Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.134
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65.134
- Language
- English
v1.c65.134
वेधः प्रवासो भृत्यजो द्वेषो विद्धे चत्वररथ्यया ।
नाशं द्रव्यं ध्वजाविद्धं वृक्षेण शिशुदूषकम् ॥
पङ्कविद्धं भवेच्छोकः सलिलस्राविणि व्यशः ।
कूपेन विद्धेऽपस्मारो विनाशो दैवतेन च ॥
स्तम्भेन दूषणं स्त्रीणां ब्रह्मणा तु कुलक्षयः ।
मानादभ्यधिके द्वारे राजतो जायते भयम् ॥
व्यसनं मानतो हीने चौरेभ्यश्च भयं भवेत् ।
व्याधयः श्वभ्रविद्धेन धनस्य च परिक्षयः ॥
देवध्वजेन वन्धः स्यात् सभयैश्वर्यसंचयः ।
सन्निपातभयं वाप्या तुल्या दृष्ट्वमाकृते? ॥
हृद्रुक् कुलालचक्रेण दारिद्रयं वारिणा भवेत् ।
व्याधिरुक् कचकूटेन आपाकेन सुतक्षयः ॥
नि (श्र?त्स्व) तोलूखलेन स्याच्छिल्यया चाश्मरी भवेत् ।
तोयभाण्डेन दुर्मन्त्री भस्मना चार्शसो गृही ॥
दारिद्रयं छायया विद्धे भवेद् द्वारे कुटुम्बिनः ।
स्थलस्यन्दनवल्मीकैर्विदेशगमनं भवेत् ॥