानवेदिनः॥
एकं दश शतमस्मात् सहस्रमनु चायुतम्।
नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि ॥
वृन्दखर्वनिखर्वाणि शङ्कुपद्माम्बुराशयः।
ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः ॥
परार्धं चेति विज्ञेयं दशवृद्धयोत्तरोत्तरम्।
संख्यास्थानानि कथितान्येवमेतानि विंशतिः॥

v1.c63.s2.53

विभागायमविस्ताराः खेटग्रामपुरादिषु ।
प्रासादवेश्मपरिखाद्वाररथ्यालमादिषु ॥
मार्गांश्च निर्गमा(ये?श्चै)षां सीमक्षेत्रान्तराणि च।
वनोपवनभागांश्च देशान्तरविभक्तयः॥
योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः।
प्राशयेन प्रमातव्याः खातक्रकचराशयः॥
तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः।
तथा दोलाम्बुशस्त्रादि पातमानविनिर्णयम् ॥
शैलखातनिकेतानि सुरुङ्गामानमान्तरम्।
साधारणेन बाह्यध्वमासं च परिकल्पयेत्॥
आयुधानि धनुर्दण्डान् यानं शयनमासनम्।
प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम्।
अरघट्टेन्युयन्त्राणि युगयूपहलानि च ॥
शिल्प्युपस्करनौच्छत्रध्वजातोध्यानि यानि च।
वृसीकर्मोपकरणपट्टवाणादिकं च यत्।
तत्त्वदण्डांस्तथा मात्राशयहस्तेन मापयेत् ॥

v1.c63.s2.54

हस्तलक्षणमानं च गायत्रीमानसम्भवः।
मानोन्मानप्रमाणं च सर्वकर्मसु कारणम् ॥

v1.c63.s2.55

चित्तेयं सूत्रधारेण हस्तमानं च लक्षणम् ।
मानोन्मानप्रमाणाख्यं वास्तुशास्त्रादिदीपकम् ॥
भास्करोदयनाद् दिष्टः किरणैश्च प्रकाशितः ।
जालान्तरगते रश्मौ सूक्ष्मरेण्वष्टमांशकः ॥
परमाणुः प्रमाणं तत् समुद्दिष्टं समन्ततः ।
परमाणुरष्टगुणमेकत्र पिण्डलक्षणम् ॥
रजोभिरष्टगुणितं केशाग्रं च प्रसिद्ध्यति ।
केशाग्रैरष्टगुणितैर्लिक्षाक्रमं तु योजयेत् ॥
केशाग्रैश्चाष्टगुणितैर्लिक्षा चैका तु सिद्ध्यति ।
लिक्षाभिरष्टभिर्यूका यूकाभिश्चाष्टभिर्यवः ॥
तथाष्टगुणितैश्चैव यवैर्मानं प्रसिद्ध्यति ।
निर्दोषं मानमेतच्च स्यात्परमाणुमूलकम् ॥
उत्तममध्यमाधमैस्त्रिविधो माननिर्णयः ।
न्यूनाधिके कृते हस्ते दोषः स्याच्च महाभयम् ॥
ज्येष्ठं चाष्टयवैः प्रोक्तं मध्यमं सप्तभिर्यवैः ।
स्यात्कनिष्ठं षड्यवैस्तच्चतुर्विंशतिभिः करः ॥
एवं मानोद्भवो हस्त उदितश्च त्रिधा क्रमात् ।
अङ्गुष्ठाग्रे पर्वरिखा पुष्पकं त्रिभिरङ्गुलैः ॥
आं तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ॥
एतान्यङ्गुलाक्षराणि क्रमतश्चैव संस्थिताः ।
पुष्पके देवतास्तिस्रः प्रतिष्ठाप्या यथाक्रमम् ॥
आदौ विष्णुरन्ते रुद्रो ब्रह्मा मध्ये च संस्थितः ।
भूर्भुवः स्वर्बीजत्रयं स्युराद्यस्वरदेवताः ॥
ईश्वरो वायुविश्वे च वह्निर्ब्रह्मा दिवाकरः ?
रुद्रो यमो विरूपाख्यो वसुरिन्द्रो जलाधिपः ॥
स्कन्द इच्छा क्रियाज्ञानं धनदो विजयस्तथा ।
वासुदेवो बलभद्रः प्रद्युम्नश्चानिरुद्धकः ॥
एते च वासुदेवांशाः कम्बिकानिश्चलाः स्मृताः ।
आगमैर्वेद मन्त्रैश्च पूज्याश्च परमाः कलाः ॥
रुद्रश्च पवनस्त्वष्टा ऽ नलो ब्रह्मा तथा यमः ।
वरुणो धनदो विष्णुर्मूलतश्चान्ततः स्थिताः ॥
अञ्जनैः खदिरैर्वंशैः कनिष्ठाः सर्जपादपैः ।
हेमरौप्यताम्रमयाः श्रेष्ठा लौहाश्च मध्यमाः ॥
आयामश्चचतुर्विंशत्या त्रिविधाङ्गुलतः स्मृतः ।

v1.c63.s2.56

ज्येष्ठमध्यकनिष्ठानां प्रत्येकं हस्तसङ्ख्यया ॥
नगरग्रामपूरखेटकूटानां कर्वटस्य च ।
मानसङ्ख्या योजनैश्च ज्येष्ठहस्तेन मापयेत् ॥
प्रासादप्रतिमालिङ्गजगतीपीठमण्डपान् ।
राज्ञां निवेशं भवनं मापयेन्मध्यमानतः ॥
शय्यासनं स्थालीपात्रं तन्न सिंहासनादिकम् ।
शस्त्रं थानं च झम्पानं मापयेच्च कनिष्ठतः ॥
सिद्धार्थार्ङ्गुलपृथुत्वे पिण्डं कुर्याद् तदर्धतः ।
चतुर्विंशत्यङ्गुलानां क्रमेण नवदेवताः ॥
रुद्राद्या ब्रह्मपर्यन्तं देवाः स्थानेषु पुष्पके ।
ब्रह्मणतो विष्णुपर्यन्तं रेखाः स्युर्द्वादशाङ्गुलैः ॥
ब्रह्मादिस्थानपञ्चकं विभक्तं चाङ्कितं त्रिधा ।
अष्टमाङ्गुलं कार्यं चतुर्था द्वादशाङ्कितम् ॥
इत्युक्तमानप्रमाणं प्रयुक्तं वास्तुवेदिभिः ।

v1.c63.s2.57

मुनीनां नयनोद्वीच्य(च्यं)तत्परमाणुरुदाहृतम् ॥
ताभिरष्टाभिर्गुणितं रथधूलिरिति स्मृतम् ।
रथधूल्यष्टमिलितं वालाग्र(न्तु) मिति तु स्मृतम् ॥
वालाग्रैरष्टधायुक्तं लिच्चेति परिकीर्तितम् ।
लिक्षै(क्षामि) श्चाष्टभिरायुक्तं यूकं तमि(दि)ति कथ्यते ॥
युकैरष्टाभिः(भिश्च)प्रोक्तं यवमेवं विधीयते ।
यवैरष्टसमायुक्तमङ्गुलं तत्प्रकीर्तितम् ॥
मानमात्रं त्रिधा प्रोक्तं यववृद्धिविशेषतः ।
षट्सप्ताष्टयवैरेतत्कनिष्ठो(ष्ठ)मध्यमोत्तमम् ॥
अङ्गुलैर्द्वादशभिर्युक्तं वितस्तिः परिकीर्तितम्(ता) ।
वितस्तियुग्मं किष्कुः स्यात्प्राजापल्योऽङ्गुलाधिकः ॥
षड्विंशतिकाङ्गुल्यं हस्तमुक्तं धनुर्ग्र (हं ?) हः ॥
चतुर्हस्तं धनुर्दण्डं दण्डाष्टं रज्जुमेव च ।
याने च शयने चैव किष्कुहस्तेन मानयेत् ॥
विमानस्य तु सर्वेषां प्राजापत्येन मानयेत् ।
मानयेद्वास्तु यन्मानं धनुर्मुष्टिकरेण च ॥
ग्रामादीनां च मानानां(च सर्वेषां)मानयेत्तद्धनुर्ग्रहम् ।
किष्कुहस्तेन यन्मानं मानयेद्विश्वत्तस्तु वा ॥
शमी शाकं च चापं च खदिरः कृ(रश्व)तमालकः ।
क्षीरिणी तिन्त्रिणी(तिन्दिनी)चैव हस्तदारु प्रकीर्तितम् ॥
दारुसंग्रहणं(णात्) पश्चात्रिमासान्तं जले क्षिपेत् ।

v1.c63.s2.58

क्षालयित्वा परिग्राह्यं तक्षकेण विदारयेत् ॥
तद्दारितं निकरं दारु तक्षयेच्चतुरस्रतः।
एकहस्तसमं दीर्घं तदेकाङ्गुलविस्तृतम् ॥
घनमध्या(र्धा)ङ्गुलं प्रोक्तं हस्त(स्तं)निश्चित्य योजयेत्।
न वक्रं न च भिन्नं च न रन्ध्रं स्निग्धमेव च ॥
ऋजुकं वापि वेणुश्च च(शुश्रु)दण्डदारु प्रकीर्तितम् ।
हस्तदण्डोभयोः प्रोक्तं(क्ता)विष्णुमूर्त्य(र्तिर)धिदेवता ॥
नालिकेर(नारिकेल)फलैःशाता(शाणैः)दर्भैर्न्यग्रोधवल्कलैः ।
कार्पासं(स)किंशुकैः(क)सूत्रैस्तालकेतकवल्कलैः ॥
यज्ञभेद्वल्कलैर्ग्राह्यं रज्जुं संकल्पवित्तमः।
पार्श्वार्दिकाङ्गुलं चैव तत्समं रज्जुनाहकम्॥
देवभूसुरभूपानां त्रिवर्ति(र्ती)ग्रन्थिवर्जितम्(ता)।
वणिजां शूद्रजातीनां रज्जुरेकद्विवर्तिता(र्ती च) ॥
वासुकी रज्जुदेवात्मा मानतञ्जः(तज्ज्ञः)पितामहाः(हः) ।
तद्धार्यं (तद्धृत्वा) हस्तं रज्जुञ्च (च) मानदण्डं तथैव च ॥
स्मृत्वा मनसि तां (तान्) देवां (वान्)मानयेद्वर्धकी(किस्) तथा ।
एवं मान(ने)कृते वास्तुवस्त्वाद्वि च विवर्धयेत् ॥
उक्तं न कुरुते यस्तु स स्थितो रेणुकं फलम् ।
तस्मात्परिहरेच्छिल्पी कारयेत्तत्तु विश्वतः ॥
सर्वेषामपि वस्तूनां मानेनैव विनिश्चयः ।
तस्मान्मानोपकरणं वक्ष्ये सङ्क्षेपतः क्रमात् ॥
परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् ।
परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ॥
परमाणुभिरष्टाभी रथरेणुरुदाहृतः ।
रथरेणुश्च वालाग्रं लिक्षायूकायवास्तथा ॥
क्रमशोडष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलः ।
अङ्गुलं तु भवेन्मात्रं वितस्तिर्द्वादशाङ्गुलम् ॥
तद्द्वयं हस्तमुद्दिष्टं तत् किष्कुरिति मतं वरैः ।
पञ्चविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ॥
षड्विंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः ।
याने च शयने किष्कुः प्राजापत्यं विमानके ॥
पास्तूनां तु धनुर्मुष्टिर्मात्रादीनां धनुर्ग्रहः ।
सर्वेषामपि वस्तूनां किष्कुरेवाथवा मतः ॥
रत्विश्चैवमरत्निश्च भुजो बाहुः करः स्मृतः ।
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तिता ॥

v1.c63.s2.59

दण्डेनाष्टगुणा रज्जुर्दण्डग्रामं च पत्तनम्।
नगरं निगमं खेटं वेश्मादीन्यपि मानयेत्॥
गृहादीनां तु हस्तेन याने च शयने बुधैः।
वितस्तिना विधातव्यं क्षुद्राणामङ्गुलेन तु॥
यवेनाल्पीयसां मानसेवं मानक्रमं विदुः।
मध्यमाङ्गुलिमध्यस्थपर्वमात्रागतं तु यत्॥
कर्तुर्मात्राङ्गुलं प्रोक्तं यागादीनां प्रशस्यते।
देहलब्धाङ्गुलं यत्तदुपरेिष्टाद् विधीयते॥
एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम्।

v1.c63.s2.60

परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः।
त्रसरेणुरष्टभिः स्यात् तैरेव परमाणुभिः॥
तदष्टभिस्तु बालाग्रं लीक्षा बालाग्रकाष्टभिः।
लीक्षाष्टभिस्तु जूका स्याज्ज्‍ूकाष्टगुणितो यवः॥
यवोदरैः षड्गुणैर्वा सप्तभिर्वाधमादिकम्।
क्रमादष्टगुणैर्वाथ मानाङ्गुलमिति स्मृतम्॥
श्वेतशाली महाशाली रक्तशाली तथैव च।
सौगन्धिकशेमराली च शाली पञ्चविधा स्मृता॥
तृरणे सिता स्मृता शाली रक्तो व्रीहिरुदाहृतः।
तासामुदरविस्तारैरपि मानाङ्गुलं स्मृतम्॥
शाल्यायतैस्त्रिभिस्तैश्च सार्धैस्तैर्वेदसम्मितैः।
मानाङ्गुलो नचाष्येवं कनिष्ठादीनि कल्पयेत्॥
र(ल?क)शाल्यायतं तेषु द्विगुणं वा त्रिमात्रकम्।
चतुस्त्रिंशद्विधं दृष्टमेवं मानाङ्गुलं बुधैः॥
तद्भर्तुर्दक्षिणकरमध्यमासध्यपर्वणः (?)।
दैर्घ्यं मात्राङ्गुलं श्रेष्ठं नीचं तद्वयसम्मितम्॥
इत्थं मात्राङ्गुलं शिल्पशास्त्रज्ञैरीरितं द्विधा।
अङ्गुलत्रितया मुष्टिर्वितस्तिद्वादशाङ्गुलिः॥
तद्द्वयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम्।
एकैकाङ्गुलवृद्ध्यातो भवन्त्यष्टौ कराः स्फुटम्॥
प्राजापत्यं धनुर्मुष्टिश्चापग्रहमतः परम्।
प्राच्यां वैदेहकं नाम्ना वैपुल्यं च प्रकीर्तितम्॥
इत्थमेकोत्तरत्रिंदङ्गुलान्ताः कराः स्मृताः।
एवं त्वशीतिसंयुक्तद्विशतं करभेदकम्॥
हस्तैश्चतुर्भिर्भवतीह दण्डो नीचोत्तमः पञ्चभिरेव हस्तैः।
सार्धांष्ट्रिहस्तैश्चैथ मध्यमोऽयं क्रोशः सहस्रद्वितयेन तेषाम्॥

v1.c63.s2.61

स्याद् योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः ।
निवर्तनं विंशतिसंख्यवंशैस्तयैव रज्जुर्गजदण्डदीर्घः ॥
आसन्धेर्बद्धमुष्टिस्तु करोऽरत्निरुदाहृतः ।
स एवारात्निरुद्दिष्टास्याष्टौ चेदाकनिष्ठिका ॥
प्रादेशतालगोकर्णवितस्तयः स्युर्यथाक्रमम् ।
तर्जंन्यादिकनिष्ठान्तमङ्गुष्ठाग्रात् प्रसारिताः ॥
मानाङ्गुलैः केवलमेव कुर्याद् देवालयादीनि गृहाणि वा नृणाम् ।
कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिष्यते बुधैः ॥
याने च शयने किष्कुः प्राजापत्यं विमानके ।
आरामोद्यानकादौ तु प्राजापत्यकरं स्मृतम् ॥
वास्तूनां च धनुर्मुष्टिर्ग्रामादीनामियं तु वा ।
वापीकूपादिमार्गादौ ग्रामादीनां धनुर्ग्रहम् ॥
विप्रादीनां करौ द्वौ द्वौ प्रकीर्णकधनुर्ग्रहौ ।
वैपुल्यचापसुप्व्याख्यौ स्यातां भवनमापने ॥
प्राजापत्याख्यवैदेहौ किष्कुप्राच्यौ च तत्क्रमात् ।
सर्वेषां सर्ववस्तूनां किष्कुरेवाथवा मतः ॥
धनुर्ग्रहः प्रकीर्णाद्या द्विजानां गृहमापने ।
वैपुल्यं च धनुर्मुष्टिः क्षत्रियाणां विशेषतः ॥
प्राजापत्यं च वैदेहं वैश्यजात्यार्हकं स्मृतम् ।
किष्कुप्राच्यककूर्चेव शूद्राणामिति केचन (?) ॥
दण्डेन तद्ग्रामनिवेशनार्थं पुराणि वाटं निगमं च कुर्यात् ।
हस्तेन वेद्यादिषु मानमुक्तं स्वल्पेषु चेदङ्गुलकैर्यवैर्वा ॥
मुष्टिः स्याद् यज्ञपात्रादौ वितस्तिर्वस्त्रकादिषु ।
तालं विम्बादिके माने भवेत्तद्धर्मि(?) तद्विधौ ॥

v1.c63.s2.62

आयादिषड्वर्गः

v1.c63.s2.63

आयादीनां षट्णां सामान्यम्

v1.c63.s2.64

(i) तन्त्रसमु० २.३

v1.c63.s2.65

इष्टाततानवितानमाननिचये त्रिघ्नेऽष्टभिर्भाजिते ।
शेषो योनिरिह व्ययो मुनियुजाथायोऽष्टनिघ्नेऽरुणैः ॥
ऋक्षैर्ऋक्षमवासिरत्र तु वयो ज्ञेयं तिथिखिंशता ।
वारो भूमिधरैर्निधिप्रगुणिते धर्माहृते वा व्ययः ॥

v1.c63.s2.66

(ii) विमर्षिणीतः विस्तारायामराशौ वसुगुणित इनैर्भाजिते शेष आयो

v1.c63.s2.67

रामघ्ने मन्वह्राप्ते व्यय इह वसुभिर्भक्तशेषस्तु योनिः ।

v1.c63.s2.68

अष्टाभिर्वर्धतेऽस्मिंस्त्रिनवहतफलं तद्वयः शेषऋक्षं
पर्यन्ते त्रिंशदाप्ते तिथिरृषि भजिते वार आदित्यपूर्वः ॥

v1.c63.s2.69

(iii) मयमततः व्यासायामसमूहे वसुलिधि गुणिते दिनेशधर्महृते
आयं व्ययमवशिष्टं रामघ्नेऽष्टाहृते योनिः ।

v1.c63.s2.70

प्राची साधने आयादीनां महत्वं विशेषतश्चयोनेः ॥ (तन्त्रसमु० २.२.)
ईशादिप्रेतेशपर्यन्तदिक्स्थाः प्रासादाः ग्रामादिकेषुध्वजोत्थाः ।
गोयोन्युत्थाः शेषदिक्संस्थिता स्युस्तत्तद्वाप्यार्चा चेष्यते तत्सयोनिः ॥

v1.c63.s2.71

तथापि मनुष्यालय चन्द्रिकायाम् (३. ३१)—

v1.c63.s2.72

"योनिः प्राणा एव धाम्नां यदस्माद् ग्राह्यस्तत्तद्धयोयोनिप्रभेदः”

v1.c63.s2.73

आयव्ययांशकर्क्षाणि प्रवक्ष्यामोऽथ वेश्मनाम् ।
गृहमानवशात् सम्यक् कर्तुंः स्थानबलाबलम् ॥
नगरे वा पुरादौ वा दण्डैर्मानं विधीयते ।
तदलाभे करैः कार्यं सम्यगायविशुद्धये ॥
यत्र हस्तैर्मितिः क्षेत्रे तत्रायो हस्तसंश्रितः ।
क्षेत्रालाभे तु तत्रैव ग्राह्यः स स्यादिवाङ्गुलैः (?) ॥
अङ्गुलैस्तु मिते क्षेत्रे सोऽङ्गुलैस्तदलाभतः ।
पादैर्वाथ यवैर्वापि ग्राह्यः क्षेत्रानुसारतः ॥
गृहेषु कर्महस्तेन मानं स्वामिकरेण वा ।
देवतानां तु धिष्ण्येषु कर्महस्तेन केवलम् ॥
दैर्घ्यं हन्यात् पृथुत्वेन हरेद् भागं ततोऽष्टभिः ।
यच्छेषमायं तं विद्याच्छास्त्रदृष्टं ध्वजादिकम् ॥
ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरकुञ्जरौ ।
ध्वाङ्क्षश्चेति त उद्दिष्टाः प्राच्याद्यासु प्रदक्षिणम् ॥
अन्योन्याभिमुखास्त चे कामं स्वच्छन्दचारिणः ।
पूर्वाचार्यैः समुद्दिष्टा आयवृद्धिविधायकाः ॥
वृषसिंहगजाः शस्ताः प्रासादपुरवेश्मसु ।
ध्वजेऽर्थलाभः सन्तापो धूमे भोगो मृगाधिपे ॥
कलिः शुनि धनं धान्यं वृषे स्त्रीदूषणं खरे ।
गजे भद्राणि दृश्यन्ते ध्वाङ्क्षे तु मरणं ध्रुवम् ॥
वृषस्थाने गजं कुर्यात् सिंहं वृषभहस्तिनोः ।
न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः ॥
कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ।
क्षत्रियस्य गजः शस्तो वृषभः शस्यते विशः ॥
शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ।

v1.c63.s2.74

एवमेते गृहादीनामायाः सर्वे प्रकीर्त्तिताः ॥
प्रदद्यादासने सिंहमातपत्रेषु तु ध्वजम् ।
चिह्नेष्वपि च सर्वेषु चामरव्यजनादिषु ॥
सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ।
सार्यश्वगजपर्याणेष्विभं वृषभमेव च ॥
अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ।
याने च वाहने चैव मतिमान् योजयेद् गजम् ॥
प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ।
कुण्डेषु च ध्वजं दद्याद् देवोपकरणेषु च ॥
आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ।
महानसे वृषं दद्याज्जलाधारे जलाशये ॥
स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ।
एतद्गृहे तथा दद्याद् गृहोपकरणेषु च ॥
वृषभं गजशालायां प्रदद्याद् गजमेव वा ।
वृषं तुरगशालासु गोशालागोकुलेषु च ॥
गजाश्ववृषशालासु सिंहं यत्नेन वर्जयेत् ।
अधमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः ॥
धूमोऽग्निजीविनां शस्तो ध्वाङ्क्षः सन्न्यासिनां हितः ।
श्वगणानां श्वपाकानां स्ववेश्मानां खरः शुभः ॥
नटनर्तकवेश्मेशु पण्यस्त्रीणां खरः शुभः ।
कुलालरजकादीनां तथा गर्दभजीविनाम् ॥
गृहादिषु क्षेत्रफलँ गणयेदष्टभिर्भजेत् ।
त्रिघनेन भजेच्छेषं नक्षत्रेऽष्टहृते व्ययः ॥
पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ।
साम्याधिक्यन्यूनताभिरायतः स्याद् यथाक्रमम् ॥
व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ।
भागं त्रिभिर्हरेत् तत्र यच्छेषं सोऽशको भवेत् ॥
चतुरङ्गे यथा मन्त्रो मुख्यो लग्नान्नवांशकः ।
तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् ॥
इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः ।
स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च ॥
गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ।
नवभिर्भाजिते तस्मिञ्छेषं तारा प्रकीर्त्तिता ॥
जन्म सम्पद्विपत्क्षेमपापसाधकनैधनीः ।
मैत्रीपरममैत्र्यौ च प्राहुः संज्ञाः समाः फले ॥

First 74 of 110 passages. Read on

Cites (7)