Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.28

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.28

Language
English

v1.c66.28

सर्वशक्तिमयी सर्वप्राणिनां क्षेमवर्धिनी ॥
गुणाढ्या न स्थिरधिया भूभर्त्रा नयचक्षुषा ।
सा सेव्या लोकरक्षार्थं सहामात्यपुरोहितैः ॥
तस्मात्सर्वप्रयत्नेन तां कुर्याल्लक्षणान्विताम् ।
समस्थलां सावयवां सदेवां शिल्पकल्पनैः ॥
देश्या पौरैति सा न्यायसभा तु द्विविधा मता ।
जन्माधिष्ठानसंयुक्तां चतुर्दिग्द्वारभूषिताम् ॥
नयवाद्यासनोपेतां सामन्तासनसंयुक्ताम् ।
शालाकारां सभाकारां वर्तुलां चतुरश्रकाम् ॥
भूपालस्येच्छया वापि राजकार्यानुकूलतः ।
कोशागारयुतां देश्यां कल्पयेच्च सदेवताम् ॥
चक्रवर्तेः पट्टभाजो युवराजस्य भूभुजः ।
नरेन्द्रस्य क्षत्रियस्य महाराजस्य भूपतेः ॥
सामन्तस्य महीनेतुरासनेन समुज्ज्वलाम् ।
पौरां तु न्यायशालाख्यां मानसूत्रेण कल्पवित् ॥
विभज्य स्थानभेदादीन्स्थापयेल्लक्षणान्विताम् ।
मध्यशालाप्रमाणन्तु भानुदण्डकमीरितम् ॥
तदर्थं वा तदर्थं वा पूर्वशालाप्रमाणकम् ।
उपशालाभद्रकाख्यैरन्वितं च समन्ततः ॥
शालाकारां सभाकारां मण्डपाकृतिमेव वा ।
चतुरश्रां वर्तुलां वा त्रितलादिविराजिताम् ॥
महाधिष्ठानसंयुक्तां त्रिंशत्सोपानवेदिकाम् ।
देवासनसमोपेतस्तम्भकूटविराजिताम् ॥
विमानरचनोपेतां कुर्याच्छिल्पविशारदः ॥
ईशानादिचतुष्कोणेष्वष्टपादसमन्वितम् ।
पक्षद्वये षोडशकं चत्वारिंशत्सहस्रकम् ॥
चतुःपङ्क्तौ षोडशकं षट्पादं मध्यमाङ्गणम् ।
अङ्गणद्वययुक्तं वा पुरोव्यत्यासभागपि ॥
द्वात्रिंशत्पादयुक्तं वा मण्डलाकारभाक् तथा ।
चतुर्विंशत्पदोपेतमेवं त्रिविधकल्पनम् ॥
आद्यन्तु चतुरस्राख्यं द्वितीयं दीर्घवास्तुकम् ।
तृतीयं मण्डलं प्रोक्तं त्रितलेन समन्वितम् ॥
पूर्वभद्रसमायुक्तं मुखतोरणमण्डितम् ।
पूर्वाांस्यमुत्तरास्यञ्च वारुणास्यं क्रमादिदम् ।
कारयेच्छिल्पकर्मज्ञः . . . . . बुधः ॥

Cites (1)