Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65: तृतीयः खण्डः

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c65

Language
English

तृतीयः खण्डः

v1.c65.1

( भवन-वास्तु )

v1.c65.2

टि०—भवनं द्विविधं मानववास्तु देववास्तु च । तत्र देववास्तु त्वग्रिमे प्रासाद-पटले वक्ष्य-माणमित्यत्र मानव-वास्तु-भवनलक्षणे प्रथमस्यैव नाना वर्गाः समापतन्ति । तेषां साधारण-भवनानि (समराङ्गणदिशा शात्त-भवनानीत्यर्थः ) राज-भवनानि च द्वौ वर्गौ सविशेषमुपश्लोकनीयौ । अन्य-वर्गेषु सभा-शाला-वाजिशाला-गजशाला-न्यायशालादीनां समावेशः । भवन-लक्षणे वापी-कूप-तट कादी-नामपिविशिष्ट-भवनेष्वन्तर्भावो भविष्यतीति तेषामपि लक्षणं दास्यते ।

v1.c65.3

प्राथमिकेषु भूखननं हलकर्षणं माङ्गलिकञ्च

v1.c65.4

परीक्षकैश्शास्त्रविद्भिर्नानोपायैः परीक्षिताम् ।
उत्तमां मध्यमां वापि भूमिं प्राप्य बुधोत्तमः ॥
श्वेतमाल्याम्बरधरैः श्वेतगन्धानुलेपनैः ।
भृत्यैराप्तेश्शुद्धवाग्भिस्सलक्षणसमन्वितैः ॥
शुभे मुहूर्ते सल्लग्ने खनित्रादीनथार्चयेत् ।
नवा भूरथवा पूर्वं प्रजाध्युषितभूर्यदि ॥
नरेन्द्रैर्ग्रामनिर्माणकार्यार्थं स्वीकृता भवेत् ।
वास्तुनाथार्चनं शस्तं श्रोत्रियैर्वेदपारगैः ॥
पुण्याहं वाचयेत्पूर्वं विप्रैरागमवेदिभिः ।
प्रोक्षयेत्तज्जतैर्दिव्यैश्शान्तिहोमं च कारयेत् ॥
वास्तुस्वरूपं विज्ञाय हेमगन्धाक्षतादिभिः ।
वास्तुनाथार्चनं कुर्यात्कारयेद्वा द्विजोत्तमैः ॥
भूदेवीमर्चयेत्पश्चाद्गन्धपुष्पाक्षतादिभिः ।
तदनुज्ञां समासाद्य शुभकाले प्रसन्नधीः ॥
भूसमीकरणं कार्यं महोक्षैश्श्वेतवर्णकैः ।
बलिकर्मविधानञ्च राष्ट्रक्षेमकरं भवेत् ॥
ब्राह्मणान्भोजयेत्पश्चात्तोषयेद्दक्षिणादिभिः ॥
समीकृते स्थले पूर्वमैशान्यां खननं शुभम् ।
वारुण्यामथवा कार्यं शुभकाले विशेषतः ॥
इष्टिकान्यसनात्पूर्वं पूरयेद्गर्भमादरात् ।
स च विप्रादिभेदेन चतुर्धा सन्निगद्यते ॥

v1.c65.5

ब्राह्मं गर्भं पूरयेत्तु पुस्तैर्यज्ञसूत्रकैः ।
क्षात्रं गर्भं पूरयेच्च खङ्गच्छत्रादिभिर्दृढम् ॥
वैश्यं गर्भं पूरयेच्च तुलाद्रव्यादिकैरपि ।
शूद्रं गर्भं पूरयेच्च सीरकैर्वस्त्रकैरपि ॥
देवालये दैवगर्भे रत्नन्यासो विशेषतः ।
दैववास्तुषु सर्वेषु सौवर्णं भाजनं शुभम् ॥
सौवर्णं राजतं वापि ब्रह्मक्षत्रियवास्तुषु ।
शूद्रजानां विशां शस्तं राजतं भाजनं मतम् ॥
अन्येषां वास्तुभूमौ तु ताम्रजे भाजनं शुभम् ।
भाजनं पट्टिका वापि पृथुपट्टमथापि वा ॥
स्त्रीगर्भेण यथा जीवो वर्धते भुवि नित्यशः ।
तथा भूगर्भमाहात्म्यात् जीवराशिस्तु वर्धते ॥
तत्रत्यानां सुखं दिव्यं यावद्गर्भो न नश्यति ।
तस्माद्गर्भं शिल्पिपुवरैश्शाश्वतं कारयेद्भुवि ॥
तच्च चिह्नं लिखेत्पट्टे गन्धपुष्पार्चनं ततो ।
तत्पट्टं भाजने न्यस्य तन्मञ्जूषागतं नयेत् ॥
वास्तुभूमध्यदेशे तां मञ्जूषां स्थापयेद्बुधः ।
गन्धमाल्यार्चनं शस्तं जयशब्दपुरस्सरम् ॥
आच्छाद्य तां मुदा शिल्पी वास्तुनाथं हृदि स्मरेत् ।
ब्राह्मणांस्तोषयेत्पश्चाद्भोजनैश्चविशेषतः ॥
सर्ववास्तुष्विदं शस्तमीरितं शास्त्रपारगैः ।
समीकृतस्थले पूर्वमैशान्यां खनने कृते ।
वारुण्यामथवा शस्ते लग्नकाले विशेषतः ॥
इष्टिकान्यासनं कार्यं स्वस्तिघोषपुरस्सरम् ।
पुरन्ध्रीभिश्च कन्याभिरवटे जलसेचनम् ॥
कारयेत्कार्यकालज्ञश्शिल्पी सर्वेषु वस्तुषु ।
दीपारोपं हेमवर्पं नानादानानि कारयेत् ॥
सर्वमङ्गलघोषैश्च स्वस्तिशब्दैश्च Shilpiraat ।
वास्तुं प्रदक्षिणीकृत्य वरवस्त्रोत्तरीयकः ॥
मङ्गलाचरणं कृत्वा प्राप्तस्वर्गादिदक्षिणः ।
कङ्कणं च करे धृत्वा ज्ञापयेत्काक्षकौ ॥
सम्यक्तप्तं वक्रहीनं ककशं कुङ्कुमान्वितम् ।
सूत्रप्रसारे कलिते वास्तुनिर्माणभूमिषु ॥
ऐशान्यां विन्यसेत्प्राज्ञः कक्रशं तं प्रसन्नधीः ।
स्मृत्वा मनसि कार्यज्ञो देवता मङ्गलप्रदाः ॥

v1.c65.6

अधोभित्त्यादिकं कृत्वा दृढीकुर्याच्च तद्बुधः ।
रक्षयेच्च यथा तत्र दूषणं न प्रसज्यते ॥
दृढकृतेऽथ भित्त्यादिकर्म कुर्याद्यथाविधि ।
इत्येवं तक्षकसुखैः कार्यंज्ञैर्ज्ञेयमीरितम् ॥

v1.c65.7

कामधेनुसमां क्षोणीं स्वीकुर्यात्तु विभूतये ।
कर्षणार्थं वलीवर्दलक्षणं वद्यतेऽधुना ॥
श्वेतकं कपिलं चैव रक्तपीतं तथैव च ।
बलीवर्दस्य चै(र्दानामे)तेषामेकैकं तु शुभावहम् ॥
एकस्य(कं च)वर्णसाम्कर्यं वर्जयेद्दण्डलाञ्छनम् ।
अधो (धः) श्रृङ्गमफारिश्रृङ्गं (ड्र्गं) विपरीतं (तु) विवर्जयेत् ॥
अतिबालं च वृद्धं तु वर्जयेद्योननं (द्योजने) मतम् ।
बलि(ली)वर्दं दष्टविन्दुं दुष्टदृष्टिं च वर्जयेत् ॥
ह्रस्वपुच्छं चक्रखुरं बलहीनं च वर्जयेत् ।
छिन्नश्रोत्रं भग्नदन्तं पङ्गुपादं च वर्जयेत् ॥
चतुष्पादाग्रयोः(ग्रे च)श्रृङ्गं मूल(श्रृङ्गमूले)मध्यललाटके ।
स्वभावेन श्वेतवर्णामाबद्धतिलकं तथा ॥
पुष्पनेत्रं च रक्तं च बन्ध्यं चायतेक्षणम् ।
अनस्पाज(नड्वाहं न)त्यजेद्विद्वान्सूत्रं कुर्याद्विलक्षणम् ॥
श्रृङ्गाग्रे खुराग्रै च कुर्यात्स्वर्णेन गोलकम् ।
फा(भा)लपट्टं तथ कर्णं कनकैश्र्चाप्यलङ्कृतम् ॥
कर्षणोत्पूर्वदिवसे अनस्वाश्र्चैव(नड्वाहं च)लाङ्गलम्।
कौतुकं बन्धनं चादौ कर्षणार्थम(शाया)धिवासितम् ॥
कुर्यात्तदुक्तवद्विद्वान्नद्ये लाङ्गललक्षणम् ।
बन्धुरं खादिरं वैव निम्बं च सरलं तथा ॥
सरक्तक्षीरिणी चैव लाङ्गलं(ल)वृक्षम(क्ष इ)ष्यते ।
एकहस्तं तु दीर्घं स्यात्सपादाद्यर्धमेव च ॥
त्रिचतुष्पञ्चमात्रं वा लाङ्गलं(ल)मूलविस्तृतम् ।
तस्यायामार्धं तन्मध्ये(र्धमध्ये च)किंचिद्वक्रं सकर्णकम् ॥
मूलमष्टाश्रकं चार्धंत्रिपट्टं वेणुपत्रवत् ।
तस्य मूले तदुपरि वेणुश्रृङ्गं प्रवेशयेत् ॥
वेणुदण्डं त्रिहस्तं स्याद्दीर्घतारां(रं)यथाबलम् ।
पुच्छायाम(म)द्यर्धकरं मूलतारं शराङ्गुलम् ॥
अथवा सपादहस्तं च हस्तं वा पुच्छदीर्घकम् ।
पुच्छाग्रं तु द्विमात्रं तु हलमूलाकसानकम् ॥
एकाद्यर्धाङ्गुलं वाऽपि युक्त्या पुच्छं धनं भवेत् ।

v1.c65.8

पुच्छमूल(लं)विशेषेण पद्मपत्रेण भूषितम् ॥
त्रिचतुष्पञ्चयवमात्रं पुच्छाग्रैः पट्टदीर्घकम् ।
उत्सेधं द्वित्रिमात्रं वा सर्वालङ्कारसंयुतम् ॥
अयस्कीलं तत्र कुक्षौ योजयेत्तक्षकेन तु ।
सार्धद्विहस्तमानेन युगायामं प्रकल्पयेत् ॥
त्रिचतुष्पञ्चमात्रं वा मध्यपट्टविशालकम् ।
तद्द्वयोरग्रविस्तारं द्वित्रिय(ब्य)ङ्गुल(क)मेव च ॥
एतद्यु(तद्धि यु)गमानं स्यान्मध्याग्रान्तक्षयं(च)क्रमात् ।
तस्यार्धं च द्वयोश्छिद्रैरनडुवन्(द्विच्छिद्रान्तेऽनडुद्)बन्धार्थकं भवेत्
युगमध्ये द्वयोर्वापि लाङ्गलं चापि बन्धयेत् ।
सुमुहूर्ते सुलग्ने च कर्षणं तु समारभेत् ॥
अनड्वाहौ स्थपतिश्चोभौ (तिश्च)गन्धपुष्पैः स्वलंकृतौ(ताः) ।
पञ्चाङ्गभूषण (णः) शिल्पी श्वेतवस्त्रोत्तरीयवान् ॥
आदित्यचन्द्रौ ध्यायेत्तद्बलीवर्दद्वयं बुधः ।
वाराहं लाङ्गलं ध्यायेच्छिल्पिनं तु पितामहम् ॥
ब्राह्मणैश्च यथाशक्ति वाचयेत्स्वस्तिवाचनम् ।
सर्वमङ्गलघोषैश्च स्थपतिः कर्षयेत्तदा ॥
शूद्रोऽपि कृषिकाले तु शुद्धो भूत्वा समाहितः ॥

v1.c65.9

(व) गृहारम्भ-काल-लक्षणम्

v1.c65.10

आदौ कालं परीक्षेत सर्वकार्यार्थसिद्धये ।
कालो हि सर्वजीवानां शुभाशुभफलप्रदः ॥
कालातिक्रमणे दोषो द्रव्यहानिश्च जायते ।
देवानार्माप देवीनां विप्रादीनां विशेषतः ॥
प्रासादभवनारम्भे स्तम्भस्थापनकर्मणि ।
द्वारस्थापनवेलायां भवनानां प्रवेशने ॥
वापीतटाकनिर्माण गोपुरारम्भकर्मणि ।
विमानमण्डपारामगर्भगेहोद्धृतौ तथा ॥
कालं शुभं परीक्षेत मङ्गलावाप्तिसाधकम् ।
देशभेदेन कालोऽपि भिन्नतां प्रतिपद्यते ।
दृष्टिकान्यसनं शस्तं शुभकाले विशेषतः ।
तस्मात्सर्वप्रयत्नेन शुभं कालं न लङ्घयेत् ॥

v1.c65.11

इदानीमभिधास्यामः सूत्रपातविधेः क्रमम् ।
शस्ते मासि सिते पक्षे विदध्यात् तं शुभेऽहनि ॥
चैत्रे शोकाकुलो भर्ता वैशाखे च धनान्वितः ।
ज्येष्ठे गृही विपद्येत नश्यन्ति पशवः शुचौ ॥

v1.c65.12

श्रावणे धनवृद्धिः स्यान्नभस्ये न वसेद्गृहे।
कलहश्चाश्विने मासि भृत्या नश्यन्ति कार्तिके॥
मार्गशीर्षे धनप्राप्तिः सहस्ये कामसम्पदः।
माघे वह्निभयं चैव फाल्गुने श्रीरनुत्तमा॥
द्वितीया पञ्चमी मुख्यसप्तमी नवमी तथा।
एकादशी त्रयोद(श्यस्ति?)श्यौ तिथयः स्युः शुभावहाः॥
चन्द्रताराबलं भर्तुरनुकूलं च शस्यते।
इयं हि सूत्रपाताख्या क्रिया प्रासादकर्मणि॥
कार्या पुरनिवेशे च प्रारम्भे भवनस्य च।
शिलानिवेशने द्वारस्तम्भोच्छ्रायादिकेषु च॥
आद्रियेत सिते पक्षे शोभने लग्न एव हि।
रवौ कन्यातुलालिस्ये गृहं वरुणदिङ्मुखम्॥
न कुर्यात् तद्धि शून्यं स्यान्न च वृद्धिर्भवेत् प्रभोः।
न दक्षिणमुखं कुम्भमृगधन्वि स्थिते रवौ॥
कुर्वीत निष्फलं तत् स्यान्नृपदण्डवधादिकृत्।
न मीनवृषमेषस्थे कुर्वीत प्राङ्मुखं रवौ॥
तद् धनघ्नं कलिक्षुद्रराजचौरार्तिकृत् यतः।
रवौ मिथुनसिंहस्थे न कर्कस्थेऽप्युदङ्मुखम्॥
कुर्यात् तद्धि दरिद्रत्वं दद्याच्च रणदासताम्।

v1.c65.13

इदानीमभिधास्यामः सूत्रपातविधिक्रमम्।
शस्ते मासे सिते पक्षे सुलग्ने च शुभे दिने॥
चैत्रे शोकाकुलो भर्त्ता वैशाखे च धनान्वितः।
ज्येष्ठे गृहा निपद्यन्ते आषाढ़े पशुनाशनम्॥
श्रावणे धनवृद्धिश्च भाद्रे तु न वसेद् गृहे।
कलहश्चाश्विने मासे भृत्यनाशश्च कार्तिके॥
मार्गशीर्षे धनप्राप्तिः पौषे वै कामसंपदा।
माघे चाग्निभयं कुर्यात् फाल्गुने श्रियमुत्तमाम्॥
तृतीया पञ्चमी चैव सप्तमी नवमी तथा।
एकादशीत्रयोदश्यौ तिथयश्च सुखावहाः॥
चन्द्रताराबलं भर्त्तू राजमानं हि शस्यते।
सूर्यपाततिथिं दध्याद् 'विष्टिएडान्तवर्जितम्॥
इह वै सूत्रपातैश्च क्रियाः प्रासादकर्मणि।
कार्याः पुरनिवेशे तु प्रारम्भे भवनस्य च॥
भूम्यारम्भे शिलान्यासे द्वारस्तम्भोच्छ्रयादिषु।
आदित्ये चोत्तरस्थे च शोभने लग्न एव च॥

v1.c65.14

सिद्धयै गृहारम्भमुशन्ति वृद्धा यथोदिते मासि वलक्षपक्षे ।
शशाङ्कवीर्य्य सुदिने निमित्ते शुभे रवौ सौम्यगते प्रवेशम् ॥
चैत्रे शोककरं गृहादिरचितं स्यान्माधवेऽर्थप्रदं ,
ज्येष्ठे मृत्युकरं शुचौ पशुहरं तद्वृद्धिदं श्रावणे ।
शून्यं भाद्रपदे त्विषे कलिकरं भृत्यक्षयं कार्तिके ,
धान्यं मार्गसहस्ययोर्द्दहनभीर्माघे श्रियं फाल्गुने ॥
आदित्ये हरिकर्कनक्रघटगे पूर्वापरास्यं गृहं ,
कर्त्तव्यं तुलमेषवृश्चिकवृषे याम्योत्तरास्यं तथा ।
द्वारं भिन्नतया करोति कुमतिर्द्रव्यप्रणाशस्तदा ,
कन्यामीनधनुर्गते मिथुनगे चास्मिन्न कार्य्यं गृहम् ॥
कन्यादित्रिषु पूर्वतो यमदिशि त्याज्यं च चापादितो
द्वारं पश्चिमतस्त्रिके जलचरात् सौम्ये रवौ युग्मतः ।
तस्माद् व्यस्तदिशामुखं तु भवनद्वारादिकं हानिकृत्
सिंहे चाथ वृषे च वृश्चिकघटं याते हितं सर्वतः ॥

v1.c65.15

(स) कीलक-सूत्रपात्रादि-लक्षणम्

v1.c65.16

वर्णानां यानि दारूणि कीलकार्थ नियोजयेत् ।
इदानीं तानि वक्ष्यामि श्रेयः कीर्त्तिहिताय च ॥
खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः ।
अञ्जनः कद्दराशोकतिनिशारुणचन्दनाः ॥
शिरीषसर्जन्न्यग्रोधवेणवः कीलककर्मणि ।
पुन्नामानो द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥
अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारको ।
रक्तचन्दनवेण्वत्थकीलौ क्षत्रस्य पूजितौ ॥
शाकरच खदिरश्चेति सामन्तानां हिताविमौ ।
कीलौ शालशिरीषोत्थौ वैश्यानां कीर्त्तितौ शुभौ ॥
शूद्रजातेस्तु तिनिशधवार्जुन्समुद्भवाः ।
वैश्यवेश्मसु सौभाग्यकार्य्ये च स्युरशोकजाः ॥
न्यग्रोधो वणिजां धाम्नि भूमिकर्म्मण्युदुम्बरः ।
महामा (त्र?त्रो) ष्ट्रवैद्यानां कीलाः सर्जार्जुना गृहे ॥
विप्राणां सर्व्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः ।
वर्णद्वयोक्ता वैश्यानां शूद्राणां स्वानुलोमतः ॥
प्रतिलोमा न कर्त्तव्याः कीलका भूतिमिच्छता ।
प्रमाणान्यथ कीलानां निगद्यन्ते पृथक् पृथक् ॥
द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः ।

v1.c65.17

क्षत्रियाणां पुनश्चाष्टाविंशत्यङ्गुलसम्मताः ॥
चतुर्विंशत्यङ्गुलाश्च वैश्यानां शुभदायिनः ।
विंशत्याद्यङ्गुलैः कीलाः शूद्रजातेस्तु ते हिताः ॥
षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः ।
ब्राह्मणक्षत्रियविशां वेदाष्टाश्रषडश्रयः ॥
षडश्रयस्तु शूद्रस्य प्रकृतेस्तु यदृच्छया ।
दार्भमौर्जाकार्पासं विप्रादीनां यथाक्रमम् ॥
अर्धपर्वपरीणाहं दृढं सूत्रं तु वर्तितम् ।
अलाभे स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥
गृह्णीयात् सूत्रमन्ये तु गृह्णीयुः स्वेच्छयैव ते ।
इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ॥
शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः ।
गृहस्थाननिमित्तात् तु देवस्थानानि लक्षयेत् ॥
कुसुमाक्षतमाल्यैश्च कर्तव्या गृहदेवताः ।
आदौ स्थानानि संकूनां परीक्षेत समन्ततः ॥
तेषु सर्वेषु कर्तव्यमर्चनं तु यथाविधि ।
गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः पदे ॥
गोमयेन समालिप्तां कुर्याद् वेदीं सुलक्षणाम् ।
चतुरश्रां चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥
तस्या मध्ये प्रतिष्ठाप्यः कुम्भो हैमोऽथ राजतः ।
ताम्रको मृन्मयो वापि पूर्वाभावे परः परः ॥
अकालमूलः सोऽव्यङ्गो जलपूर्णः स्वलंकृतः ।
मणिरत्नप्रवालैश्च स्वर्णरूप्येण गर्भितः ॥
प्रतिष्ठा (प्या?प्यो) क्षतैः पुष्पंफलबीजसमन्वितः ।
श्वेतेन चन्दनेनैनमर्चयित्वा समन्ततः ॥
तस्योपरिष्टाद् विन्यस्येत् क्षीरवृक्षस्य पल्लवम् ।
सुगन्धिनाथ धूपेन धूपयित्वा चतुर्दिशम् ॥
वेष्टयेदहतेनैनं शुक्लबस्त्रेण सर्वतः ।
वास्तुमध्ये यतो ब्रह्मा कुम्भरू (पं?पः) स तिष्ठति ॥
कुम्भस्योत्तरभागे तु कीलकान् स्थापयेद् बुधः ।
कीलानष्टौ परीक्षेत स्थापयेच्च यथाविधि ॥
श्वेतचन्द‌नलिप्तांस्तान् श्वेतपुष्पैर्विभूषयेत् ।
सालक्तकान् सुरभिणा धूपेन च सुधूपितान् ॥
ऊर्णामयेन सूत्रेण त्रिवर्णेनाभिवेष्टयेत् ।
मधुसर्पिर्दधिक्षीरैर्मूलभापुगे लेपयेत् ॥

v1.c65.18

अर्चयेत् परशुं सूत्रमशीलादीनि सर्वतः ।
अथोपकरणान्यत्र धूपपुष्पाक्षतादिभिः ॥
ततः पूर्वोत्तरे वास्तोर्भागे सप्ताचिरः पदे ।
गोमयेन समालिप्ते कुशास्तरणमास्थितः ॥
अग्निकार्यं प्रकुर्वीत पुरोधाः शान्तिमेव च ।
सांवत्सरः शुचिः स्नातः कृतस्नानः (?) समाहितः ॥
शङ्कुना साधयेल्लग्नं सम्यक् तद्धटिकाथवा (?) ।
रात्रिलग्नं तु नक्षत्रैर्मध्यात्वोदयसंश्रितैः ॥
एवं संसाधयेल्लग्नं यदीच्छेत् सिद्धिमात्मनः ।

v1.c65.19

पूजया तुष्टिकारिण्या पूजयेच्च पुरोहितम् ॥
अभ्यर्चिते यतस्तस्मिन् ब्रह्मा भवति पूजितः ।
सांवत्सरस्य कर्तव्या ततः पूजा यथाविधि ॥
सांवत्सरेऽर्चिते यस्मात् पूजितः स्याद् बृहस्पतिः ।
स्थपतिं पूजयेत् पश्चात् स्वष्टुस्तुष्टिकरीर्षया ॥
तदधीनं यतः कर्म शुभं वा यदि वाशुभम् ।
श्वेतचन्दनदिग्धांग्स्तान् श्वेतपुष्पैश्च पूजितान् ॥
सदशैैरहतैर्वस्त्रैरंगुलीयेः प्रपूजयेत् ।
परिकर्मकरा ये च तान् यथाशक्ति पूजयेत् ॥
हेम्ना वस्त्रादिदानैश्च वाग्भिर्वा परितोषयेत् ।
यथा सुमनसस्ते स्युस्तथा कर्तव्यमादरात् ॥

v1.c65.20

ततः स्थपतिराचम्य बलिकर्म समाचरेत् ।
सूत्रपाते बलिं धीमान् सार्वभौतिकमाचरेत् ॥
तस्यालाभे बलिः कार्यो यो भवेत् सोऽभिधीयते ।
विदधीत च श्वेतारक्तपीतासितान् पृथक् ॥
पायसं कृसरं क्षीरं निष्पावान् श्वेतमोदनम् ।
पाविकादाद्रिपांश्च पल्लवोत्लापिकाघृतम् ॥
दध्योदनं च संमिश्रं देवताभ्यो निवेदयेत् ।
तिलैर्धृतेन सद्वैर्देवमग्निं च पूजयेत् ॥
ततश्च पायसं दध्ना ब्रह्मस्थाने निवेदयेत् ।
ततस्त्वनुक्रमेणैव देवताभ्यो बलिं हरेत् ॥
बलिकर्म यथान्यायं कृत्वा च द्विजवाचनम् ।
स्वशाखीयान् शुचीन् प्राज्ञान् पूजयेद् दक्षिणाफलैः ॥
ओंकारस्वानपुण्याहैर्गीतवादित्रनिस्वनैः ।
ततो विप्रैः सह स्वामी कुर्यात् तस्य प्रदक्षिणम् ॥
अक्षतान् प्रथमं कुम्भे दापयित्वा द्विजोत्तमैः ।

v1.c65.21

ततो दक्षिणपूर्वेण गत्वा पुण्याहवाचकैः ॥
अहताम्बरसंवीतः शुचिः स्थपतिशासने ।

v1.c65.22

निषद्य प्राङ्मुखः शङ्कुं धृत्वा दक्षिणपाणिना ॥
पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले ।
मन्त्रानमून जपन धीरो हन्यात् परशुना ततः ॥
विशन्तु ते तलं नागा लोकपालास्तथैव च ।
प्रतिष्ठन्तु गृहं चास्मिन्नायुर्बलकरं भवेत् ॥
प्रहारान् सुस्थिरानष्टौ दद्यात् कीलस्य मूर्धनि ।
हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ॥
गोविप्ररथनागाश्वाः कन्या नृपवरस्त्रियः ।
शङ्खदुन्दुभिवंशानां तथा गीतस्य च ध्वनिः ॥
आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा ।
सततं सुखमाप्नोति शान्त्यैश्वर्यैश्च वर्धते ॥
हतं क्षतं विपन्नं वा निषेधः सूत्रकील्योः ।
पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥
दृष्ट्वा शुभनिमित्तानि ततः शङ्कुं निवेशयेत् ।
हन्यमानो यदा कीलो विशेद् भूमौ शनैः शनैः ॥
कर्मसिद्धिर्भवेत् तत्र गृहं रत्नपरिच्छदम् ।
हन्यमानोऽपि न विशेद् धरित्रीं कीलको यदा ॥
न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत् ।
एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥
न सिद्धिं याति तन्नौकः कृतं वा नोपभुज्यते ।
आयस्याष्ठीलया हन्यान्न काष्ठेन कथञ्चन ॥
काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत् ।
अश्मना यदि ताड्येत तदा व्याधिं प्रयच्छति ॥
ऐन्द्रीं प्रतिनतः कीलो धनसम्मानकारकः ।
आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥
याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् ।
धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥
सौम्यं सौम्यानते राजप्रसादाद्येशतो गतः ।
कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे ॥
परमाम्ऋद्धिमाप्नोति धनधान्यैश्च वर्धते ।
हन्यमानो यदा यत्नात् कीलः कश्चिदपि स्फुटेत् ॥
नाशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वा ।
यदि भज्येत कीलः स्यात् स्वामिनो जायते वधः ॥

v1.c65.23

यदा कीलः पतेद्धस्ताद् अंशः स्यात् स्थपतेस्तदा ।
हस्तभ्रष्टश्च (?) स भवेच्छीले हस्तविच्युते ॥
सुखेन हन्यमानश्चेत् कीलः स्वस्थो न जायते ।
अष्टौ प्रहारानपरांस्तस्य दद्यात् तदा पुनः ॥
स्रग्गन्धधूपोपहारैः कुर्याच्च परिषेचनम् ।
इदं साम महापुण्यं परिचिन्त्य समासतः ॥
त्रैशोकं तु जपेद् विद्वान् यावच्छङ्कभिषेचनम् ।
गत्वाथ नैर्ऋतीमाशां ततः शङ्कं निवेशयेत् ॥
ऊर्णायवेन साम्नास्य सम्यक् स्नपनमाचरेत् ।
वायोर्दिशं ततो गत्वा तत्र शङ्कुं निवेशयेत् ॥
अभिषेकं महारत्नसाम्ना तस्य समाचरेत् ।
अथेशानीं दिशं गत्वा शङ्कं तस्यां निवेशयेत् ।
भौरुण्डसाम्ना कुर्वीत प्राग्वत् तस्याभिषेचनम् ।
ततोऽनुसूत्रं बध्नीयात् सव्यं द्विगुणवेष्टितम् ।
प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कक्रमो यथा ।
(म?ब) ध्यमानं यदा सूत्रं शङ्कुः किमपि मुञ्चते ॥
तदा पुत्रवधं विद्याच्छिद्रं स्वस्वामिमृत्यवे ।
तस्माद् यत्नः प्रकर्तव्यो यावत् सूत्रं प्रसार्यते ॥
चतुर्णामपि बाहूनां पोषं (?) छिद्रं न दुष्यति ।
सूत्रं प्रसार्य वितरेच्चरून पूर्व प्रकल्पितान् ॥
स्वेषु स्वेषु ततःस्थानेष्वनेन विधिना बुधः ।
शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥
प्राग्दक्षिणस्य विदिशो मन्त्रं चेमं हृदा जपेत् ।
मारुतानां च सर्वेषां मानवानां तथैव च ॥
बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् ।
रक्तं बलिमुपादाय नैर्ऋत्यभिमुखस्तथा ॥
नैर्ऋत्यधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः ।
बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥
कृष्णं बलिमुपादाय गत्वा च दिशमानिलीम् ।
नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥
बलिं तेषु प्रयच्छामि कृष्णामोदनमुत्तमम् ।
बलिमुद्धृत्य हारिद्रमैशानीमाश्रयन् दिशम् ॥
यमो रुद्रेषु सर्वेषु ये चान्ये तान् समाश्रिताः ।
प्रयच्छामि बलिं तेषां हारिद्रौदनमुत्तमम् ॥
एवमेतान् बलीन् सर्वान् यथावत् प्रतिपादयेत् ।

v1.c65.24

ततः कुम्भोदकं पुण्यं सास्ना दिव्येन मन्त्रयेत् ॥
वामदेव्येन कुर्वीत प्रोक्षणं तेन वास्तुतः ।
द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने ,
फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः ।
तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं
बलिः कीलेपूक्तस्त्रिदशपरितोषाय विधिवत् ॥

v1.c65.25

( द ) बलिदानविधिलक्षणम्

v1.c65.26

इदानीमभिधास्यामो बलिरूपविधेः क्रमम् ।
येन येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥
मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत् ।
कलशं तत्र विन्यस्येत् सप्रसूनं सकाञ्चनम् ॥

v1.c65.27

वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः ।
सधूपैर्विविधैर्माल्यैरर्घ्यं पश्चाच्चिनिवेदयेत् ॥

v1.c65.28

अर्चयेद् विश्वकर्माणं माल्यैर्धूपैर्विलेपनैः ।
भक्ष्यैः फलैर्बहुविधैः पूजयेत् सुसमाहितः ॥
आज्येन पयसा दध्ना पूजयेच्छिखिनं पुनः ।
शालिगोधूममुद्गाद्यैर्धान्यैः पर्जन्यमर्चयेत् ॥
जयन्तं पूजयेदाम्रद्राक्षाखर्जूरिकादिभिः ।
मालतीमल्लिकाभिश्च पूजयेत् त्रिदशाधिपम् ॥
पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः ।
ततः सूर्यं जगन्नाथं पूजयेल्लोकचक्षुषम् ॥
जम्बीरैर्बीजपूरैश्च नारङ्गैः पीतकैः फलैः ।
पूजयेत् सत्यनामानं देवं तेन स तुष्यति ॥
मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः ।
सितैः फलैर्नारिकेलैर्भृशश्च परितुष्यति ॥
गन्धैर्धूपप्रयोगैश्च नभोनामानमर्चयेत् ।
पुष्पैः सुगन्धिभिः शुक्लैर्मारुतः परितुष्यति ॥
क्रसरं मधुसंयुक्तं पूष्णे भक्त्या निवेदयेत् ।
वितथं तु शुभैरन्त्यैर्मद्यमांसविवर्जितैः ॥
पूजितस्तुष्टिमायाति विवस्वांश्च महामुनिः ।
पुष्पैः सपुष्पकैस्तुष्टिमाप्नोति गृहक्षतः ॥
मत्स्यमांसयुतैर्भक्ष्यैर्यमदृष्टिः सदा भवेत् ।
पुन्नागागुरुधूपेन गन्धर्वानार्चयेद् बुधः ॥
मृगमांसयुतैर्भक्ष्यैर्भृङ्गराजं च तर्पयेत् ।

v1.c65.29

राजजम्बूफलैर्बिल्वैर्देवमभ्यर्चयेन्मृगम् ॥
पायसैर्मधुसंयुक्तैर्मांसैर्भक्तैश्च शोभनैः ।
कर्पूरसुरभिद्रव्यगर्भैः संपूजयेत् पितॄन् ॥
सपुष्पैर्मोदकैर्लाजैः पललैश्च विमिश्रितैः ।
दौवारिकं प्रयत्नेन पूजयेद् विघ्नकारकम् ॥
अपूपैः शोभनैर्गन्धैर्धूपैर्माल्यैरनुत्तमैः ।
पुष्पैः कण्टकजातीनां सुग्रीवं पुजयेत् सदा ॥
सपुष्पैर्ला(प?ज)कैर्भक्ष्यैर्दधियुक्तान्नपायसैः ।
अर्चयेत् पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ॥
मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् ।
वरुणं च महासत्त्वं पूजयेद् धूपचन्दनैः ॥
राहुं च मांससंयुक्तैस्तर्पयेद् भक्ष्यभोजनैः ।
रुधिरेण प्रवृत्तेन तुष्टिमेति शनैश्चरः ॥
मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् ।
मेदसा पूजयेद् रोगं सर्वलोकभयङ्करम् ॥
वासुकिं क्षीरदानेन पूजयेत् सततं नरः ।
पूर्ववत् पूजयेद् देवं विश्वकर्माणमीश्वरम् ॥
सितप्रसूनविन्यासैर्भल्लाटं पूजयेद् बुधः ।
दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥
कुबेरं धूपदानेन पूजयेत् सततं नरः ।
अदितिं च सुवर्णेन पुनरपि च पूजयेत् ॥
अर्कमन्दारमालाभिर्वृषभं च समर्च्चयेत् ।
अन्येषामपि देवानामर्र्चनं धूपसाम्प्रतैः (?) ॥
सर्वपुष्पफलैश्चैषां कार्यं बुद्धिमता सदा ।
इत्येते बलयः सर्व शान्त्यर्थं परिकल्पिताः ॥
शोधने कर्षरो भूमेः साधने रूपकल्पने ।
गृहे प्रवेशने रम्ये तिथिभ्यभ्युदयेषु च (?) ॥
स्कन्धावारनिवेशेषु पुरग्रामनिवेशने ।
देवालयक्षितिपवेश्मनिवेशनेषु प्रोक्तान् बलीन् प्रवितरेत् प्रयत्नः सुरेभ्यः ।
प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः कुर्वन्निमं विधिमभीप्सितभाजनं स्यात्

v1.c65.30

(य) शिलान्यास-लक्षणम्

v1.c65.31

अथ ब्रूमः शिलान्यासविधिमत्र यथागमम् ।
तथोदगयने पुण्ये शुक्लपक्षे शुभेऽहनि ॥
स्थिरग्रहस्य दिवसे करणे च गुणान्विते ।
तिष्येऽश्विनीषु रोहिण्यामुत्तरेष्वपि च त्रिषु ॥

v1.c65.32

रेवत्यां श्रवणे हस्ते शिलाविन्यासमाचरेत् ।
स्थिरस्य राशेरुदये सौम्यमित्रावलोकिते ॥
सम्यङ्निमित्तशकुनस्वस्तिपुण्याहवाचिते ।
हर्षोदये च मनसः कुर्याद् वास्तोर्निवेशनम् ॥
भद्रः प्रकृत्या शास्त्रज्ञः शुभः स्नातः समाहितः ।
कर्मारभेत स्थपतिः कृतदेवार्चनक्रियः ॥
पूर्णां समामविकलां चतुरश्रामनिन्दिताम् ।
शिलामाद्यां चये साध्वीं परीक्षेत विचक्षणः ॥
कुम्भाङ्कुशध्वजच्छत्रमत्स्यचामरतोरणैः ।
दूर्वानागफलोष्णीषपुष्पस्वस्तिकवेदिभिः ॥
नन्द्यावर्तैः सचमरैः कूर्मपङ्कनिशाकरैः ।
वज्रैः प्रशस्तैः प्राकारैर्भूषिताः कर्मणो हिताः ॥
दीर्घा ह्रस्वाल्पविषमाच्छाभध्मातापरीक्षिता ।
दिङ्‌मूढा चाङ्गहीना च सास्थ्यङ्गारा सशर्करा ।
खण्डा दुःपक्वनिर्भिन्ना कृष्णा दोषभयावहा ।
नृणां पशुतुरङ्गाणां पदाङ्काः स्वस्तिवृद्धये ॥
क्रव्यान्मृगविहङ्गानां पादैः स्पृष्टास्तु वर्जयेत् ।
नन्दाभद्राजयापूर्णाश्चतस्रः स्युरिमाः शिलाः ॥
वाशिष्ठी काश्यपी तद्वद् भार्गव्याङ्गिरसीति ताः ।
तत्र प्रागुत्तरे देशे संनिवेशस्य वास्तुनः ॥
नैर्ऋत्यां वा सकुसुमां समां गोचर्मसम्मितम् ।
वेदीं सगन्धकलशां चतुरश्रां प्रकल्पयेत् ।
आग्नेय्यामादितो नन्दां स्थापयेत् क्रमशः शिलाम् ।
अकालमूलैरख्यङ्गैः सपद्मोत्पलपल्लवैः ॥
सर्वौषधिहिरण्याद्यैर्हेमराजतमृन्मयैः ।
कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥
तीर्थप्रस्रवणाम्भोभिः सरक्षोत्ततपङ्कजैः ।
सुगन्धिभिः सपुण्याहमभिषेकं प्रयोजयेत् ॥
जाह्नवीयमुनारेवास सरस्वतीदिसम्भवैः?वम्) ।
महानदीजलं शस्तं शुभतीर्थभवं तथा ॥
तथाद्रिवनदेशान्तदेवायतनानि च ।
अभिषेकार्थमम्भांसि यथालाभमुपाहरेत् ॥
मन्त्रेणानेन चैतासामभिषेकं समाचरेत् ।
हिरण्यवर्णाः पावन्यः शुभयो दुरितच्छिदः ॥
पुनन्तु शान्ताः श्रीमन्त्य आपो युष्मान्मुञ्चन्तुतः ।

v1.c65.33

मन्त्रपूतेन पयसा स्नापयित्वा ततः शिलाम् ॥
स्थपतिर्गन्धकल्केन सङ्घयेनानुलेपयेत् ।
हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥
तरसा छादयेदेनां सलाजैः पुष्पदामभिः ।
धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥
पूजयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः ।
निवेशनान्ते नैर्ऋत्यां तदा विप्रानवस्थितान् ॥
समस ङ्ख्यान् शुचीन् प्राज्ञानर्चयेद्दक्षिणाफलैः ।
ओङ्कारस्वस्तिपुण्याहगीतवादित्रनिस्वनैः ॥
कर्ता जनितरोमाञ्चस्तेभ्यः कुर्यान्नमस्क्रियाम् ।
निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो बलिम् ॥

v1.c65.34

तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् ।
प्राकारस्वस्तिकाङ्के द्वे तथा श्रीवत्सलक्षणा ॥

v1.c65.35

नन्द्यावर्तस्तु पूर्णायां भवे (देको?दद्धो) यथाक्रमम् ।
कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेद्बुधः ॥
अन्याः क्रमेण भद्राद्याः कोणेष्वन्येषु च त्रिषु ।
प्रतिष्ठापनमन्त्राश्च तासां चतसृणामपि ॥
चत्वार ऋषिभिर्गीताः शाश्वतारम्भदर्शनाः ।
वीर्येणादिवराहस्य वेदार्थैस्त्वभिमन्त्र (ताः?ताम्) ॥
वसिष्ठनन्दिनीं नन्दां प्राक् प्रतिष्ठापयाम्यहम् ।
सुमुहूर्ते सुदिवसे सा त्वं नन्दे ! निवेशिता ॥
आयुः कारयितुर्दीर्घं श्रियं चात्रामिहावह ।
भद्रासि सर्वतोभद्रा भद्रे ! भद्रं विधीयताम् ॥
कश्यपस्य प्रियस्रुते ! श्रीरस्तु गृहमेधिनः ।
जये ! विजयतां स्वामी गृहस्यास्य महात्मनः ॥
आचन्द्रार्कं यशश्चास्य भूम्यामिह विरोहतु ।
त्वयि सम्पूर्णचन्द्राभे ! न्यस्तायां वास्तुनस्तले ॥
भवत्येष गृहस्वामी पूर्णो । पूर्णमनोरथः ।
इति मूलच (यो?यं) मन्त्रैः कुर्यात् स्वस्तिकवाचनैः ॥
ताभिर्हिरण्यवर्णाभिः शिलाभिः सममद्भुतम्।
प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणाप्लवा ॥
इष्टकाश्चैत्यभवनप्राकारपरकर्मसु ।
विताने चितिविन्यासे चतुर्मुखनिकेतने ॥
पुरोधाः शान्तिवेदीषु प्रतिमास्थापनेषु च ।
याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ॥

v1.c65.36

त्रैशोकेौर्णिसभा (सै?ख्यै) स्ताः सामभिः स महाद्युतिः।
गायत्र्युष्णिगनुष्टुब्बृहत्या च यथाक्रमम् ॥
चयान् समस्तांश्चिनुयाच्चतुरो विरमेत् ततः।
ज्ञात्वा भित्तिप्रमाणं च चितेश्चयचतुष्टयम् ॥
समाप्यमादिकमैवं कनिष्ठं च यथोत्तरम्।
प्रतिष्ठितास्ताः प्रथमं भूतले सुस्थिताः समाः ॥
न चालयेच्चालने स्याद् गृहभर्तुर्महद् भयम्।
कम्पने च भयं विद्यादेतासां स्थिरतां पुनः॥
स्थपतेर्गृहभर्तुश्च मङ्गलं परमं विदुः।
प्राग्दक्षिणायां चलने गृहभर्तुर्महद् भयम् ॥
भार्याविनाशो नैर्ऋत्यां शून्यं (?) भीतिर्मरुद्दिशि ।
गुरोश्च भयमैशान्यामपचारेऽपि तद् भवेत् ॥
प्रथमं स्थापि (तेनै?ताने) वं स्तम्भानपि न चालयेत्।
नोद्धरेत प्रणुद्याथ विधिस्तुल्यो यतोऽनयोः ॥
विन्यासं प्रथमं तस्मात् कुर्यात् सम्यक् समाहितः।
शिलानां स्थपतिस्तद्वत् स्तम्भानामपि सर्वथा ॥
द्वारप्राकारशालानां नगराणां च वेश्मनाम्।
तत्प्रमाणो विधिर्यस्मात् तस्मात् तत्रादृतो भवेत् ॥

v1.c65.37

(२) द्रव्यसंग्रहलक्षणम्

v1.c65.38

**निर्माणद्रव्योपोद्घातः** सर्वंनिर्माणकार्याणां द्रव्यमाद्यस्सखा मंतः।
**वि० ब० ४. १** तस्मात्संपादयेद्विद्वान्सद्द्रव्यं शुभवर्धनम् ॥
**द्रव्यं द्विविधम्** धनवस्तुप्रभेदेन तद्द्रव्यं द्विविधं स्मृतम्।
**४. २-३** धनेन मानयेद्भृत्यान् शुभवाक्यैश्च नित्यशः ॥
इष्टिका च सुधा श्लक्ष्णा पारिभद्रादिदारवः।
अयःकीलादयश्चान्ये वस्तुसंज्ञा उदीरिताः ॥
**द्रव्यसंग्रहकालः** दारुसङ्ग्रहणं शस्तं शुभकाले विशेषतः।
**वनप्रवेशमांगलिकञ्च** स्वगुरुं स्थपतिं धेनुं श्रोत्रियान्वेदपारगान् ॥
**४. ४-७** पूजयित्वा विशेषेण दारुसङ्ग्रहणे रतः।
दिक्पालानायुधाधीशामर्चयेद्गन्धपुष्पकैः ॥
सह मङ्गलघोषेण काननं प्रविशेद्वुधः
शुद्धरशान्तमना भूत्वा नववस्त्रोत्तरीयकः ॥
देवानासपि देवींनां ध्वजस्तम्भाय दारुकान्।
आहरेन्मन्त्रघोषेण सर्वलोकहितप्रदान् ॥
**प्रशस्ताः देववृक्षाः** बकुलस्तिनिशस्साजः कोविदारश्च केसरः।
**४. ८-१४** श्रीपर्णस्सप्तपर्णश्च कुद्दालः पिण्डकस्तथो ॥

v1.c65.39

देवालयेष्विमे शस्ताश्शुभदाः संप्रकीर्तिताः ।
भल्लाटस्य मृगस्यापि मित्रस्य वरुणस्य च ॥
जयन्तस्य च पूष्णश्च गन्धर्वस्य च शूलिनः ।
वास्तुनाथस्य देवस्य देवीनां च विशेषतः ।
अंशभूता इमे वृक्षाः शास्त्रविद्भिरुदीरिताः ॥

v1.c65.40

आम्रातको मधूकश्च नागरङ्गश्च तिन्दुकः ।
खदिरः पूतिको वेणुः पाटलश्च विभीतकः ॥
कर्णिकारश्च सरलः कर्कन्धूस्तिनिशस्तथा ।
काश्मरी च रसालश्च पारिभद्रश्च केसरः ॥
श्रीपर्णस्तिलकश्चापि नक्तमालश्च भद्रकः ।
अन्ये च क्षीरवृक्षा ये निम्बाद्याश्च सुगन्धिनः ॥
नृणामालययोग्यास्स्युश्शुभदाः संप्रकीर्तिताः ।
मनुष्यवास्तुभूमीश ! धनपालादयश्शुभाः ॥

v1.c65.41

गवाक्षस्थूलडोलानां तिर्यग्दारुकलापिनाम् ।
सोपानानाञ्च खट्वानां प्रतिमानां निवेशिनाम् ॥
पीठानां फलकानां च स्तम्भानां च शिखण्डिनाम् ।
वर्तुलानां पूतिकानां तन्तुवायिककुम्भििनाम् ॥
उपपीठादिनां सिह्मवक्त्रादीनां च मेशिनाम् ।
अन्येषां शिल्पकार्याणाममी शस्ताः प्रकीर्तिताः ॥

v1.c65.42

मधूकं तिनिशं पूतिमन्थं क्षीरतरुं तथा ।
तिर्यग्द्वारौ चित्रकार्ये योजयेन्न कदाचन ।
नाडीवृक्षाः पिन्नवृक्षाः गुलिकाभिन्नदारवः ।
गजदन्तप्रभिन्नाश्च वक्रा भिन्नास्तथा वने ॥
पक्षिहीना दिवाभीतैरुषिताश्च (द्विजाधमैः) ।
विद्युता भिन्नवृक्षाश्च योधानामिषुभिर्हताः ॥
कण्टकावृतदेहाश्च न प्रशस्ताः प्रकीर्तिताः ।
उदीच्यां शयिता वृक्षाः देवालयशुभप्रदाः ॥
ऐन्द्रयां दिश्यथ वारुण्यामुदीच्यां वा विशेषतः ।
शयिताः पातिता वृक्षाः प्रशस्ता मानुषालये ॥
पतिता दक्षिणाशायां तथा प्रेतवनं गताः ।
दुष्टभूमिस्थिता वृक्षा वर्ज्या निन्द्याश्शुभेप्सुभिः ॥

v1.c65.43

नागाधिपं वृक्षपतिं पयसा पायसेन च ।
तर्पयित्वा विशेषेण वने छिन्द्याद्वृक्षोत्तमः ॥
काले शुभे स्वस्तिघोषैः खण्डितांस्तानवनान्तरात् ।
शुभ्रवस्त्रैर्हेमश्रृङ्गैर्वृषभैर्वाहयेद् बुधः ॥

v1.c65.44

स्थापयेच्छुद्धदेशे तानधिवासाय निश्चितः ।
संवत्सरो-(रं) वा षण्मासान् मासत्रयमथापि वा ॥
अधिवासार्थ तान्यस्य माल्यगन्धार्चनादिभिः ॥
रक्षणं कारयेद्धीमान्वास्तुशास्त्रविशारदः ।
प्राग्वोद्ग्वापि गेहार्थे द्रून्वं विधिवदानयेत् ।

v1.c65.45

गन्तव्यमेव धिष्ण्येषु मृदुक्षिप्रचरेषु च ॥
उपवास्यं च तेष्वेवच्छेदं भेद्यं च दारुणैः ।
प्रवेशर्न स्थिरैः कार्यमारम्भः शस्यते चरैः ॥
गत्वा शुभे शुचौ देशे निदेशं कारयेत् ततः ।
तस्मिन्निवेश्य कर्मान्तमन्नपानेन तर्पयेत् ॥
पुष्टतुष्टपरीवारः क्षपायां समुषोषितः ।

v1.c65.46

गृहयोग्यं परीक्षेत न्यस्तशस्त्रस्ततोऽङ्घ्रिपम् ॥
पुरश्मशानग्रा माध्वहृदचैत्याश्रमोद्भवान् ।
क्षेत्रोपवनसीमन्तविषमस्थलनिम्नजान् ॥
कट्वम्लतिक्तलवणस्रववनीषु तथोद्गतान् ।
श्वभ्रावृतान् स्थिरोर्वीषु सम्भूतांश्च त्यजेद् द्रुमान् ॥

v1.c65.47

सम्यक् संलक्ष्य वृक्षाणां वर्णस्नेहत्वगादिकम् ।
विजानीयाद् वयस्तेषां बालान् वृद्धांश्च सन्त्यजेत् ॥
शतानि त्रीणि वर्षाणां सारद्रुमचयः स्मृतम् ।
गृह्णीयात् षोडशादूर्ध्वं सार्धवर्षशतावधेः ॥
वयसः परिणामेन निर्वीर्यत्वं यथा नृणाम् ।
प्रोक्तं तद्वद् द्रुमाणां च स्यात् तथा छिद्रपत्रता ॥

v1.c65.48

भङ्गुराः सुषिरास्ते स्युः सकोलाक्षाः खरत्वचः ।
तस्मादिमांस्त्यजेद् वृक्षांस्तथा चैवोर्ध्वशोषिणः ॥
वक्रान् रुक्षानवप्लुष्टान् दुःस्थितानपि च द्रुमान् ।
वर्जयेद् भग्नशाखांश्च ह्येकशाखान्वितांस्तथा ॥
अन्यैरधिष्ठितान् विद्युत्पातवातसरित्क्षतान् ।
ग्रन्थिनिर्युक्तदानांश्च अमरा हिकृताश्रयान् ॥
संसृष्टानेकतो ऽश्टान् मघुभिर्बलिभिर्वृ तान् ।
मांसानेध्याशनैस्तद्वद् दूषितानपि पक्षिभिः ॥
लूतातन्त्वावृतान् वन्यसत्वोद्दृष्टान् गजक्षतान् ।
वुध्नतोऽतिबृहत्स्कन्धांश्छिद्रभूतांस्तथाध्वनः ॥
अकाले पुष्पफलिनो रोगैरपि च पीडितान् ।
वासभूतानुलूकानां त्यजेदन्यानपीदृशान् ॥

v1.c65.49

खदिरो बीजकः सालो मधूकः शाकशिश (पौ?पे) ।
सर्जार्जुनाञ्जनाशोकाः कदरो रोहिणीतरुः ॥
विकङ्कतो देवदारुः श्रीपर्णीपादपस्तथा ।
कुटुम्बिनाममी प्रोक्ताः पुष्टिदा जीवदास्तथा ।
वृक्षाणां लक्ष्यते येषां भारवारिसहिष्णुता ।
ते यथायोग्यमन्येऽपि शस्यन्ते गृहकर्मणि ॥

v1.c65.50

कर्णिकारधवप्लक्ष कपित्थविषमच्छदाः ।
शिरीषोदुम्बराश्वत्थशे लुन्न्यग्रोधचम्पकाः ।
निम्बाङ्कोकोविदारा ऽन्याधिघाताश्च गर्हिताः ।
गृहकर्मणि नेष्टास्ते यतस्तेऽनिष्टदायिनः ॥
नेष्टाः कण्टकिनः स्वादुफलाः क्षीरद्रुमाश्च ये ।
सुगन्धयश्च ये तद्वद् ध्रुवं तेषु पशुक्षयः ॥

v1.c65.51

सत्वप्रमाणच्छाया तु नियतं दृश्यते यदा ।
द्रुमच्छाया तदा ग्राह्या तत्प्रमाणस्तु स द्रुमः ॥
नक्षत्रं लक्षयेद् वृक्षे पूर्वस्यां दिशि तच्चितेः ।
स्याद् भस्याद्यक्षरं यस्य तत्र जातं तमादिशेत् ॥
हेम्यं तं स्वामिनो वृक्षं ज्ञात्वा साधकमेव च ।

v1.c65.52

अग्रन्थिकोटरं स्निग्धमृजुं सारसमन्वितम् ॥
पीनस्कन्धं हरित्पत्रं वृत्तं चाभ्यर्च्य पादपम् ।
द्विजान् सन्तर्प्य च स्वस्ति वाच्यं च स्थपतिस्ततः ॥
पक्वापक्वामिषैस्तद्वद् भूतभक्तैः सुरासवैः ।
गन्धैश्च धूपमाल्यैश्च वलिं दद्यान्निशागमे ॥
अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि ।
कल्पनं वर्त्तयिष्यामि क्रियतां वासपर्ययः ॥
धन्यः शिवः पुष्टिकिरः प्रजावृद्धिकरो भव ।
स्वस्ति (ते?च) न्द्रानिलयमाः सूर्यरुद्रानलास्तथा ॥
दिशो नद्यस्तथा शैलाः पान्तु त्वामृषिभिः सह ।
जल्पेद् यो मानुषगिरा कम्पते वाभिमन्त्रितः ॥
स त्याज्यः स्यात् तथा म्लानप्रवालकुसुमंरच यः ।
ततो भास्करमालोक्य वृक्षं कृत्वा प्रदक्षिणम् ॥
स्वस्तिवाद्येन विप्राणां छेत्ता स्थित्वोदगाननः ।
प्राङ्मुखो वा तरुं छिन्द्याच्छुस्त्रैः क्षौद्रान्विताननैः ॥
शाखिनश्छिद्यमानस्य जायते यद्यस्रक्स्रुतिः ।
कम्पनं वा ध्वनिर्वादपि मृत्युः स्याद् गृहिणस्तदा ॥
यद्वा दधिमधुक्षीरघृतानि स्रवति द्रुमः ।

v1.c65.53

छिद्यमानस्तदा विद्याद् बन्धुव्याधीन् कुटुम्बिनः ॥
अतीव यस्य स्रवति श्यामः स्नेहान्वितो रसः ।
सुगन्धिः स्वल्पमधुरः कषायः स प्रशस्यते ॥
प्राच्यां शुभतरोः पात उदीच्यां कर्मसाधकः ।
याम्यप्रत्यङ्निपाते तु शान्तिं कृत्वा द्रुमं त्यजेत् ॥
ज्ञातितः स्यात् तदा भीतिर्यदान्यं मर्दयेत् पतन् ।
दूरं दलति यो मू (लं?ले) च्छिन्नो वा धरणीरुहः ॥
कूजत्यतीव वायुरच स्मृतः सोऽथ शुभप्रदः ।
खरोष्ट्रयोः शृगालानां दर्शनं भुजगस्य वा ॥
छेदे स्यात् कर्मविघ्नाय निगडैर्बन्धनाय वा ।
हलचक्रपताकाब्जध्वजच्छत्रादिदर्शनम् ॥
श्रीवृक्षवर्धमानादिदर्शनं वा शुभप्रदम् ।
उत्क्षिप्यते यदिच्छेदात् तदद्धिः स्यात् कुटुम्बिनः ॥
सर्वतः परिहानिः स्याच्छिन्नश्चाक्षिप्यते यदि ।
एकवृक्षे यथोद्दिष्टलक्षणोत्क्षेपदर्शने ॥
शेषान् दोषविनिर्मुक्तान् पादपामुपलक्षयेत् ।
धीरस्तं कल्पयेत् सम्यगनुलोमार्जवं तरुम् ॥
छिन्द्याच्च शुभभागार्धदशभागाधिकं कृतम् ।
तुङ्गीसाद्यवमध्यश्च (?) सगर्भो धरणीरुहः ॥

v1.c65.54

ज्ञेयानि मण्डलान्यस्य त (क्षणोच्छे?क्षणे छे) दनेऽपि च।
मञ्जिष्ठाभे विदुर्भेकं कपिलाभे च मूषकम् ॥
पीतभासि तथा गोधां सर्प दीर्घक्षितायते ।
शुद्धच्छा॑ये मधु भवेत् कृकलासस्तथारुणे ॥
गृहगोधा कपोताभे गौधेरो घृतमण्डभे ।
रसाञ्जनाभे शङ्खाभे कमलोत्पलभासि च ॥
धौतासियष्टिवर्णे च मण्डले जलमादिशेत् ।
आकारो यस्य सर्पस्य वर्णो वा संप्रदृश्यते ॥
तं सर्पगर्भितं वृक्षमादिशेदविचारयन् ।
तस्करेभ्यो भयं क्षौद्रे सलिले सलिलाद् भयम् ॥
विद्यात् सर्पे विषाद् भीतिं पाषाणे भयमग्नितः ।
अजाविगोमहिष्युष्ट्रास भादिनिपीडितम् -।
गोधागौधेरमण्डूककृकलासैश्च गर्भिते ।
मूषके पुनरिच्छन्ति मरणं वास्तुवेदिनः ॥
अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः ।
क्षेमेण यद्यविघ्नः स्यादसङ्कश्चागमो यदि ॥

v1.c65.55

वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत् ॥
अर्धदानविधिना विधानविद् द्रव्यमागतमिहार्चयेद् गृही।
प्रत्युपेतकुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥

v1.c65.56

निर्माणोप्येषु—

v1.c65.57

टि०—नैकविधानि भवनानि । आवासगृहेष्वेव साधारणजनोचितनिवासभवनानि, राजोचितभवनानीति द्वौ वगौ प्रमुखौ परं सन्त्यनेके नाना भवन-निवेशा अपरेऽपि येषां सर्वेषां लक्षणं दातव्यमस्ति । अन्योऽपि विशेषः । प्रायेण विश्वकर्मप्रभृतिशिल्पशास्त्रेषु भवनलक्षणप्रस्तावनायां प्रथमं राजभवनमुपस्थाप्यते महताभिनिवेशेनोपवर्ण्यते च । नैतद् समीचीनम् । राजभवनन्तु उत्तरो विलासः प्रथमो विलासः जन-भवनं (शाल-भवनमित्यर्थः) । समराङ्गणकर्तुर्महतीयं मनीषा । अनया दिशा प्रथमं शाल-भवनं प्रस्तूयते, पुना राज-भवनं, ततः परं तत्रैव अन्यानि विशिष्टानि भवनानि ।

v1.c65.58

जननिवेशे –

v1.c65.59

भवनोत्पत्तिं तद्विकासं च प्रतिपादयतां भवनपर्यायाणां सूची यथा–

v1.c65.60

समराङ्गणे १८. ८-६

v1.c65.61

आवासः सदनं सद्म निकेतो मन्दिरं मतम् ।
संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥
अगारं संश्रयो नीडं गेहं शरणमालयः ।
निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥

v1.c65.62

भवन-जन्मनि (शालभवनोत्पत्तौ वा) आख्यानम्—

v1.c65.63

स० सू० ६. १-३८

v1.c65.64

अथ प्राक्कथितादस्माद् भूतसर्गादनन्तरम् ।
प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥
शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव ।
पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥
ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च ।
वनेषु च विचित्रेषु चिक्रीडुर्देवैः सह ॥
हेलया ते समुत्पत्य कदाचिदमरैः सह ।
निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥
चित्राम्बरावृताः सर्वे नानाभरणशालिनः ।
विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥
मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर (णास्त्रि?णश्रि) यः।
कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥
क्षुत्तृड्दुःखोज्झिता सर्वे बभूवुर्युतायुषः।
रत्नावदातदेहास्ते कदाचिद् भूरसाशिनः ॥

v1.c65.65

शतिप्रावास्तदासंस्ते स्वेच्छाहारविहारिणः ।
स्वीकारविग्रहच्छेदैर्विशदीकृतचेतसः ॥
नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः ।
नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥
भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः ।
अचण्डाशनयश्चासन् - कवरीकान्तयो घनाः ॥
मायस्पिकंवधूदृष्टमाकन्दसुकुराङ्कुराः ।
आसन् सदापुष्पफलाभोगा येषां बनालयाः ॥
एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च ।
ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥
रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि ।
समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥
न खेटनगरग्रामपुरखेटखलादिकम् ।
न दंशमशकव्याल्यं वा न ग्रहादि च ॥
कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् ।
पुरास्मिन् भारते वर्षे तेषां निवसतार्मिति ॥
जगाम सुबहुः कालः सुरै सार्धं सुर (स्त्रि? श्त्रि) याम् ।
अज्ञाततत्वभावानां सहसंवाससंभवा ॥
अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति ।
अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥
आदाय तत्कल्पतरुं निपेतुर्व्यां दिवौकसः ।
दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥
सरसः परमो भूमौ भूरसश्च न्यवर्तत ।
स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥
व्यलपन् बहुधात्यर्थमनर्थकृतचेतसः ।
ततो विलपतां भूरि स्वैरमाहारहेतवे ॥
प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि ।
भूरसेनाैव तेनैते कुर्वाणाः प्राणरक्षणम् ॥
विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे ।
अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ॥
विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् ।
ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥
अकृष्टपच्या मेदिन्यासम्भवञ् शालितण्डुलाः ।
शाल्योदनेन तेनाथ सुस्वादुव्यञ्जनेन ते ॥
परमां तृप्तिमासेदुः परितोषात्तचेतसः

v1.c65.66

तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वथ ॥
ते व्यधुर्महतो राशींस्तत्तत्क्षेत्राणि च चक्रिरे।
अजायत ततो लोभो मात्सर्यैर्यापुरस्सरः ॥
तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः।
द्वन्द्वप्राप्त्या ततस्तेषां विभ्रतामुत्तमां गतिम् ॥
धैर्यध्वंसादभूत् स्त्रीपु भृशं रागतुरङ्गमः।
दारक्षेत्रनिमित्तानि भूयांस्तेषामनन्तरम् ॥
परिक्लेशैकमूलानि द्वन्द्वान्यासन् पृथक्पृथक्।
ततः स्वक्लृप्तमर्यादोच्छेदिष्वेवजितात्मसु ॥
अविनीतेष्वभाग्येषु स शालिस्तुषतामगात्।
प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥
मलमप्रवृत्तिरभवत् तुषधान्योपसेवया।
तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥
चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम्।
ऋतवः कालपर्यायात् षट् वसन्तादयोऽभवन् ॥
ततस्तेषामभूद् दोषरोगशोकाकुलं वपुः।
मनश्च कामक्रोधेष्र्यादैन्यास्रयादिदूषितम् ॥
.आधिदैवकमुष्णाम्बुशीतादिजनितं महत्।
आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिजम् ॥
इत्थं दुःखत्रयार्त्तास्ते व्यवायाद्यभिगुप्तये।
हिमनीहारशीताम्बुवातातपाच्छिदेऽपिच ॥
अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (ते?च)।
व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यानू दुःखार्त्तचेतसः ॥
स्मृत्वा कल्पद्रुमाकारास्तद्रूपाणि गृहाणि ते।
एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥
श(ब्दा?प्प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः।
हृष्टास्तेष्वनयन् कालमासेषु गृहमेधिनः ॥
इत्थमीषु गृहिणो गृहेषु ते शीतवातजलतापराशिषु।
हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥

v1.c65.67

तद्विकासे विविधशालभवनानामुपन्यासः—दशवर्गाश्च

v1.c65.68

वेश्मनामेकश्रालानां शतमष्टाधिकं स्मृतम्।
द्वापञ्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥
चतुःशालानि वेश्मानि यानि तेषां शतद्वयम्।
पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥

v1.c65.69

सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः।
षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥
अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः।
द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥
शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम्।
द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥
द्विनवत्युत्तराण्येकं शतानि दश च सप्त च।
षोडशैव सहस्राणि षोडशोना चतुःशती ॥
वेश्मनि सप्तशालानि भवन्ति परिसङ्ख्यया।
पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥
गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत्।
लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥
गृहाणां नवशालानां चत्वारिंशच्चतुर्युता।
दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ॥
शतानि दशशालानां पञ्च षट्सप्ततिस्तथा।

v1.c65.70

शालगृह-संयोजनम्

v1.c65.71

एकद्वित्रिचतुःशालं गृहं प्रस्तारतो भवेत्।
पञ्चादिदशशालान्तं तेषां संयोगतो मिथः॥
गृहाणां पञ्चशालानां षड्विधा योजना मता॥
नवधा रसशालानां सप्तशाले शिवोन्मिता॥
अष्टशाले तिथिमता नवशालेऽष्टभूमिका।
याजना दशशालायां त्रयोविंशतिधा मता ॥

v1.c65.72

भवनाङ्गानां निघण्टुः—स० सू० १८. १०-५८

v1.c65.73

१. हर्म्यम् गृहस्योपरिभूमिया हर्म्यं तत् परिकीर्तितम्।
२. सोपानम् तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥
३. अधिरोहणम् काष्ठकर्मत्र रचितं स्थूणयोरधिरोहणम्।
४. निःश्रेणिः सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः॥
५. काष्ठविटङ्कः स्मृतः काष्ठविटङ्कोऽसौ यत्काष्ठैः संवृतं गृहम्।
६. सौधम् सुधालिप्ततलं हर्म्यं सौधं स्यात् कुट्टिमं च तत् ॥
७. अभिगुप्तिः वर्षाभयेन या छन्ना तालशाकदलादिभिः।
स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥
८, अवलोकनम् वातायनं तु भित्तीनामवलोकनमुच्यते।
६. अवलोकनकम् लघुर्वातायनो यः स्याद्वलोकनकं हि तत् ॥

v1.c65.74

१०. उलोकः हर्म्यस्य मध्ये यच्छिद्रं स उलोक इति स्मृतः।
११. हर्म्यप्राकारकः हर्म्यप्राकारकः स स्यात् कण्ठा हर्म्यतलस्य या ॥
१२. वितर्दिका वितर्दिकाष्टमाला स्यात् सर्वतश्छेदमूलगा ।
१३. ईहामृगाः तत्स्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥
१४. निर्यूहः निर्यूहो हर्म्यदेशाद् यः काष्ठानामुपनिर्गमः ।
१५. वलीकम् वलीकमिति विज्ञेयं काष्ठं छेदाद् विनिर्गतम् ॥
१६. चतुश्शालम् छन्नैश्चतुर्भिः पार्श्वैर्यत् तच्चतुश्शालमुच्यते ।
१७,१८.त्रिशालद्विशाले त्रिभिस्त्रिशालं तत् प्राहुर्द्वाभ्यां तत् स्याद् द्विशालकम् ॥
१६. एकशालम् एकशालकमेकेनच्छन्नेन गृहमुच्यते ।
२०. शाला गृहमेकं तु यच्छन्नं सर्वं शालेति सा स्मृता ॥
२१. वापी, २२. पुष्क० शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा ।
२३. गर्भगृहम् संछन्ना (चा?सा) पि यस्य स्यात् तद् गर्भगृहमुच्यते ।
२४. महाजनस्थानम् गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् ।
२५. उपस्थानम् उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥
२६. प्रासादः प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता ।
२७. वलभी दीर्घप्रासादिका यासौ वलभीत्यभिधीयते ॥
२८. अलिन्दः शालाग्रे वलभी या स्याद्गलिन्देति वदन्ति ताम् ।
२८. वलभा शालां विना तु वलभी वलभेति निगद्यते ॥
२६. अपवरकः अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः ।
३०. शुद्धान्तः गृहे चाभ्यन्तरस्थानं शुद्धान्तमिति कीर्त्यते ॥
३१. प्रतोली प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् ।
३२. कक्षा सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥
३३. कोष्ठका यदुपस्थानकं नाम ये चापवरकास्तथा ।
३४. भित्तिः ते कोष्ठका या तु कण्ठा कुड्यं भित्तिश्चयश्च सा ॥
३५. महानसम् भक्तशाला भवेद् या तु तन्महानसमुच्यते ।
३६. द्वारकोष्ठकम् यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥
३७. प्रवेशनम् प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा ।
३८. उदकभ्रमः जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥
३६. भवनाजिरादि भवनस्याङ्गणं यत्तु तदाहुर्भवना जिरम् ।
४०. वनाजिरम् वनाजिरं वनमही स्वाश्रमाजिरमाश्रमे ॥
४१. देहली उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कुड्ययोः ।
तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥
४२. कपाटम् कपाटं द्वारपक्षः स्यात् कपाटपुटमेव च ।
पक्षः पिधानो वरणो द्वारसंवरणं तथा ॥
कपाटं संपुटस्ते द्वे(?)कपाटयुगलं च तत् ।

v1.c65.75

४३. अर्गला कलिका द्वारबन्धाथौ या स्यात् तामर्गलां विदुः ॥
४४. अर्गलसूची सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः ।
४५,४६. परिघः, फलिहः पुराणां सा तु परिघः फलिहो गजवारणम् ॥
४७,४८. फलकम् गवाक्षः छिद्रैर्गवाक्षप्रतिमश्छिद्रितं सर्वतस्तु यत् । फलकं तद् गवाक्षः स्याज्जालमित्यपि कथ्यते ॥ हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने ।
४६. प्रासादिका प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥
५०. तोरणम् पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् । उपर्युपरि संक्षिप्तमर्धचन्द्रद्वयाकृति ॥ आनने द्वे यथा चास्मिन् शिलष्टैरन्यैर्महाधरैः । तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥ तत्तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् ।
५१,५२,५३. सुवर्ण-मणि-पुष्पतोरणानि सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥ पुष्पतोरणमप्येतत् क्रियते पुष्पकादिभिः
५४. सिंहकर्णः तोरणाग्रे ठकारो यः सिंहकर्णः स उच्यते ॥
५५. संयमनम् नाम्ना संयमनानीति गृहसञ्चरभूमयः । गृहस्य पार्श्वे यच्चांस्तत्तत् सत्संयमनं विदुः ॥
५६. मरालपाली भित्तेर्यद्वाथ दारूणां तरङ्गाग्रवदानतम् ।
५७. प्रणाली मरालपाली सा हर्म्या (व्) प्रणाली निर्गमोऽम्भसः ॥
५८. प्राकारः स च प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः ।
प्रद्वारम् द्वारस्य तु समीपे यत् प्रद्वारं तदिहोच्यते ।
५६. आस्थाल्कम् यदिष्टकचितं मूले द्वारस्य भवति स्थलम् । दीर्घं वा ह्रस्वमथवा तदास्थालकमिष्यते ॥
६०. अमेध्या अवस्करः मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा ।
६१. परिसरः गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥
६२. अट्टः विस्तीर्णमुच्छ्रितं यत् स्याद् वेश्म सोऽट्ट उदाहृतः ।
६३. अट्टालकः संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥
६४. अट्टाली तदेवात्यन्तसंक्षिप्तमट्टालीति निगद्यते ।
६२. अट्टालिका अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥
६६, धारागृहम् एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् । यत्र काष्ठप्रणालीति छदपृष्ठेऽम्बु धावति ॥ स्तम्भशीर्षकरूपाणि काष्ठमूलाश्चितानि च । सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः (?) ॥ रूपाणामथ तेषां तु स्तननासामुखाद्धिभिः । नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥

v1.c65.76

कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।
तद्धारागृहमित्युक्तं धारागारादिनामभृत् ॥
कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।
निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं विदुः ॥
पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् ।
तत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥
निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।
उपका (र्या ? र्या) इति प्रोक्ताः भौमाश्चाट्टालका मताः ॥
चयप्राकारशालाः स्युः पुरीसंवरणाभिधाः ।
प्राकारादनुपालास्तु प्राकार उपनिष्कला (?) ॥
क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।
तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥
क्रीडागृहं यद्यन्त्रोक्तं क्रीडागारं तदुच्यते ।
विहारभूमिश्रीक्रीडाभूमिरित्यभिधीयते ॥
देवधिष्ण्यं सुरस्थानं चैत्यमर्चागृहं च तत् ।
देवतायतनम् प्राहुर्विबुधागारमित्यपि ॥
छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।
गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥

v1.c65.77

टि०—आवासभवनेष्वविदेवभवनेष्विव--उपपीठ-विधानम्, अधिष्ठानविधानम्, प्रस्तर-विधानम्, सन्धिकर्म इत्यादीनां प्रसङ्गः । तत्त्वान्नान्यत्र न दीयन्ते । प्रासाद-वास्तु-खण्डे तु वक्ष्यन्त एव ।

v1.c65.78

अथेदानीं प्रवक्ष्यामि गृहस्योत्पत्तिलक्षणम् ।
उत्पद्यते यथात्वाद्यं गृहादीनां तु सम्भवम् ॥
आचार्यैर्दिव्यज्ञानैश्च पूर्वांनतपद्मासनैः ।
पट्टिका (वटिका?) याम्यहस्तेषु त्रिपातहस्तोद्गता? ॥
पट्टिका संस्थिता पृथ्वी तत्र नाद्यविन्दूद्भवः ? ।
विन्दुलग्ना शिवा ज्ञेया सा सृष्टिश्चैवमुद्भवः ? ॥
विन्दु वामा कृता रेखा वामावर्ते पूर्वोदिताः ।
पूर्वापरगतास्त्वेवं सृष्टिसंज्ञाविधानकम् ? ॥
ऐशान्या अग्निपर्यन्तमाश्रमं वस्तुसम्भवम् ।
आश्रयन्ति समस्ताश्च जीवा महितचेतसः ॥
आग्नेयां निर्ऋतिर्यावत् सदा सृष्टिविनश्यति ।
इत्यमालयसंज्ञा स्याद् सृष्टितोऽयं समुद्भवः ॥
आञ्जयः सर्वसत्वानां सर्वभूतात्मनां हितः ।

v1.c65.79

तदैवं लीयते सर्वमालयादिसमुद्भवम् ॥
नैर्ऋत्यनिलसंभूता सृष्टिस्त्वेवं समुद्गता ।
कोष्ठकाभिधानमेतत् चतुरश्रीकृतं शुभम् ॥
आच्छादितं तथा चोर्ध्वं तच्च कोष्ठाभिधानकम् ।
कोष्ठकं चतुर्हस्तान्तमाच्छाद्यं छाद्यकं विदुः ॥
आच्छाद्यं तु यदा क्षेत्रमेकहस्ताच्छुत्तार्धतः ।
आवेष्टितं खलीपाटं फलकं स्याद् गृहाङ्गणम् ॥
एकद्वित्रिसहस्रैश्च हस्तैर्मानसमन्वितम् ।
नगरेषु तथाचेष्टकूटप्राकारसंज्ञितम् ॥
चतुर्हस्तादितः क्षेत्रं शिरश्छाद्यं समोदये ।
पूर्वे चैकद्वारयुतं गृहसंज्ञं तदुच्यते ॥
एकद्वारं भवेद्वेश्म पूर्व्वा पश्चाद्दिशानिलयः ।
त्रिद्वारं करणं प्रोक्तं चतुर्भिश्चातुरं भवेत् ॥
षड्जात्युत्पन्नच्छन्दा भद्रैर्भित्त्वा द्विरष्टभिः ।
इत्युक्तक्रमरूपाढ्या गृहसङ्ख्या त्वनेकधा ॥
तृणपट्टौ छादने स्तः वाजिच्छन्दः शिलामयः ।
खण्डच्छन्दो गृहमध्यं पूर्णच्छन्दो ह्यवोगृहम् ॥
पाण्डुच्छन्दस्तथाचैव भूम्यूर्ध्वं शैलजाश्रितः ।
षण्णां तु छन्दसां प्रोक्तः सृष्टिकाले समुद्भवः ॥
एकभौमं द्विभौमं वा हर्म्यं स्याद्वा त्रिभौमकम् ।
षट्च्छन्दादिका भेदा हर्म्यादिवेश्मसंज्ञकाः ॥

v1.c65.80

शाल-भवन-प्रभेदाः

v1.c65.81

(एकशालादिदशशालान्तशालभवनानां लक्षणम् )

v1.c65.82

गृहाणामेकशालानां वक्ष्यामो लक्षणान्यथ ।
शस्तानां निन्दितानां च यथावदनुपूर्वशः ॥
विन्यसेच्चतुरः पूर्वं गुरून् वर्णान् यथाविधि ।
एभ्य एव प्रसूयन्ते भेदाः षोडश वेश्मनाम् ॥
गुरोरधो लघुं न्यस्येत् पूर्वं शेषं यथोपरि ।
गुरुभिः पूरयेत् पश्चाद् यावत् स्युर्लघवोडखिलाः ॥
विद्यादलिन्दान् सर्वेषु लघुस्थानेषु पण्डितः ।
सव्यावर्तं गृहमुखादेतांश्च विनियोजयेत् ॥
एषामलिन्दसंयोगाद् भवनानां पृथक् पृथक् ।
नामानि गुणदोषाश्च वक्ष्यन्तेऽनुक्रमादतः ॥
ध्रुवं धन्यं जयं नन्दं खरं कान्तं मनोरमम् ।

v1.c65.83

सुमुखं दुर्मुखं क्रूरं सुपक्षं धनदं क्षयम् ॥
आक्रन्दं विपुलं चैव विजयं गृहमुत्तमम् ।
ध्रुवे जयमवाप्नोति धन्ये धान्यागमो भवेत् ॥
जये सपत्नाञ्जयति नन्दे सर्वाः समृद्धयः।
खरमायासदं वेश्म कान्ते च लभते श्रियम् ॥
आयुरारोग्यमैश्वर्यं तथा वित्तस्य सम्पदः।
मनोरमे सन्तुष्टिर्गृहभर्तुः प्रकीर्त्तिता ॥
सुमुखे राज्यसन्मानं दुर्मुखे कलहः सदा ।
क्रूरव्याधिभयं क्रूरे सुपक्षं गोत्रवृद्धिकृत् ॥
धनदे हेमरत्नादि गाश्चैव लभते पुमान् ।
क्षयं सर्वक्षयं गेहमाक्रन्दं ज्ञातिमृत्युदम् ॥
आरोग्यं विपुले ख्यातिर्विजये सर्वसम्पदः ।

v1.c65.84

यदि धन्ये द्वितीयोऽपि मुखालिन्दः प्रयुज्यते ॥
तद् गृहं रम्यनामेह भर्तुः सौभाग्यकारकम् ।
मुखालिन्देन नन्दाख्यं द्वितीयेन सुयोजितम् ॥
तच्छ्रीधरमिति ख्यातं तस्मिन् श्रीर्नित्यमाविशेत् ।
अलिन्दश्चेद् द्वितीयोऽपि कान्तस्यास्ये निवेश्यते ॥
मुदितं तद् भवेद् भर्तुर्भूतिकृद् भवनोत्तमम् ।
सुमुखस्य यदालिन्दो वक्त्रेऽन्यो विनिवेश्यते ॥
वर्धमानं तदा तत् स्यात् स्वामिलक्ष्मीविवर्धनम् ।
क्रूरं युक्तं द्वितीयेन मुखालिन्देन मन्दिरम् ॥
करालं तद् विजानीयाद् भर्त्ता तस्य विनश्यति ।
अलिन्देन द्वितीयेन धनदं योजितं पुनः ॥
सुनाभं तद् भवेत् तस्मिन् पशून् पुत्रानवाप्नुयात् ।
आक्रन्दस्य पुरोभागे यद्यलिन्दः कृतोऽपरः ॥
ध्वाङ्क्षसंज्ञं गृहं तज्ज्ञा निन्दितं प्रवदन्ति तत् ।
द्वितीयालिन्दघटना विजयस्य मुखे यदि ॥
तत् समृद्धमिति ख्यातं गृहं स्यात् पुण्यकर्मणाम् ।

v1.c65.85

यान्युक्तानि ध्रुवादीनि पूर्ववेश्मानि षोडश ॥
शालाविभागं ज्ञात्वैषां तिर्यक् षड् दारु विन्यसेत् ।
षोडशान्ये च भेदाः स्युः संज्ञाश्चैषामनुक्रमात् ॥
सुन्दरं वरदं भद्रं प्रमोदं विमुखं शिवम् ।
सर्वलाभं विशालं च विलक्षमशुभं ध्वजम् ॥
उद्योतं भीषणं शून्यमजितं कुलन्दनम् ।
नामभिर्वेश्मनामेषां गुणदोपान् प्रकल्पयेत् ॥

v1.c65.86

यथार्थनामान्येतानि चरमात् प्रोक्तान्यविस्तरात्।
हंसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम्॥
रुचिरं सम्भृतं क्षेममार्चनं सुकृतं नृपम्।
उच्छ्रन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम्॥
एषामपि यथार्वत्वाद् गुणदोषान् निरूपयेत्।
षोडशैव परेऽपि स्युर्भैदास्तांश्च यथाक्रमम्॥
कथयामः समासेन यथार्थैरेव नामभिः।
अलङ्कृतमलङ्कारं रमणं पूर्णमम्बरम्॥
पुण्यं सुगर्भं कलशं दुर्गतं रिक्तमिप्सितम्।
सुभद्रं वन्दितं दीनं विभवं सर्वकामदम्॥
प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम्।
यशोदं कुसुदं कान्तं भासुरं सर्वभूषणम्॥
वसुधारं धनहरं कुपितं वित्तवृद्धिदम्।
कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत्॥
तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः।
चूडामणि प्रभद्रं च क्षेमं शेखरमद्भुतम्॥
विकाशं भूतिदं हृष्टं विरोधं कालपाशकम्।
निरामयं सुशालं च रौद्रं मोघं मनोरथम्॥
सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत्।
वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम्॥
कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम्।
द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम्।
त्रीण्यायुः पशूधान्यानां क्रमादाद्यानि वृद्धये॥
एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम्।

v1.c65.87

इत्येकशालभवनान्युदितान्यलिन्द- , ,
षड्दारुकापवरकावरणादिभेदैः ।
संज्ञा च लक्षणफलैः करिणीमुखाभिः ,
शालाभिरेवमपराणि च युग्मजानि ॥

v1.c65.88

सिद्धार्थं यमसूर्यं च दण्डाख्यं वातसंज्ञितम् ।
चुल्ली काचं च मुख्यानि द्विशालानि षडेव हि ॥
हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि ।
तत् सिद्धार्थमिति ज्ञेयं वित्तसम्पत्तिकारकम् ॥
मृत्युदं महिषीगावीभ्यां भवेद् यमसूर्यकम् ।
दण्डं स्याच्छलगलीगावीशालाभ्यां दण्डभीतिदम् ॥
वातं करेणुच्छालीयुक्तमुद्वेगकारकम् ।
महिष्यजाभ्यामुद्वेगकरी चुल्ली धनापहा ॥
काचं करेणुगावीभ्यां सुहृत्प्रीतिविनाशनम् ।

v1.c65.89

एकमूपममूर्षं च न द्विशालेषु कारयेत् ॥
व्यत्यासात् काचचुल्ल्योश्च सर्वाभिस्तिसृभिस्तथा ।
चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥
प्रत्येकमेकादशधा मन्दिराण्यभिधानतः ।
अन्ये चतुर्धा भिद्यन्ते प्रत्येकं द्वे निवेशने ॥
एषां मूषा भिदाभेदात् तद्वाह्यावाहहेतुकाः ।
वसुधारं भवेत् तेषामाद्यं सिद्धार्थकं ततः ॥
कल्याणकं शाश्वतं च शिवं कामप्रदं तथा ।
स्त्रीदं शान्तं निष्कलङ्कं धनाधीशं कुबेरकम् ॥
सिद्धार्थमनुजान्येवमेतान्येकादश क्रमात् ।
संहारं यमसूर्यं च कालं वैवस्वतं यमम् ॥
करालं विकरालं च कबन्धं मृतकं शवम् ।
यमसूर्यस्य भेदाः स्युः स नो महिषं तथा ॥
प्रचण्डचण्डे दण्डाख्यमुद्दण्डं काण्डकोटरे ।
विग्रहं निग्रहं धूम्रं निर्धूमं दन्तिदारुणम् ॥
एकादशामी दण्डस्य भेदा दण्डभयप्रदाः ।
मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥
धनार्यम्बुदध्वंसि प्रलयं कलहं कलिः ।
कलिचुल्ली च वातस्य भेदा उद्वेगदायकाः ॥
रोगं चुल्ल्यनलं भस्म चुल्ल्या भेदचतुष्टयम् ।
काचस्य तुच्छलं काचं कुलघ्नं च विरोधि च ॥
द्वापञ्चाशद् द्विशालानाममी भेदाः प्रकीर्तिताः ।

v1.c65.90

अथ द्वासप्ततेर्भूम्नस्त्रिशालानां यथाक्रमम् ।
अभिधानानि कार्त्स्न्येन लक्षणानि पृथक्पृथक् ॥
मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः ।
हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥

v1.c65.91

हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया ।
तत् स्याद् धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥
सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः ।
चुल्ली दक्षिण्या हीना शालया वित्तनाशिनी ॥
पक्षघ्नं पश्चिमाहीनं वैरकृत् कुलनाशनम् ।
अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥
मूषायोगाच्च भेदाः स्युरष्टादश पृथक्पृथक् ।
जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥
कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम् ।
सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥
तपनं तापनीयं च शातकुम्भमथापि च ।
हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥
भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी ।
नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥
चतुर्थं केसरीत्युक्तं वासवं चेन्द्रमेव च ।
हरिहंसं सारसा (ण्डं?ख्यं) कुञ्जरं तोयदं तथा ॥
मेघमालाभिधानं च धारासारं महोदरम् ।
कर्दमं नामतश्चान्यत् सुक्षेत्रं प्रकरं तथा ॥
सुक्षेत्रानुगतान्याहुस्तथान्यद् धान्यपूरकम् ।
चुल्लीभेदानथ ब्रूमस्तेषामाद्यं भुजङ्गमम् ॥
निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम् ।
शतच्छिद्रं च सर्पं च कोपसंज्ञं भगन्दरम् ॥
उद्वेजनाख्यं सन्यास निःतोषं करुणाननम् ।
वारणं दारुणं चुल्ली ककुदं कन्दरं तथा ॥
इति चुल्लीप्रभेदेषु मन्दिराणि दशाष्ट च ।
ब्रूमः पक्षघ्नसंबद्धगृहनामानि संप्रति ॥
राक्षसं ध्वान्तसंहारं देवारि सुरदारुणम् ।
घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ॥
मृत्युदं च निशनन्दं शाकुनं विघ्ननिघ्नंणे ।
रिपुसंहृदपव्तघ्ने सुतघ्नं वैरिपूरणम् ॥
इत्यष्टादश पक्षघ्नभेदाः प्रोक्ता यथाक्रमम् ।

v1.c65.92

वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः ।
सेनापतेश्चतुःषष्टिरस्तद्वद्देव पुरोधसः ॥
श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् ।
चतुः षड्ग्रहान्या स्युः पञ्चमं च पृथक् पृथक् ॥
विशोधयेत् कनीयोभिर्मध्यमानि यथाक्रमम् ।
नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥
गृहाणि शोधयेत् प्राग्वज्जायायांस्यपि च मध्यम्रैः ।
भवन्त्येवा भूपानां रतिकोशप्रतिश्रयाः ॥
दशांशयुक्तो विस्तारादायामो विप्रवेश्मनाम् ।
अष्टषट्‌चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥
यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् ।
विट्शूद्रयोः स्यादाधिक्यं मध्ये ज्येष्ठे च सद्मनि ॥
कर्णसूत्राद् बहिः स्तम्भान् न्यसेत् सर्वान् प्रयत्नतः ।
धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥

v1.c65.93

वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृता ।
शालाच्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥
तस्याः षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा ।
सप्तमांशत्रयेण स्याद् द्वयोरपरवेश्मनोः ॥
अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः ।
पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनवैः करैः ।
दैर्घ्यं स्याद् दशभिः सार्धैः शालायाः षोडशादिषु ।
निवेशदशमांशो यः स युतः सप्तभिः करैः ॥
शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् ।
अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥
यच्छालालिन्दयोः शेषं भवेद् गर्भ Pocahaa
म्रूपावच्छिन्नमिच्छन्ति शालादैर्घ्यं विपश्चितः ॥
शालाच्यासप्रमाणा स्यात् सर्वेषामवकोसिमा ।
दिशासु भवने शाला विदिशाकर्णसामयः (?) ॥

v1.c65.94

कर्णशाला (त्त?तु) या प्रोक्ता सा च ज्ञेयावकोसिमा ।
अलिन्दशालयोर्मध्ये या स्यान्मूपेति सा स्मृता ॥
पूर्वद्वारं नियम्यादावादिभूपा तदुत्तरा ।
म्रूपा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥
यावन्मूपं भवेद् वेश्म तावद् भद्रं तदुच्यते ।
भद्राभद्रे शक्रदिक्स्ये सौम्यासौम्ये यमाश्रिते ॥
शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे ।

v1.c65.95

अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥
भद्रा इति जगुः केचिदन्ये परिसरा इति ।
एकद्वित्रिचतुःपञ्चषट्सप्ता(ष्टौ?ष्ट) क्रमेण याः ॥
मूषास्तासां प्रवहणासंज्ञाः स्युर्वेश्मनामिह ।
तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥
नामतो गुणतश्चैव शुभाशुभफलोदयात् ।
अष्टावादौ गुरून् न्यस्येत् ततश्चाद्यगुरोरधः ॥
लघुं न्यस्येत् ततः शेषान् विदधीत यथोपरि ।
गुरुभिः पूरयेदादिं यावद् स्युर्लघवस्त्विलाः ॥
आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् ।
अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥
मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् ।
अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥
तमङ्गभद्रविन्यासरचनाभिरनेकधा ।
अपरस्परसंबाधात् संवृतैर्विवृतैरपि ॥
गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते ।
यत्संबद्धचतुश्शालममूषालिन्दकं हि तत् ॥
एकभद्रादिगेहानां ब्रूमो नामान्यतः परम् ।
यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥
कथयन्त्येवभद्राणि क्रमसंख्याविभागः ।
प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥
प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् ।
अष्टौ तान्येकभद्राणि द्विभद्राण्यसिद्धिमहे ॥
पूर्वोत्तोत्तरं पूर्वादू भद्रादिह विधानतः ।
स्यातां प्राग्मेलकाद्यद्वत् पूर्वादया दक्षिणा परे(?) ॥
ईरं सुनीथमाग्नेयं द्वीपमाप्यं सुसंयमम् ।
अर्धर्चमैमं व्याक्रोशं नैऋतं वृषभं विनम् ॥
काव्यं विपासमानीरं कान्तं सौभं विपश्चित्सम् ।
गवयं श्रीवहं श्लिष्टं गणं भीममयोगमम् ॥
वृत्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः ।
द्विभद्राणां समाख्यातस्त्रिभद्राणामतः परम् ॥
ऐन्द्रं विलोमनायामं वधमेकाक्षमन्तिकम् ।
प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥
क्षमं विद्यातमायातं कान्तं चित्रं द्विमन्दिरम् ।
सुदक्षिणं भयं श्लिष्टं प्रमोदं न्यायतं वियत् ॥

First 95 of 136 passages. Read on

Linked texts (21)