Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.80
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c63.s2.80
- Language
- English
v1.c63.s2.80
साध्यक्षेत्रं च त्रिपुटं प्रभिन्नं च नवांशकैः ॥ अष्टौ तथाऽऽयस्थानानि मध्ये स्यात्कुलदेवता । गृहस्याऽभिमुखाः शस्ताः मध्यमाश्च पराङ्मुखाः ॥ नगराभिमुखाः शस्ताः पुरबाह्ये तु देवताः । देवानां प्रतिमा आया दिशापाला इति स्मृताः ॥ वसवः प्रतिदेवाश्च शिवयोगसमुद्भवाः । यावत्तु शिवदेवत्वं यावच्चन्द्रार्कमेदिनी ॥ तावच्च वास्तुशास्त्रोक्ता आयाश्च समुदाहृताः । साध्यक्षेत्रगुणाकारैरायाश्चैव प्रतिष्ठिताः ॥ यावत्तु क्षेत्रभक्तिश्च तावदायः प्रपालयेत् । खण्डितं स्फुटितं जीर्णं विशीर्णं स्फुटस्फोटितम् ॥ त्यक्त्वा च वास्तुदेवाद्यमायास्तेषु विवर्जिताः । अपदं तस्य संस्थानं मासान्ते सन्धिशोधितम् ॥ दिनाष्टके प्रलिप्ताङ्गं वर्जयन्ति च नित्यशः । भानूदये मण्डलं च पुष्पप्रकरसंकुलम् । उदुम्बरोत्तरङ्गाह्वयं जलकुम्भादिपूजनम् ॥ गृह्णाति हुताशनं? स्वस्तिकैश्च महोत्सवैः । एवं वास्तावायाद्यं च श्रियं चिन्तति नित्यशः ॥ शिवस्य पुष्पैश्चरणौ सुपूजितौ वराङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति ॥