Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.45

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.45

Language
English

v1.c63.s2.45

विशालाक्षं विप्रभक्तिकं च विश्वेशसारकम् ।
तथैवेश्वरकान्ताख्यमिन्द्रकान्तपदं पुनः ॥
द्वात्रिंशद्भेदसंयुक्तमेवं पदमिति स्मृतम् ।
मर्मादीनि निषिद्धानि वास्तुकर्मण्यनेकधा ।
सन्ति संक्षेपतस्तानि द्विधा वक्ष्यामि सांप्रतम् ॥
नाम्ना स्युर्दश पूर्वसौम्यमुखगा वास्तौ स्थिताः कल्पिते-
ष्वेकाशीतिपदेषु कर्णनिहिते सूत्रे लिखेत् तद्युते ।
पश्चात् षट्त्रिपदस्थिता श्रुतिः+ + पार्श्वस्थिता रज्जवो
मर्मादीनि विभज्य वच्मि बहुधा तन्नाडिका रज्जुभिः ॥
धर्मा यशोवती भद्रा शुभदा कामदा शुभा ।
चित्रा सौम्या सुधा गौरी नाड्यः प्रागानना दश ॥
अमृता वारुणी शान्ता नादिनी ब्रह्मवादिनी ।
मनोरमा रतिः कान्ता ज्वालिनीशोत्तरानना ॥
दक्षिणादिक्रमाज्ज्ञेया तद्रज्जुयुतिषु क्रमात् ।
अष्टाभिः सङ्गतिर्यत्र नाडीरज्जुविमिश्रितैः ॥
सूत्रैस्तत्र महामर्म ब्रह्मस्थानस्य कोणतः ।
प्रत्येकं दिक्षु षट्कानि त्रिकोणा सन्ति पार्श्वतः ॥
नाडीद्वयसमायोगान्युपमर्माणि तानि तु ।
चतुर्विंशच्चतुष्काणि नाडीमर्माणि सन्ति च ।
रज्जुमर्माणि रज्जुभ्यां चतुष्कं नवकं भवेत् ।
कोणस्तम्भगमर्मान्तं त्रिकं बाह्यं विनिर्दिशेत् ॥
षट्कं च मर्मसंभेदं कृतिं परणां वदन्ति हि ।
पञ्चकं मर्मसन्धिश्च द्वे द्वे दिक्षु चतुर्ष्वपि ॥
मध्यस्थितं मर्मरज्जुभ्यां दोषवर्जितम् ।
स्थानान्येतानि वास्तोर्गृहकरणविधौ पीडयेन्नैव विद्वान् ,
पीडा स्यात् पीडितेषु क्षितिपतिविपयब्राह्मणानां पशूनाम् ।
तत्कर्तुः शिल्पिनां वा सतनयवनिताभ्रातृसंबन्धिनां च,
स्वस्थाः स्युस्तेन विद्धे पृथगथ विहितान् वच्मि दोषान् विभज्य ॥
मूर्ध्निं वक्त्रे च कर्णो च हृदये मरणं भवेत् ।
विद्धे चोरसि हृद्रोगं पादयोः कलहस्तथा ॥
ललाटे भ्रातृहानिः स्याद् , वित्तहानिस्तु पृष्ठयोः ।
ऊर्वोर्मृत्युस्तु बन्धूनां पत्नीनाशस्तु वा भवेत् ॥
गुल्फे तु सुतहानिःस्यादष्टके गर्भविच्युतिः ।
षट्के च वृद्धिः शत्रूणां चतुष्के च गजक्षयः ॥
पञ्चके व्याधिरुद्दिष्टस्तस्क रेभ्यस्त्रिके भयम् ।