Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66: चतुर्थः खण्डः: राजनिवेशोचितभवनासनशय्यायन्त्रादि लक्षणम्

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66

Language
English

चतुर्थः खण्डः: राजनिवेशोचितभवनासनशय्यायन्त्रादि लक्षणम्

v1.c66.1

राजनिवेशोचितभवनासनशय्यायन्त्रादि लक्षणम्

v1.c66.2

(राजनिवेशे)

v1.c66.3

राज-भवन-लक्षणम्

v1.c66.4

~~भूयदा~~ चतुरश्रा भूर्भूमिपानां विशेषतः ।
पुरस्य मध्यभागे वा निर्दिष्टे वा स्थलोत्तमे ।
भूपहर्म्यं प्रकर्तव्यं तल्लक्षणमनोहरम् ।
गभीरपरिखोपेतं द्वारोपद्वारशोभितम् ॥
चूलीहर्म्यैस्समायुक्तं पङ्क्तिशालाभिरन्वितम् ।
पञ्चाशद्दण्डमानाद्धि दण्डपञ्चशतावधि ॥
प्रमाणमिह निर्दिष्टं भूमिपालस्य मन्दिरे ।
अथवा भागमानेन कारयेन्नृपमन्दिरम् ॥
सूर्यैकं वास्त्वैकं वा तस्य मानमुदीरितम् ।
एकाननं वा द्विमुखं चतुराननमेव वा ॥
नैपे वा वह्निभागे वा मन्त्रिहर्म्यं प्रकल्पयेत् ।
आकाशे वाथ पवने सेनानाथस्य मन्दिरम् ॥
प्रासादभित्तिमभितो बहिर्वा तच्च कल्पयेत् ।
पुरोहितादिनिलयैस्सहितं वा विशेषतः ॥
द्वितीयावरणे वापि तृतीयावरणेऽपि वा ।
भूधरे रुद्रके भागे न्यायशाला विधीयते ॥
ईशाने देवतागारं सावित्रे कोशमन्दिरम् ।
मित्रभागे प्रहरणस्थानमुक्तं मुनीश्वरैः ॥
मध्यभागे राजवेश्म नवसौधतलावधि ।
नानाशालासमोपेतं कूटकोष्टाद्यलङ्कृतम् ॥
शिखरावलिसंरुद्धं कल्पनाशतशोभितम् ।
वातायनशतोपेतं मध्यचत्वरमण्डितम् ।
पाञ्चाली मागधी चान्या शौरसेनी च बाह्रिकी ।
कौसली चापि कालिङ्गी द्राविडीति क्रियाकला ॥
प्रसिद्धा शिल्पकार्येषु कल्पनाशतशोभिनी ।
देशभेदेन भूपालः स्वेच्छया तां समाश्रयेत् ॥
सोमे वा इन्द्रके भागे भोजनागारमीरितम् ।

v1.c66.5

विशालमापभागे वा कल्पयेच्छिल्पकर्मवित् ॥
किन्नरे भास्करे वाऽथ विहारस्थलमिष्यते ।
तत्रैवोद्यानभूमिश्च निर्दिशेत्तुष्टिहेतवे ॥
गान्धर्वे वारणस्थानं पुष्पके वाजिमन्दिरम् ।
भृङ्गराजकभागे च भिषक्शालादयो मताः ॥

v1.c66.6

यशोधनं कलत्रञ्च रक्षणीयं महीभुजा ।
तत् कोशरत्नजनकमनर्घं कथितं बुधैः ॥
तस्मात्तद् बहुधा रक्ष्यं सपत्नेन महीभुजा ।
प्राकारावृतहर्म्यान्तस्तत्स्थलं कार्यमीरितम् ॥
आपदेवस्य भागे वा वारुणे वा विशेषतः ।
चतुरश्रं दैर्घ्ययुतमथवा तत्प्रकल्पयेत् ॥
दण्डद्वादशवैशाल्यमण्डलाकारमध्यभाक् ।
त्रिभौमः पञ्चभौमो वा मध्ये वा स्थलसंयुतः ॥
मध्याधिष्ठानसंकॢप्तश्चोपशालावृताङ्गणः ।
तद्भागे क्रीडनस्थानं कल्पयेद्बहिरैव वा ॥
द्वारोपद्वारसंयुक्तः केसरक्रियया युतः ।
मध्यागारविनिष्क्रान्तकल्पनेन समन्वितः ॥
लक्ष्म्यादिलसितद्वारो बहुचित्रमनोहरः ।
शुद्धान्तो रक्षणोपेतः कार्यो भूपालसिद्धये ॥
कौबेर्यां भूषणं प्रोक्तं वारुणे वस्त्रकादिकम् ।
दक्षिणास्यां गन्धमाल्यं पूर्वे भोजनमीरितम् ॥
गन्धर्वदेवचित्राढ्यं कल्पयेच्छिल्पकोविदः ।
तटाकमथवा वापीं तत्पार्श्वे कल्पयेद्बुधः ॥
चेटीनां वासभवनैरन्वितश्च समन्ततः ।
वातायनशतोपेतो वितानादिभिरन्वितः ।
कलशादिसमोपेतः कल्पनीयो मनोहरः ॥

v1.c66.7

भूपतेस्तु महिष्या वा तुष्ट्यर्थं कल्पनं वरम् ।
कल्पनीयं शिल्पधिया कल्पसूत्रविधानतः ॥
विहारमण्डपो वाऽपि महाशालाऽथवा मता ।
चतुरश्रं भानुदण्डमथवा तत्कलान्वितम् ॥
मध्यकल्पनसंयुक्तं वितानादिमनोहरम् ।
पञ्चभौमं सप्तभौमं नवभौममथापि वा ॥
सोपानपङ्क्तिसंवीतकूपनिर्माणभासुरम् ।
चित्रतोरणयुग्द्वारचतुष्केनान्वितं तथा ॥
आलोकपालिकायुक्तं तत्रस्थं तु गवाक्षकम् ।

v1.c66.8

पद्मपत्रगवाक्षं वा गजनेत्रगवाक्षकम् ॥
घटागवाक्षमथवा धेनुपादगवाक्षकम्।
मृगीनेत्रगवाक्षं वा पारावतगवाक्षकम् ॥
शुकनासागवाक्षं वा बहुरन्ध्रगवाक्षकम्।
तुरगास्यगवाक्षं वा कल्पयेत्तत्र शिल्पवित् ॥
सुखभद्रैर्नागभद्रैश्चतुर्भद्रैर्युतं तु वा।
अयःकीलयुतं वाऽथ शिलापट्टयुतं तु वा ॥
दृढसन्धानसंयुक्तं दृढकल्पनमेदुरम्।
युक्त्या शिल्पवशात्सर्वं शुद्धान्ते चाथ हर्म्यके ॥
चूलीहर्म्येषु सदनेष्वपि मानवसङ्गसु।
प्रासादे विविधे रम्ये शालास्वपि च तन्नयेत् ॥

v1.c66.9

कृते पुरनिवेशेऽथ चतुःषष्टिपदाश्रये।
नियुक्तपरिखासालगोपुराट्टालकेऽपि च ॥
विभक्तरथ्ये परितः प्रविभाजितचत्वरे।
क्रमादन्तर्बहिः कॢप्तदेवतायतनस्थितौ ॥
प्रागुदक्प्रवणे देशे प्राग्द्वाराभ्युन्नतेऽथवा।
यशःश्रीविजयाद्यायि मैत्रं पदमधिष्ठितम् ॥
यथावर्णक्रमायातं चतुरश्रं समं शुभम्।
पुरमध्यादपरतो दिक्स्थं कुर्यान्नृपालयम् ॥
दुर्गेषु भूवशात् कार्यं यद्वा दिग्वपरास्वपि।
विवस्वद्गुहराय्र्यम्णां कार्यमन्यतमे पदे ॥
त्रिचत्वारिंशता युक्ते ज्येष्ठं स्याद् द्वे धनुश्शते।
मध्यं शतं तु द्वाषष्टिः शतं साष्टकमन्वितम् ॥
ज्येष्ठे पुरे विधातव्यं ज्येष्ठं राजनिवेशनम्।
मध्यमे मध्यमं कार्यं कनिष्ठं च कनीयसि ॥
प्राकारपरिखागुप्तं चारुकान्ति समन्ततः।
तमङ्कभ्रमनिय्यूहसुदृढाट्टालिकान्वितम् ॥
एकाशीत्या पदैर्भक्तं विधेयं नृपमन्दिरम् ॥
राजमार्गं समाश्रित्य वास्तुद्वारमुदङ्मुखम् ॥
युक्त्यानयैव कर्तव्यमन्यदिक्संश्रयेऽपि च।
भल्लाटपदवत्र्त्यस्य गोपुरद्वारमिष्यते ॥
तधुरद्वारविस्तारोच्छ्रायसम्मितमिष्टदम् ।
महेन्द्रं द्वारमिच्छन्ति निविष्टस्य महीधरे ॥
वैवस्वते पुष्पदन्तमर्यम्णि च गृहक्षतम्।
अन्येष्वेवामपरतः प्रदक्षिणपदेष्वथ ॥

v1.c66.10

ऽन्यान्यपि स्वासु दिक्षु द्वाराण्येवं प्रकल्पयेत् ।
आभिमुख्ये च सर्वेषां शस्यन्ते गोपुराणि च ॥
तदीयनगरद्वाराद् विंशत्यंशोज्झितानि वा ।
पक्षद्वाराणि सुग्रीवे जयन्ते मुख्यनाम्नि च ॥
वितथेऽथ अमांस्तद्वद् विदधीत प्रदक्षिणान् ।
वास्तौ विभक्ते पुरवत् क्लृप्तेऽमरपदव्रजैः ॥
तत्र मैत्रपदस्थाने निवेशायावनीपतेः ।
प्रासादः प्राङ्मुखः कार्यो यथावत्पृथिविज्रयः ॥
श्रीवृक्षं सर्वतोभद्रं मुक्तकोणमथापरम् ।
यमिच्छेन्नृपतिः कुर्यात् प्रासादं शुभलक्षणम् ॥
शालापरिक्रमोपेतकर्मान्तैरपि चान्वितम् ।
तत्र प्राच्यां भवेद् गेहमादित्यपदसंश्रितम् ॥
धर्माधिकरणं सत्ये व्यवहारेक्षगाय च।
भृशे च कोष्ठागारं स्यादम्बरे मृगपक्षिणाम् ॥
अग्नेः ककुभमाश्रित्य कार्यं वायोर्महानसम् ।
सभाजनाश्रयं पूष्णि विदध्याद् भोजनास्पदम् ॥
सावित्रे चाश्वशाला स्यात् सवितुस्थाश्च वन्दिनः ।
कर्माणि वितथे कुर्यात् तद्योग्यान्यायुधानि च ॥
स्वर्णरूप्यादिकर्मान्तान् विदधीत गृहक्षते ।
याम्ये दक्षिणतो गुप्तिं कोष्ठागारं च कल्पयेत् ॥
प्रेक्षासंगीतकानि स्युर्गन्धर्वे वासवेश्म च ।
कार्या चैवस्वते शाला स्थानां दन्तिनां तथा ॥
पश्चिमोत्तरभागस्थां वापीमपि च कारयेत् ।
वा (यो?यु) सुग्रीवपदयोर्गन्धर्वस्य च बाह्यतः ॥
कुर्यादन्तःपुरस्थानं प्राकारवलयावृतम् ।
कुर्यात् तत्रोपुरद्वारमुद्गास्यं जयाभिधे ॥
कार्यः स्थपतिना चैव प्रासादश्चापराङ्मुखः ।
क्रीडादोलाज्जयान् भृङ्गे कुमारीभवनं तथा ॥
नृपान्तःपुरमच्छिद्रन्ति मृगे पित्र्ये स्ववस्करम् ।
नृपस्त्रीणामुपस्थानगृहमिन्द्रपदं विदुः ॥
सुग्रीवपदसंसक्तमरिष्टागारमिष्टदम् ।
द्वास्थसुग्रीव पि(ध्यं?श्यां) शपश्वाद्भागे मनोहरा ॥
विधेयाशोकवनिका स्नानधारागृहाणि च ।
लतामण्डपसंयुक्ताः स्युरत्रैव लतागृहाः ॥
दारुशैलाश्च वाप्यश्च पुष्पवीथ्यः सुकल्पिताः ।

v1.c66.11

पुष्पदन्ते भवेद् य(त्त?न्त्र) कर्मान्तः पुष्पवेश्म च ॥
वरुणस्य पदे कुर्याद् वापीपानगृहाणि च।
स्यात् कोष्ठागारमसुरे शोषे त्वायुधमन्दिरम् ॥
भाण्डागारं तु रौद्राख्ये विदध्यात् स्थपतिः श्रिये।
उलूखलशिलायन्त्रभवनं पापयक्ष्मणि ॥
दारुकर्मान्तमप्याहुः श्रेयसे राजयक्ष्मणि ।
स्यादोषधेरधिष्ठानं रोगे दिशि नभस्वतः ॥
नागानां शस्यते स्थानं पदे नागस्य सूरिभिः।
भवन्ति मुख्ये व्यायामनाट्यचित्रगृहाणि च।
गवां स्थानं तथा क्षीरगृहं भल्लाटनामनि ।
उदक्प्रदेशे सौम्यस्य पुरोधःस्थानमिष्यते ॥
राज्ञोऽभिषेचनं चात्र दानाध्ययनशान्तयः ।
चामरच्छत्रधाम स्यान्मन्त्रवेश्म च भूधरे ॥
कार्यिणां चात्र कार्याणि स्थितः पश्येन्नराधिपः ।
विधेया मन्दुराश्वानामुत्तरं पार्श्वमाश्रिता ॥
महीधरपदस्यैव यथावद् दक्षिणामुखी।
कार्या सर्वत्र चाश्वानां शाला राज्ञो यथागृहम् ॥
विशतो दक्षिणेन स्याद् वामेन च विषाणिनाम् ।
वेश्मनि राजपुत्राणां विदध्याच्चरकाभिधे ॥
अत्रैव विद्याधिगमशालाश्चैषां निवेशयेत् ।
नृपस्य मातुरदितिस्थाने कुर्यान्निवेशनम् ॥
पृथगत्रैव शिबिकाशय्यासनगृहं विदुः।
नृपद्विपानां शस्ता स्यादापे सदनकल्पना ॥
अभिषेकनकं स्थानमिहैव स्याद् विषाणिनाम्।
आपवत्सपदे हंसक्रौञ्च सारस नादिताः ॥
स्युः फुल्लाब्जवनाः स्वच्छसलिलाः सलिलाशयाः।
पितृव्यमातुलादीनां कार्यं दितिपदे गृहम् ॥
अन्येषामपि चात्रैव सामन्तानां महीपतेः।
ऐशान्यामथलस्थाने वोच्छ्रितस्तम्भवेदिकम् ॥
कार्यं देवकुलं चारु सुश्लिष्टमणिकुट्टिमम् ।
पर्जन्यस्य पदे होराज्योतिर्विद्गृहमित्यते ॥
जये सेनापतेर्वेश्म विधेयं विजयप्रदम्।
द्वारं प्राकारमाश्रित्य पदेऽर्यम्णः प्रशस्यते ॥
प्राग्दक्षिणाश्रितं शस्त्रकर्मान्तं शस्त्रमत्र च।
विश्रुञ्जेद् ग्रहणः स्थान.मन्द्रध्वजयुतं नृणाम्॥

v1.c66.12

तत्राशुभानि वेश्मनि निवेशाश्चासुखावहाः ।
गवाक्षस्तम्भशोभिन्यो विधेयाश्चानुकामतः ॥
सभा यथादिक्प्रभवा नृपवेश्मोभिगुप्तये ।
सर्वत्र नृपतेः सौधान् नृपसौधस्य सम्मुखा ॥
पश्चाद्भागाश्रिता यद्वा शाला कार्या विषाणिनाम् ।
इत्यास्पदं सुरपदास्पदकल्पमाद्य-
सेतद्यथावदनुतिष्ठति यः सदैव ।
स क्ष्मामिमां भुजवलक्षपितारिपक्षः
सप्ताम्बुराशिरशनां नृपतिः प्रशास्ति ॥

v1.c66.13

इन्द्रे च वरुणे वापि सार्वभौमस्य हर्म्यकम् ।
अथवाऽर्यपदे चैव चतुर्दिक्षु विदिक्ष्वपि ॥
यमे विवस्वति चापि चाधिराजस्य हर्म्यकम् ।
भूधरे च कुबेरे च नरेन्द्रस्यालयं भवेत् ॥
इन्द्रे चेन्द्रजयस्यांशे पार्ष्णि कस्य गृहं भवेत् ।
अथवा पुष्पदन्तस्य पदे वासं प्रकल्पयेत् ॥
रुद्रे रुद्रजये वापि चासुरस्य पदेऽथवा ।
पट्टधृगालयं कुर्याच्छोषकस्य पदेऽपि वा ॥
गृहक्षते च सवित्रे सावित्रस्य पदेऽपि वा ।
मण्डलेशस्य हर्म्यं स्यात्पट्टभाक् चालयं तु वा ॥
आपवत्सापवत्सस्य मृगे वा मुख्यकेऽपि वा ।
प्राहारकश्छाग्राहयोश्चालयं परिकल्पयेत् ॥
सर्वेषामपि भूपानां स्वनिर्यानि चतुष्टये ।
गृहमेवं तु शालायां चोक्तमेवं पुरातनैः ॥
सर्वेषां मूलहर्म्याणां पूर्वद्वारं प्रकल्पयेत् ।
तत्तन्मूलस्थ हर्म्यस्य दक्षिणे चोत्तरेऽपि वा ॥
नैर्ऋत्ये वायवे चापि तत्तन्महिषिकागृहम् ।
मूलहर्म्यस्य याम्ये तु चाभिषेकादिमण्डपम् ॥
सुग्रीवे पुष्पदन्ते वा चायुधस्यालयं भवेत् ।
असुर शोषके वापि वस्तु निक्षेपमण्डपम् ॥
वरुणे नैऋते वापि मुहुर्वस्त्रधनालयम् ।
सोमे च मुख्यके वापि रत्नहेमादिकालयम् ॥
गन्धर्वे भृङ्गराजे वा भूषणाज्ञयमेव च ।
दक्षिणे नैऋते वापि भोजनार्थं तु मण्डपम् ॥
तथेशानपदे वापि पचनालयमेव च ।
अनिले चाग्निके वापि पुष्करिणीश्च कल्पयेत् ॥

v1.c66.14

महिष्याद्यात्मसौम्ये कञ्चुकिनालयं भवेत्।
वायव्येन धनाज्ञात्रे पुष्पमण्डपं योजयेत् ॥
अदिते चोदिते वापि मज्जनालयमेव च।
तद्वाह्याग्रदेशे तु कायशुद्धयर्थमण्डपम् ॥
वायव्ये नैऋते वापि सूतिकामण्डपं भवेत्।
पूष्णि वा द्वितये चैव दासदास्यालयं भवेत् ॥
गृहक्षतपदे चैव शयनालयमेव च।
मुख्ये वा चैवाथ भल्लाटे विलासिनीनां चालयम् ॥
दौवारिकपदे चैव राजकन्यालयम्।
द्वारस्य वामपार्श्वे तु गजाश्वादिकालयम् ॥
द्वारस्य दक्षिणे पार्श्वे रक्षकावासमेव च।
मुख्यके चान्तरिक्षे च शौण्डिकालयमेव च ॥
भृङ्गे यानालयं कुर्याच्छेषं प्रागुरुवद् भवेत्।
अन्तःशालमिति प्रोक्तं बाह्यशालमिहोच्यते ॥
वस्वंशे युवराजस्य चालयं तत्प्रकल्पयेत्।
तत्पूर्वे चोत्तरे वापि तस्यैवानुचरालयम् ॥
याम्ये च सोमदिशि वापि वायव्ये वाऽथ नैऋते।
आस्थानमण्डपं कुर्यात्पुष्करिण्यारचं वायवे ॥
नागस्य वासके याम्ये कुर्यादारामदेशकम्।
पुष्पोद्यानं ततः कुर्यान्मुख्ये भल्लाटकेऽपि च ॥
नृत्तागारं ततः कुर्यान्नानानुन्नाङ्गनानि च।
आत्मार्थं यजनार्थाय देववाङ्घ्यंमणीशके ॥
द्वितीये हर्म्य याम्ये तु पुरोहितावासमेव च।
रोगे वा मुख्यके वापि व्याध्यालयमेव च ॥
द्वितीयशालदाहे तु द्वारं तस्य तु दक्षिणे।
महागञ्जालयं कुर्याद् मैत्रं तु बहिर्बहिः ॥
इंद्रे तु धेनुशालाञ्च द्वारं कुर्यान्महेन्द्रके।
पारर्जन्य मेषशालाञ्च मुख्यके वानरालयम् ॥
सोमादीशानपर्यन्तं वाजिशालाः प्रकल्पयेत्।
याम्यादिशरावडक्षान्तं स्याद् गजशालां प्रकल्पयेत् ॥
दक्षात्तु नैर्ऋत्यान्तं कुक्कुटालयमेव च।
वायुक्रोशादिशुन्त्यान्तं मृगाणां हरिनालयम् ॥
सुग्रीवे पुष्पदन्ते च कल्पयेन्मल्लमण्डपम्।
उत्तरे वारुणे वापि चोत्तरे वायवे तथा ॥
दहेगे चोर्ध्ववेदिः स्याद्विरदार्याङ्कणान्वितम्।

v1.c66.15

परितः शूलकम्पं स्याद् द्वार तद्दक्षिणोत्तरे ॥
तत्तत्पश्चिमदेशे तु युद्ध लोकनमण्डपम् ।
आरुह्यालोकनार्थं स्यात् कुर्याद्युक्त्या च मण्डपम् ॥
वरुणे पुष्पवन्ते वा मेषयुद्धार्थमण्डपम् ।
मृगे च भृङ्गराजे वा कुक्कुटायुद्धमण्डपम् ॥
मण्डपाङ्गणमध्ये तु परितो मेखलायुतम् ।
एकद्वित्रिचतुष्पञ्चहस्तमूलाग्रविस्तृतम् ॥
सार्धद्विहस्तनिम्नं स्यात्सार्धार्धपरिवान्वितम् ।
दौवारिकपदे चैव मयूरालयमेव च ॥
द्वारस्य दक्षिणे बाह्ये व्याघ्रकालयमेव च ।
तद्बाह्ये तत्र देवानां किरातालयमेव च ॥
तृतीये वितथे तस्य रहस्यावासमण्डपम् ।
चतुर्थे यमदिग्भागे सन्धिविग्रहमण्डपम् ॥
षट्सप्तावरणे वापि दक्षिणे पश्चिमेऽपि च (वा) ।
उत्तरे पूर्वके वापि गजाश्वादिवाहनम् ॥
आरुह्यालोकनार्थं च मण्डपं परिकल्पयेत् ।
ईशे वा वितथे चैव रङ्गमण्डपमेव च ॥
भृशे वा चान्तरिक्षे वा कारागृहमेव वा ।
प्राकारस्य चतुर्दिक्षु द्वारगोपुरकान्वितम् ॥

v1.c66.16

माडश्च मौडः शुद्धश्च शिखरं च चतुर्थकम् ।
तुङ्गारः सिंहकश्चैव षड् भेदा राजवेश्मनाम् ॥
छाद्यघण्टाकुटैर्माडो मौडश्चोर्ध्ववरण्डिकः ।
वरण्डिकाः सर्वभूपु शुद्धो बाह्यचतुष्कतः ॥
माडच्छन्दो भवे भद्रे भूमिशृङ्गाणि सन्ति चेत् ।
तच्च मौडामिधानं स्यात् प्रशस्तं राजवेश्मनाम् ॥
शिखरं शिखराकारं सुरसद्मादिसम्भवम् ।
भद्रे भद्रे तवङ्गानि तुङ्गारा द्विगुणं गताः ॥
सिंहावलोकनं कुर्यात् सिंहकणैर्विभूषितम् ।
एवं वै षड्विधं प्रोक्तं राजवेश्मसुखावहम् ॥

v1.c66.17

मालिकाणि यथोक्तानि कथयामि समासतः ।
द्विशतहस्तविस्तीर्णां पञ्चषष्टिकरोच्छ्रयम् ॥
द्वारं सप्तदशहस्तं मध्यमं रंग सत्करम्१ ।
याम्ये परे उत्तरेषु उच्छ्रयति विंशतिकरैः१ ॥
राजा वा चक्रवर्ती वा खण्डजा मण्डलाधिपाः ।
मुकुटध्वजा भूपालाः सामन्ता लघवस्तथा ॥

v1.c66.18

छत्रधाराः प्रतीहाराः खड्गधराश्चतुर्वराः ।
वंशोपानद्धराश्चैव अङ्गरक्षाचतुलिका ? ॥
सुभटैरभिभव्यन्ते साधु साधुजनाकुलैः ।
राजगृहं सदासेव्यमीशस्य चामरैर्यथा ॥
दासीदासाः सूपकाराश्च्छत्रधाराश्चव्यञ्जनाः ।
महिषी कुरुते देवी चामरधारी त्वमासंन्ना ? ॥
तथा च केशबन्धाश्च जातीचम्पकम्रन्थिकाः ॥
कुङ्कुमश्रीखण्डहस्ता उद्वर्तनोत्तरिनायिकाः ॥
अक्षणौ ? च त्रीमुने स सर्वे नेन्द्रीप्रतिचोरका ? ।
इष्टराज्ञीं सदा ध्यात्वा मुनिषोडशां यथा ? ॥
त्रिभूमिमध्यकर्त्तव्यामालिका क्रमतः स्थिता ।
सूर्यवंशोद्भवा शैवा वतरन्ति यदा महीम् ॥
तेषां वेश्मानि कार्याणि नान्येषां तु कदाचन ।
एव तु राजवेश्मानि कर्त्तव्यानि च सर्वदा ॥
चतुःषष्टिपदैर्भक्त राजवेश्मनि वास्तुनि ।
देववेश्मराजवेश्म मैत्रपदे समाश्रितम् ॥
प्रदक्षिणाम्ते मार्गाच्च निवेशःस्यात्तु वेश्मनः ।
गजस्कन्धसमोत्सेधा ? प्रथमा ह्युचरंगिका ॥
इन्द्रेन्द्रजयोर्मध्ये च राजमातुर्निवेशनम् ।
रुद्रे रुद्रदासे चैव वेश्मनः पेटमादिकम् ॥
वैदार्चेन्दूजयोर्मध्ये भ्रमणी पदमध्यगा ।
राजभुवनस्यार्धं तु भ्रमणी मार्गानिर्गता ॥
तद्वीथ्यग्रसन्धौ च प्रतोलीः कारयेच्छुभाः ।
कार्याश्च भ्रमणीमध्ये गजशालास्तथोत्तमाः ॥
पूर्वार्धं तु त्रिभिर्भाडैः पङ्क्तिरेका तु संस्थिता ।
अपरयाम्योत्तराणि ? शालाकिन उदाहृताः ॥
तद्वाह्यतोऽन्तर्मार्गश्च कर्तव्यं शुभलक्षणम् ।
महिषीगृहाल्पहीनं राजमातृगृहं भवेत् ॥
मैत्रान्ते पुरतो भागे द्वारगर्भस्तथान्तरे ।
गोपुराकृतिः कर्तव्यो दृढार्गलसमन्वितः ॥
तत्सूत्रेण कृतं द्वारं राजमातृगृहात्परम् ।
मैत्राग्निकर्णै कुर्याच्च सभामारुं सुशोभितम् ॥
सिंहासनसमायुक्ता याम्यस्या चोत्तरानना ।
सिंहावलोकनयुक्ता महाराजसभा भवेत् ॥
सभामध्ये तु कर्त्तव्यं वेद्यां सिंहासनं महत् ।

v1.c66.19

श्रीधरोज्ज्वमाडं च सुवर्णरत्नभूषितम् ॥
ब्रह्मस्थानार्थतः स्तम्भैः सिंहद्वारं गर्भोत्तरे ।
याम्योत्तरे तु कर्त्तव्या गजयुधा गजोत्तमा ॥
तदग्रे चाट्टालकानि प्राकारे स्याद्यथाकृतिः ।
राजगृहाद् द्वे प्रतोत्यौ प्राकारान्तर्विनिर्गते ॥
राजमातुः पटरज्ञाः प्राकारो गृहतो भवेत् ।
सिंहद्वारसमानान्त्यनेकद्वाराणि कारयेत् ॥
विवस्वत्पृथ्वोधरार्धे प्राकारः पूर्वनिर्गतः ।
ब्रह्मणोऽन्ते तु प्राकारो जयद्वारं गर्भोत्तरे ॥
तत्प्राकारमध्यकर्णे गजशालावुभौ मतौ ।
तस्य बाह्ये गृहमन्यत् राजपिण्डपाद्यादिकम् ॥
आपवत्समरीच्यर्धे राजवेश्म गृहोत्तमम् ।
कपिशीर्षयुतश्चैव प्राकारो वास्तुवाह्यतः ॥
पित्रग्नीशरोगकर्णेष्वट्टालकचतुष्टयम् ।
महाप्रतोल्या माहेन्द्रे गिरिसंस्था तथोत्तरे ॥
भास्वतो यमदिग्भागे समस्ता च वलूरिका ।
राजवेश्मान्तर्भागे च वाद्यशाला तथोत्तरा ॥
वितथे गिरिसंस्थाने रथरन्ध्राणि कारयेत् ।
गिरौ काष्ठगृहं चैव वितथे चाम्भसां गृहम् ॥
सुग्रीवनन्दिसन्धौ च युद्धद्वारं पराङ्मुखम् ।
असुरशेषसन्धौ च द्वारमम्भोगृहैर्युतम् ॥
सुग्रीवपुष्पदन्तयोर्वरुणासुरयोस्तथा ।
अश्वशाला द्वादशैव कर्तव्याश्च शुभोत्तमाः ॥
अर्ध तवङ्गनिष्कास? सैन्यविस्तरविस्तृतम् ।
प्राकारसमुत्सेधानि त्रिमाडानि तदूर्ध्वतः ॥
कार्य दौवारिकै भिह्रं ? गजस्कन्धसमोच्छ्रितम् ।
द्वाराग्रे तु भवेन्माडं मल्लैरग्रे तु युध्यते ॥
पूर्वापरद्वारद्वयं द्वात्रिंशत्स्तम्भभूषितम् ।
तद्वृत्तमाडं वृत्तं तु पञ्चविंशतिभिः करैः ॥
स्तम्भे स्तम्भे पताका च द्विजालोककलोद्भवम् ।
रक्तपुष्पसमाकीर्णे द्वारिकं चतुरङ्गुलम् ॥
खङ्गविद्याविजयुद्धं छुरिकायुद्धमुत्तमम् ।
तथैव मल्लयुद्धं च गात्रभङ्गैरनेकधां ॥
निरोध्यते यतः सर्वं खड्गाद्यायोधनं तथा ।
एवं युद्धोद्भवा राजप्रासादे च महोत्सवाः ॥

v1.c66.20

नियन्त्रितोभयद्वारं माडं रश्माद्यसुन्नतम्।
भिट्टे चापरद्वारणि कार्याणि चासुरोन्मुखम् ॥
बाह्यदेवपंक्ति मध्ये राजवेश्मान्तमार्गतः।
मुख्यभल्लाटसाम्येषु गजशालापङ्क्तिद्वयम् ॥
याम्योत्तरसुखं कार्यं प्रशस्तं कर्वकामदम् ।
सौम्यान्ते हस्तिनीवेश्म तद्द्वारमपरोन्मुखम् ॥
बुधे यमे च गन्धर्वे तद्रूपा च द्वितीयका।
शोषे क्षये च रोगे च कोष्ठागारं तथादिमम् ॥
पित्रिमृगभृङ्गेषु ? च कोष्ठागारं द्वितीयकम्।
गोष्ठागारं कार्यमित्थं प्रोक्तं च विश्वकर्मणा।
ईशादितिदितिषु च भाण्डागारमापार्धतः।
पुष्पागारं सवित्रर्वे ह्यग्नौ भृत्यान्तरिक्षयोः॥
तृणशाला कर्तव्या प्रशस्ता शुभकर्मणा।
पर्जन्यं चाधिकरणं राज्ञः कार्यं पराङ्मुखम्॥
शुभा प्रतोली माहेन्द्रे जये श्रीकरणादिकम्।
आदित्ये वप्रकरणं सन्मुखं श्रीकरादिषु ॥
धर्माधिकरणं सत्ये कर्तव्यं चापराङ्मुखम्।
कर्णोध्र्वे भूमिकाश्चैव तदग्रार्थे चतुष्किका ॥
जयस्य बाह्यपक्षे तु कुर्यात् कारागृहं तथा।
कात्यायनी च माहेन्द्रे प्रतोत्याः पुरतो वधुः ॥
आदित्याग्रे च बाह्ये तु कुर्याद् द्वयकरणाचकम्? ।
रूपकं दुःसाध्यकानां चतुष्कं तु राजादिकम् ॥
मरीचिस्थगर्भोत्तरे देवी राजकुलार्चिता।
पृथ्वीजयाख्यः प्रासादस्तेजःप्रतापवर्धकः॥

v1.c66.21

राज भवने—महीशानां त्रिविधा राजालयाः, महामण्डलेश्वर-राजगृह-प्रमाणम्, माण्डलिकस्य भवन-प्रमाणम्, महासामन्त-वेश्मप्रमाणम्, सामन्त-लघु-सामन्त-भवन-प्रमाणम्, स्वल्पराष्ट्रभवन-प्रमाणम्, दण्ड-नायक-मन्त्रि-द्वारपाल-पुरोहित-जनानां वेश्मप्रमाणम्, हस्तत एकाद्येकादशपर्यन्तभूमिमानम्, चक्रवर्त्ति-महामण्डलेश्वरादिमहीशानां वेश्मसु सिंहद्वाराणि, अन्याल्पराज्यानां भवनेषु केवलं तोरणानीत्यादिविषयाः नात्रोपवृंहिताः ।

v1.c66.22

नन्दा भद्रा जया पूर्णा सभा स्याद् भाविता तथा।
दक्षा च प्रवरा तद्वद् विदुरा चाष्टमी मता ॥

v1.c66.23

अथ लक्षणमश्वशालायाः प्रोच्यते विस्तरादिह।
स्ववेश्मवास्तोः कर्तव्यं पदे गन्धर्वसंज्ञके ॥
अथवा पुष्पवन्ताख्ये स्थानं वासाय वाजिनाम्।

v1.c66.24

हयोगारस्य पूर्वेण कार्यं भेषजमन्दिरम्।
तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥
वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत्।
अगदानोषधीः स्नेहान् वर्त्तीश्च लवणानि च ॥
भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् ।
भवनं व्याधितानां च कार्यं वासय वाजिनाम् ॥
सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् ।
संबद्धं च विधातव्यमेतत् वेश्मचतुष्टयम् ॥
सुधान्बन्धदृढैः कुड्यैः सप्राग्ग्रीवोच्चतोरणम्।
चत्वार्यपि विशालानि सुगमानि च कारयेत् ॥
वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥

v1.c66.25

— — — — — सुभद्रेयमुदाहृता ॥
अस्या एव यदा पक्षप्राग्ग्रीवौ भवतो मुखे।
नन्दिनी नामतः शाला तदा स्याद् गजवृद्धये ॥
अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः।
तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥
अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः।
भद्रिका नाम शाला स्यात् तथा द्विरदपुष्टिदा ॥
पञ्चमी चतुरश्रा स्याद् वर्षणी नाम पूजिता।
प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥
शाला प्रमारिका 'धान्यधनजीवितहारिणी
तदेतां वर्जयेत् कुर्यादन्याः सर्वार्थसिद्धये ॥
प्रमारिकेति प्रथितेह शाला सा प्राणसस्यद्रविणच्छिदे स्यात्।
कुर्यादतस्तां न यथोदितासु कार्याः परा जीवितवित्तवृद्धयै ॥

v1.c66.26

राज-निवेशे प्रमुख-निवेशानां लक्षणम्

v1.c66.27

सार्वभौमादिभूपानां गुणिनां नयचक्षुषाम्।
आस्थानिकं द्विधा प्रोक्तं न्यायशालासभाक्रमात् ॥
न्यायशालास्थानिकन्तु प्रत्यहं राजपोजितम्।
धर्मसंस्थापनकार्येषु साक्षीभूतमहेश्वरः ॥
सभा व्रतादिनास्थानं महिष्यादिभिरर्चिता।
प्रासादे भवने हर्म्ये परिवारावृताङ्गणे ॥
शुद्धां वेदीं पीठिकां वा समासाद्य महीपतिः।
नियम्य च मनःश्रेयोवर्धनं व्रतचारणम् ॥
न्यायशाला तु कथिता सर्वदेवमयी शुभा।

v1.c66.28

सर्वशक्तिमयी सर्वप्राणिनां क्षेमवर्धिनी ॥
गुणाढ्या न स्थिरधिया भूभर्त्रा नयचक्षुषा ।
सा सेव्या लोकरक्षार्थं सहामात्यपुरोहितैः ॥
तस्मात्सर्वप्रयत्नेन तां कुर्याल्लक्षणान्विताम् ।
समस्थलां सावयवां सदेवां शिल्पकल्पनैः ॥
देश्या पौरैति सा न्यायसभा तु द्विविधा मता ।
जन्माधिष्ठानसंयुक्तां चतुर्दिग्द्वारभूषिताम् ॥
नयवाद्यासनोपेतां सामन्तासनसंयुक्ताम् ।
शालाकारां सभाकारां वर्तुलां चतुरश्रकाम् ॥
भूपालस्येच्छया वापि राजकार्यानुकूलतः ।
कोशागारयुतां देश्यां कल्पयेच्च सदेवताम् ॥
चक्रवर्तेः पट्टभाजो युवराजस्य भूभुजः ।
नरेन्द्रस्य क्षत्रियस्य महाराजस्य भूपतेः ॥
सामन्तस्य महीनेतुरासनेन समुज्ज्वलाम् ।
पौरां तु न्यायशालाख्यां मानसूत्रेण कल्पवित् ॥
विभज्य स्थानभेदादीन्स्थापयेल्लक्षणान्विताम् ।
मध्यशालाप्रमाणन्तु भानुदण्डकमीरितम् ॥
तदर्थं वा तदर्थं वा पूर्वशालाप्रमाणकम् ।
उपशालाभद्रकाख्यैरन्वितं च समन्ततः ॥
शालाकारां सभाकारां मण्डपाकृतिमेव वा ।
चतुरश्रां वर्तुलां वा त्रितलादिविराजिताम् ॥
महाधिष्ठानसंयुक्तां त्रिंशत्सोपानवेदिकाम् ।
देवासनसमोपेतस्तम्भकूटविराजिताम् ॥
विमानरचनोपेतां कुर्याच्छिल्पविशारदः ॥
ईशानादिचतुष्कोणेष्वष्टपादसमन्वितम् ।
पक्षद्वये षोडशकं चत्वारिंशत्सहस्रकम् ॥
चतुःपङ्क्तौ षोडशकं षट्पादं मध्यमाङ्गणम् ।
अङ्गणद्वययुक्तं वा पुरोव्यत्यासभागपि ॥
द्वात्रिंशत्पादयुक्तं वा मण्डलाकारभाक् तथा ।
चतुर्विंशत्पदोपेतमेवं त्रिविधकल्पनम् ॥
आद्यन्तु चतुरस्राख्यं द्वितीयं दीर्घवास्तुकम् ।
तृतीयं मण्डलं प्रोक्तं त्रितलेन समन्वितम् ॥
पूर्वभद्रसमायुक्तं मुखतोरणमण्डितम् ।
पूर्वाांस्यमुत्तरास्यञ्च वारुणास्यं क्रमादिदम् ।
कारयेच्छिल्पकर्मज्ञः . . . . . बुधः ॥

v1.c66.29

पोरा देश्या च सभा न्यायाधिकरणस्थानं सभा मुख्या प्रधानिका ।
दैवी राज्ञी मानुषीति त्रिक्रमः कथितो बुधैः ॥
अष्टादशशतग्रामकार्यशाला सदा मता ।
मुख्या सभा तु सा प्रोक्ता दुष्टाशेषकार्यभाक् ॥
सार्वभौमेन वा भूपा भूपालैः क्षत्रवंशजैः ।
मान्या प्रधानिका प्रोक्ता सिंहासनसमन्विता ॥
सामन्तैर्वा माण्डलिकैः प्रह्लोनासर्वधायिनी ।
सचिवामनसंयुक्ता तदध्यासनसङ्कथा ॥
महाशालामयायुक्ता सर्वतोभद्रशालिनी ।
दशदण्डादिकं मानं द्विविदण्डेन योजिताम् ॥
त्रिंशद्दण्डक्रमानेन संयुतां कृन्मनासुगम् ।
शुद्धां वा मिश्रितां वापि कारयेच्छल्पकोविदः ॥
मध्यशालाप्रमाणन्तु तदर्धं वा तदर्थकम् ।
लेखकद्यासनेापेतासुप्रशान्तां समन्ततः ॥
देश्यां पौरं तथा शालां माण्डलीकाञ्च तत्स्थले ।
तन्नायकासनोपेतां पश्पिद्र्ग्यवेदिकाम् ॥
महाविष्ठानसंयुक्तां पूर्वस्यां द्विनलाधिकाम् ।
चत्वारिंशत्पदोपेतां न्यायवेद्या समन्विताम् ॥
पश्चाद्वाद्वारौ च सुरत्नश्रृङ्गाटकमन्विताम् ।
चतुर्विशत्यदंापेतासुसन्नद्धां सर्वांगगाम् ॥
विमानवन्तोपेतामेकादित्वदभासुगम् ।
स्थापयेन्नानविच्छिल्पी युक्त्या मानेन सर्वतः ॥
अथवा त्रिंशत्निपदैः संयुतां मध्यशालिकाम् ।
चतुष्षट्द्युतां दिक्षु युग्मपादद्युर्गान्विताम् ॥
चतुस्त्रां चतुरश्रां वा तां प्राच्यादिगतां नयेत् ।
सर्वालङ्कारननां पार्श्वद्वारोपद्वारशोभिताम् ॥
द्वयादि बहुवा चिह्नैश्शोभितां कल्पयेद् बुधः ॥

v1.c66.30

भाण्डागारम् धनं सम्पादयेद्दीमान् लोकप्रत्ययकारणात् ।
अनसङ्गीक्षणा शाला भाण्डागारगमीरीता ॥
तां शालां स्थपतिश्रेष्ठः स्थापयेल्लक्षणान्विताम् ।
देश्या पौरेति सा शाला द्विविधा कथिता बुधैः ॥
देश्या षड्गां सालिन्द्रा द्वारोपद्वारभेदतः ।
प्राकारत्रयसंवीता भित्तिसप्तकसंयुता ॥
भूम्यां भूगर्भसंयुक्ता सप्तसोपानसंयुता ।
चतुर्थ्यां पार्श्वभागे देवानां स्यालर्कैर्युता ॥

v1.c66.31

प्रकल्प्या स्थपतिश्रेष्ठैश्शुभकाले विशेषतः ।
पौरन्तु कोशसदनं प्रासादान्तर्गतन्तु वा ।।
सप्राकारं सदुर्गं वा सप्तभित्तिसमावृतम् ।
मण्डपाकृतिकं वापि शालाकारमथापि वा ।
तदन्तर्भूगर्भदेशे चतुरश्रप्रमाणकम् ।
अलिन्दद्वयसंयुक्तं तद्द्वारं कीर्तितं क्रमात् ।।
दण्डत्रयं चतुर्दण्डमथवा पञ्चदण्डकम् ।
मध्यभागप्रमाणं च स्थापयेत्सूत्रमानवित् ।।
गणकाद्यधिनेतॄणामासनैश्च समन्वितम् ।
सर्वाभरणकैर्दिव्यैर्निधिदेनैस्सुरक्षितम् ॥
भूगर्भस्थानसंयुक्तं भूमिदेवीसमन्वितम् ।
धेनुचित्रलसद्भागधननेत्रा समन्वितम् ॥
स्थापयेदुत्तरास्यञ्च सौवर्णद्वारपट्टिकम् ।
सुवर्णं स्थापयेत्पूर्वे राजतं दक्षिणे तथा ॥
उदीच्यां नवरत्नानि वारुणे लिपिकारिणः ।
स्थापयेत्क्रमशो भक्त्या प्रत्यहं चार्चयेन्नृपः ॥
प्रथमावरणे दीपदेवी स्थाप्या सहासना ।
द्वितीयावरणे देवी चामरग्राहिणी तथा ॥
तृतीयावरणे देवी चाशीर्वचनकारिणी ।
एवं देवीत्रयं स्थाप्यं यशोधनजयप्रदम् ॥
कम्बलास्तरणोपेतमध्यभागविराजितम् ।
सुवर्णपट्टसंयुक्तं राजतैस्तोरणादिभिः ॥
शिखरत्रयसंयुक्तविमानेन च भासुरम् ।
नानाचित्रसमोपेतं वितानैरपि मण्डितम् ॥
पूर्वशालासमायुक्तं खड्गचिह्नसमन्वितम् ।
स्थापयेन्मतिमान् शिल्पी रक्षकैस्संवृताङ्गणम् ॥
गन्धमाल्याक्षतैश्शुद्धैस्सर्वकामसमृद्धये ।
अस्त्राणामपि शस्त्राणां यन्त्राणां बहुरूपिणाम् ॥
स्थानकं मातृकान्यासं भक्त्या सम्मानयेन्नृपः ।
कुन्तः पाशस्तरी खङ्गः करवाल्ससखेटकः ॥
भल्लः खरः खरोद्दारो भिण्डिपालस्समेरुकः ।
शङ्कुलश्च कुठारश्च टङ्कश्शूलस्तृणिस्र्तथा ॥
मुसलो वह्निकाग्रञ्च खलुका मुष्टिभेदनम् ।
परशुस्तरवारी च छुरिका च विदारिका ॥
मण्डलाग्रादयश्चान्ये परमर्मप्रभेदिनः ।

v1.c66.32

तानशेषांस्तदीशानानर्चयेत्प्रत्यहं नृपः ॥
दशादिविंशतीदण्डवैशाल्येन समन्विताम् ।
प्राचीमुखां स्थापयेत्तु पञ्चप्राकारसंवृताम् ॥
उत्तमाधिष्ठानभावां पञ्चशालान्वितां तथा ।
कालीं रुद्रपतिं द्वारे स्थापयेत्तत्र भूपतिः ॥
महावेदीमध्यभागे क्षुद्राधिष्ठानसंयुता ।
चतुःक्षुद्रपदोपेतां चतुःकर्णसमन्विता ॥
प्रागासना नागकर्णा ब्रह्मदेवा च कीर्तिता ।
तत्र स्वर्णमये पीठे खड्गः स्थाप्यश्शुभेऽहनि ॥
शालानां मध्यभागेषु कुन्तादीन्कल्पयेत्क्रमात् ।
हेतिनाथप्रतिकृतिं कल्पयेत्तत्र भित्तिषु ॥
एकभौमा त्रिभौमा वा शाला सा परिकीर्तिता ।
शिखरत्रयसंयुक्ता छत्रयुक्ताऽथवा मता ॥
पताकालङ्कृता कल्प्या शुभे काले नृपाज्ञया ।
प्रत्यब्दं ब्राह्मणान्भूपस्तोषयेद्भोजनादिभिः ॥

v1.c66.33

खड्गसन्धारणं राज्ञश्शास्त्रसेवनमित्यपि ।
द्वयं ( चैव विशेषेण ) शुभप्रदमितीरितम् ॥
विज्ञानधर्मसुकृतसुखतत्वाविवर्धकम् ।
शास्त्रं भूपतिना सेव्यं नियमेन ( मनीषिणा ) ॥
ज्ञानेन प्राप्यते लक्ष्मीर्ज्ञानेन सुखमश्नुते ।
प्राणिसंरक्षणे ज्ञानसाचो मन्त्रीति कथ्यते ॥
गुरुदेवार्चनपरः प्राणिरक्षादृढव्रतः ।
यशसे कल्पते भूपश्शास्त्रसेवनतत्परः ॥
तेन तुष्यन्ति पितरो ब्राह्मणा वेदपारगाः ।
काले वर्षति पर्जन्यो मेदिनी सस्यशालिनी ॥
सुखभाजः प्रजाः सर्वा न्यायस्थितिरचञ्चला ।
इत्यादिक्षेमजनकं शास्त्रसेवनमीशितुः ॥
तस्माद्भूपतिना कार्यं प्रत्यहं शास्त्रसेवनम् ।
प्रासादे नीतिभवने पुराणामपि मध्यमे ॥
विदुषां मेलनस्थाने शास्त्रशालां प्रकल्पयेत् ।
चतुरश्रा शास्त्रशाला प्राङ्मुखावरणान्वया ॥
मध्ये कल्पविधानेन प्रकल्प्या वेदवेदिका ।
मुखभद्रचतुष्केण संयुताङ्गणशोभिनी ॥
बहिरान्धारिका युक्ता वातायनशतोज्ज्वला ।
एकभौमा त्रिभौमा वा शिखरेणापि भासुरा ॥

v1.c66.34

प्रथमावरणे वेदो द्वितीयावरणे स्मृतिः ।
तृतीयावरणे चार्चा वेदनाथः परः पुमान् ॥
वागीं हयमुखं शम्भुमुमां सपरिचारिकाम् ।
स्थापयेत्तत्र कार्यज्ञः कलशादिसमन्विताः ।
गुरुपीठसमायुक्तः प्रजानां शेमुषीप्रदः ॥

v1.c66.35

सार्णभौमादिभिर्भू पैर्मोदाय मधुसेवनम् ।
काले कार्यमिति प्रोक्तं तन्त्रविद्भिर्मु नीश्वरैः ॥
तस्मात्तत्कल्पयेत्पुर्यामुद्याने भवनान्तरे ।
परितस्तु चतुश्शालं जलकुम्भादिशीतलम् ॥
प्राङ्मुखं कल्पनं शस्तं तदेव प्रीतिदायकम् ।
चतुर्दण्डप्रमाणेन हीनं नोत्तममीरितम् ॥
चतुश्शालावृते मध्यभागे मण्डलकल्पनम् ।
विश्रान्तिवेदी तत्रैव गन्धशैत्यादिभासुरा ॥
चत्वरादिसमोपेता सालङ्कारा सतोरणा ।
मुखीकरणयुक्तं वा मण्टपाकृति वा भवेत् ॥
चतुर्द्वारसमोपेतं नानाजणसमन्वितम् ।
एकभौमयुतं भौमं त्रिभौमं सार्णभौमिकम् ॥
योषितां तु पृथक् शाला कल्पनीया विशेषतः ।
नानासनसमोपेता सुहृदादिविभेदतः ॥
शीतलै रुपचारैश्च मेदुरा दिशि सर्वतः ।
चतुर्दिक्षुमण्टपं पूर्णमन्दिरं वा प्रकल्पयेत् ॥
क्षुद्राधिष्ठानसंयुक्तं सोपानावलिमञ्जुलम् ।
आलोकमण्टपोपेतमथवा गीतिशालकम् ॥
सतटाकं विहरणस्थानञ्च परिकल्पयेत् ।

v1.c66.36

नृपायतनेषु-स० सू० ५१

v1.c66.37

उत्तमादिभेदेन त्रिधा भिन्नस्य नृपायतनस्य मानं विन्यासश्च ; नृपानुजीविनृपपत्नी-गृहाणां देवधिष्ण्यानां च दिग्भागादिकम् ; मन्त्रिसनानीप्रतीहारपुरोधःप्रासादानां दिग्भागादिकम् ; राजमातृस्वसृमातुलकुमार - प्रासादानां दिग्भागादिकम् ; द्विजमुख्यसामन्त-कुञ्जरारोहभटपौरजनगृहाणां दिग्भागादिकञ्च तथा ; सर्वेषां गृहाणाम् सामान्यविधिः । इतरेषां गृहाणां भूषणादिभिः राजगृहैः साम्यमाधिक्यं च परिहरेदिति च वचनम्

v1.c66.38

समराङ्गण एव दृष्टव्यम् । विस्तारत्वाद्न न दीयते ।

v1.c66.39

पुर-निवेशोचित-द्वारभवनादिलक्षणम्

v1.c66.40

प्रतोली-लक्षणम्

v1.c66.41

प्रतोलीश्च प्रवक्ष्यामि कनिष्ठमध्यमोत्तमाः ।
उच्छ्रयस्त्रिविधो वत्स द्वारां प्राकारतोऽपिच ॥
प्रतोत्या द्वार उत्सेधः पञ्चदशकरैः शुभः ।
मध्यस्त्रयोदशकरै रुद्रहस्तैः कनिष्ठकः ॥
कनिष्ठमेकभूमं च द्विभूमं चैव मध्यमम् ।
उत्तमं च त्रिभूमं स्यात् त्रिधोदितक्रमागतम् ॥
उत्तमं चाऽष्टहस्तैश्च सप्तहस्तैश्च मध्यमम् ।
कनिष्ठं चैव षड्ढस्तैर्विस्तारस्त्रिविधो मतः ॥
नवहस्तोच्छ्रिताः स्तम्भाः कुम्भकैः सुसमन्विता ।
ऊर्ध्वमेकद्वित्रिक्षणा मालिकाश्च ह्यनुक्रमात् ॥
मदलाः शीर्षैस्तम्भिका निर्यूहे मदलाः पुनः ।
स्वस्तिकाद्वयं शीर्षोर्ध्वे निर्यूहे मदला पुनः ॥
शीर्षोर्ध्वे च भवेत्पट्टः शाखार्धं चोत्तराङ्गकम् ।
तुला जयन्ती पीता सा ? निर्मलं कपिशीर्षकम् ॥
तदूर्ध्वे च पुनर्भू मिश्चतुर्द्वारं तृतीयके ।
दृढार्गलाः कपाटाश्चाऽपवरकास्ततः परम् ॥
वक्त्रद्वाराणि वक्ष्यामि प्रतोलीनां चतुष्टयम् ।
अनुक्रमेण कर्त्तव्यं कथयामि समासतः ॥
उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।
प्रतिकाय इति प्रोक्तं प्रतोलीनां चतुष्टयम् ॥
उत्तरामुख उत्सङ्गः पूर्णबाहुश्च पूर्वतः ।
अपरे हीनबाहुश्च प्रतिकायस्तु दक्षिणे ॥
सृष्टिप्रवेश उत्सङ्गः प्रतिकायोऽपसव्यतः ।
पूर्णबाहुः पूर्ववक्त्रो वामास्यो हीनबाहुकः ॥
वामभागे दिशि दिशि वामावर्तोद्भिवास्तु ये ।
द्वारं च दक्षिणावर्तं कथितं त्वपराजित ॥
एकपोल्यं त्रिपोल्यं वा पञ्चपोल्यमथोच्यते ।
एवंविधः प्रकर्तव्यः पोल्यानां तु समुच्चयः ॥

v1.c66.42

एकपोल्यं वक्त्रद्वारं त्रिपोल्यं भ्रमणाद्वयम् ।
पञ्चपोल्यं तु चित्राढ्यं कर्तव्यं सर्वकामदम् ॥
प्राकारादियुक्तभागैर्विस्तरो भागषट्कृतः ।
निर्गमश्च चतुर्भागैः प्राकारो यत्र वाञ्छितः ॥
याम्यपार्श्वे समस्तत्र विस्तरस्तु त्रिभागिकः ।
निर्गमश्च त्रिभागैश्च संक्षेपात्कथितं मया ॥
त्रिभागं दक्षिणे त्यक्त्वा द्विभागं च तथोत्तरे ।
शेषा प्रतोली चैकांशा भागं दक्षिणभित्तिका ॥
भवेत् भागोत्तरा भित्तिः कर्णान्ते वलगं त्रिभिः ।
दक्षिणे भित्तिपार्श्वेऽग्रे कर्णान्ते वलगं त्रिभिः ॥
द्विभागं विस्तरं कुर्याद् वक्त्रमार्गप्रवेशनम् ।
एकपोल्यमिति ख्यातं संक्षेपात्कथितं मया ॥
वामे द्विभागविस्तीर्णे अपरे दशभागिके ।
दक्षिणे समभागश्च चतुर्भागं परे हितम् ॥
त्रिभागे विस्तरं याम्ये अपरेऽस्य तमपदम् ॥
याम्ये कुर्याच्च वेदांशं मूलद्वारं तु कारयेत् ।
चतुर्भागाग्ररभणं भागा भित्तिर्याम्योत्तरे ॥
भागा भित्तिस्तदग्रे च समद्वारं सतोरणम् ।
पुनर्भ्र मश्चतुर्भागः षड्भागश्चैव विस्तरे ॥
विधेयं पूर्ववच्छेषं त्रिपोल्यं नाम शोभनम् ।
यथा वामे तथा दक्षे भित्तिर्भागा भुजान्ततः ॥
मध्यभित्तिर्यथा पूर्वं चतुष्काकृति तोरणे ।
द्वारं द्वारस्य सूत्रेण भागिको भित्तिविस्तरः ॥
पुनरन्ते चान्तरे च द्वारं द्वारतृतीयकम् ।
तद्गतुल्यानि क्षेत्राणि कार्याणि शोभनानि वै ॥
पूर्वद्वारानुक्रमेण उभे द्वारे याम्योत्तरे ।
वक्त्रद्वारं पुनस्त्वेवं कर्तव्यं दक्षिणोत्तरे ॥
पञ्चपोल्यमिदं ख्यातं प्राकारः कपिशीर्षतः ।

v1.c66.43

राजालयं च कथये प्रतापकीर्तिवर्धनं ॥
लक्षणं चोच्छ्रयं भूमेर्हस्तसङ्ख्याप्रमाणकम् ।
एकच्छत्रप्रभोक्ता यः स भवेच्च महीपतिः ॥
अष्टोत्तरशतहस्तैः कार्यं भवनमुत्तमम् ।
पृथिव्याश्च यदा राजा भुङ्क्तेऽर्धं परमेव च ॥
तस्य वेश्म प्रकर्त्तव्यं शतं हीनकरद्वयम् ।
तथा महीत्रिभागं च भुङ्क्ते यो वै नराधिपः ॥

v1.c66.44

अष्टाशीतिकरं वेश्म महीशानां त्रिधा मतम्।
लक्षग्रामाधिपो यस्तु स महामण्डलेश्वरः॥
तस्य वेश्म प्रकर्त्तव्यं द्विहीनाशीतिहस्तकम्।
लक्षार्धं यस्तु भुङ्क्ते स मण्डलीकोऽभिधानतः॥
अष्टषष्टिकं तस्य कर्त्तव्यं भवनोत्तमम्।
अयुतद्वयग्रामेशो महासामन्तसंज्ञकः॥
तस्य वेश्माष्टपञ्चाशत्-करं कामफलप्रदम्।
सामन्तसंज्ञकः सोऽत्राऽयुतग्रामाधिपश्च यः॥
अष्टचत्वारिंशद्धस्तं भवनं सर्वशोभनम्।
ईशोऽयुतार्धग्रामाणां लघुसामन्तसंज्ञकः॥
अष्टत्रिंशत्करैर्युक्तं भवनं तस्य कामदम्।
सहस्त्रमेकं ग्रामाणां भुङ्क्ते स चतुरंशिकः॥
वेश्माष्टाविंशतिकरं कुर्याच्छान्तिकरं सदा।
ग्रामाणां विंशतिं भुङ्क्ते यः पञ्चदशकं तथा॥
ग्रामांस्त्रीन्द्वौ तथा चैकं भुङ्क्ते पर्यायसंस्थितः।
शतमेकं तु ग्रामाणां स्वल्पराष्ट्रं तु संज्ञितम्॥
अष्टादशकरं वेश्म कर्तव्यं सर्वकामदम्।
अष्टादशकरमध्ये ताः कर्तव्याः क्रमेण तु॥
सोपानपङ्क्तिमर्यादा कथिता त्वपराजित।
राजालये च यन्मानं तदर्धं दण्डनायके॥
तदर्धं मन्त्रिसंस्थानं मन्त्यर्धं द्वारपालके।
पुरोहिते तत्समं च तदर्धं जनसंकुले॥
अनुक्रमादिकं सर्वं ज्येष्ठमध्यकनिष्ठकम्।
अष्टहस्ते त्वेकभूमं द्विभूममष्टादशके॥
त्रिभूममष्टाविंशत्याऽष्टत्रिंशद्भिर्वेद्भूमम् ।
अष्टचत्वारिंशद्भिः पञ्चभू षड्भ्वमष्टपञ्चाशद्भिः॥
अष्टषष्ट्या सप्तभूममष्टम्वष्टसप्ततिभिः।
अष्टाशीत्या नवभूमं दशम्वष्टनवतिभिः॥
भद्रमेकादश भूममष्टोत्तरशतात्मके।
सिंहद्वारानुक्रमं च कथये त्वपराजित॥
द्वारत्रयन्तूत्तमे च कर्त्तव्यं चक्रवर्तिभिः।
उत्तमं पञ्चदश च मध्यमं च त्रयोदश॥
कनिष्ठं रुद्रहस्तान्तमुच्छ्रयेण तु योजितम्।
इदं सिंहद्वारमानं त्रिधा स्याच्चक्रवर्तिनि॥
राष्ट्रेश्वरे राज्ञि महामण्डलिकेश्वरे।

v1.c66.45

चक्रवर्तिनि मध्याधे कनिष्ठे मण्डलेश्वरे ॥
अनन्तरं च कथ्येत सिंहद्वारे यथाक्रमः।
द्वारयुग्मं तु कर्त्तव्यं महासामन्तके सदा ॥
द्वारमेकं तु कर्त्तव्यं तथा सामन्तकादिके।
अन्येषां स्वल्पराज्यानां ये स्मृताश्चान्यसंज्ञकाः ॥
तेषां च तोरणं दद्यात् सिंहद्वारविवर्जितम्।
स्तम्भयुग्मं त्वाच्छाद्यं सिंहकर्णैर्विभूषितम् ॥
नपुंसकौः विना कर्णैः स्वल्पराजेषु भाषितम्।
स्तम्भयुग्मोर्ध्वतः कुर्यात्पत्रमालात्रयं तथा ॥
विप्रेषु क्षत्रियोक्ताश्च मालायुग्मं च वैश्यके।
एकमाला तु शूद्राणां स्तम्भोर्ध्वं वंशकोच्छ्रिताः ॥
वंशोच्छ्रिता विना स्तम्भैः प्रकृतीनां च सर्वशः।

v1.c66.46

प्रविभाजितपदे निविष्टमार्गे प्रविभक्ततत्तज्जातिवर्णाधिवासे प्राकारपरिखादिसुगुप्ते मुनिविष्टारामोध्वाने च पुरनिवेशे केषाञ्चन जनभवनानामपि निवेशाः बाढमपेक्ष्यन्ते तेषु केचन यथाः—

v1.c66.47

प्रासादे भवने पुर्यां ग्रामे वा शुभवास्तुके।
विद्याशालामेकशैलीमेकसूत्रप्रमाणकाम् ॥
समानकल्पनयुतां नानाभौमाम प क्वचित्।
वासत्रायणंदारयुक्तां कल्पयेत्क्षेमसिद्धये ॥
मध्यम्यनाधिका चान्तःशाला चत्वरशोभिनी।
चतुर्दिग्द्वारसंयुक्ता चतुःकल्पनशोभिनी ॥
नानावरणसंयुक्ता तलपञ्चकभासुरा।
सुपिराख्या स्तम्भयुता समकल्पनभासुरा ॥
शालामण्डपभेदेन द्विधाऽधिष्ठानभाक् तथा।
दृढभित्तिसमायुक्ता वातायनशतान्विता ॥
महाशाला वहिः स्थाप्या द्वारभागे विशेषतः।
मिथो द्वारसमोपेता मध्यशाला प्रकीर्तिता ॥
वास्तुभेदेन तद्दारं प्रविभज्य विशेषतः।
पृष्ठवेदिसमायुक्तां कल्पयेन्नगरोत्तमे ॥
छात्रशालान्वितां मध्ये वादस्थानसमन्विताम्।
परीक्षास्थानसंयुक्तां व्लृप्तताभ्यासमृद्वां तथा ॥
नानाभेदयुतां भूपो राजधान्यां प्रकल्पयेत्।
विमानशिखरोपेतां नानाचित्रमोद्दगाम् ॥
सर्वालंकारसंयुक्तां पूर्वमण्डपशोभिनाम्।

v1.c66.48

सह मङ्गलघोषेण लोकक्षेमाय भूपतिः ॥
स्थापयेच्छिल्पिभिर्विद्याशालां शुभमुहूर्तके ।
प्रासादस्य पुरोभागे स्वास्थानस्य तु दक्षिणे ।
मन्त्रिसेनेलभवनपार्श्वे वा पुरमध्यमे ॥
मध्यसद्मसमीपे वा मेलनस्थानकेपिवा ।
राजवीथीमुखान्ते वा शृङ्गाटकतलेऽथवा ॥
रङ्गशालां गीतिशालां मिलितां स्थापयेद् बुधः ।
देवगन्धर्वमानुष्यभागत्रयविभाजिताम् ॥
गीतिशाला नाट्यशाला पृथक्स्थाप्या क्वचित्स्थले ।
चतुर्दण्डं समारभ्य द्विदण्डविवर्धनात् ॥
विंशद्दण्डान्तकं मानं प्रतिभागं विधीयते ।
राजधान्यां क्वचिद्भागे मानाधिक्यन्तु मानुषे ॥
अथवा यद्द्विगुणितं मानं वा नेयमीरितम् ।
अथवा मण्डलं भागं मानुषं कल्पयेद्बुधः ॥
अथवाऽऽवरणस्थानात्क्वचिद्भौमादिभेदतः ।
पार्श्वार्ङ्गस्थापनार्द्धा महिष्याद्यवलोकनम् ॥
यथा स्फुटन्तु सर्वेषां तथैतत्कल्पनं वरम् ।
महाधिष्ठानसंयुक्तं नेत्रत्रयसमन्वितम् ॥
कल्पनं सुखदं नृणां देवाद्यानन्दवर्धकम् ।
दैवेऽलङ्करणं शस्तं गान्धर्वे गानमीरितम् ॥
मनुष्यभागे स्थानानि कथितानि सभासदाम् ।
मनुष्यभागस्य पुरः स्थानं वैरिञ्चमीरितम् ॥
ब्रह्मद्वारन्तु तत्रस्थमखण्डानन्दवर्धकम् ।
द्वारोत्सेधसमं श्रेष्ठं चतुरंशविहीनकम् ॥
मध्यमे द्वित्रिभागे च कन्यसंवृषभोदयम् (?) ।
गर्भार्धकस्य तद्द्वारन्यासम्त्र प्रकीर्तितम् ॥
रङ्गवेद्या समायुक्तं स्थलमेतन्निगद्यते ।
गायकानां स्थानकं वा निस्साणातोद्यभूमिकम् ॥
तदन्तरेऽष्टभागं वा नवभागमथापि वा ।
विभजेत्तत्र मानज्ञः कल्पयेत्सदनं दिशि ॥
पञ्चादशकरं तुङ्गमेकांशं मात्रमीरितम् ॥
पञ्चाष्टाङ्गुलमायाममेवं तन्मानमीरितम् ।
सव्ये नटीनां वस्त्रादीनितरस्मिन्नटस्य च ॥
शाला वा कूटका वापि पूजोपकरणार्हका ।
शालाकृतिः प्रकर्तव्या पुरतो नान्दिकोचिता ॥

v1.c66.49

तत्पुरः सदनं तुङ्गं नानाभौमयुतं महत् ।
चतुर्दण्डं पञ्चदण्डमथवा दशकावधि ॥
मानमत्र प्रयोज्यन्तु तक्षकैः कल्पनार्हकम् ।
मध्यभागं विशालं च नानाङ्गणविराजितम् ॥
विमानशिखरोपेतं कर्णनासाविभूषितम् ।
तुङ्गस्तम्भशतैर्युक्तमशीतिस्तम्भकं तु वा ॥
चतुष्षष्टिस्तम्भयुतमथवैतत्प्रकल्पयेत् ।
शालाकारमिदं प्रोक्तं राजवेश्मनि मण्डपम् ॥
वदन्ति मुनयश्शस्तं ज्ञानानन्दकरं परम् ।
मणिदर्पणशोभाढ्यं वातायनशतान्वितम् ॥
तोरणादीनि चित्राणि तत्र तत्र प्रकल्पयेत् ।
विधातारञ्च वाणीं च गीतिशास्त्रप्रवर्तकाम् ॥
विद्याधरीं जगद्धात्रीं कल्पयेच्चन्द्रसूर्यको ।
द्वारपार्श्वस्थले योधं स्थापयेद् खङ्गधारिणम् ॥
चामरग्राहिणीं दिव्ययोषितं चाऽत्र कल्पयेत् ।
लक्ष्मीसुमां शिवां दिव्यगायकान्वा प्रकल्पयेत् ।
पार्श्वभित्तिसमायुक्तामङ्गणाङ्गणकल्पनाम् ॥
सुधिरद्वारभागाढ्यामाप्तपङ्क्तिक्रमं तथा ।
कल्पयेल्लक्षणोपेतैः नानाचित्रादिभिर्युताम् ॥
क्वचिदुद्यानवापीं वा सुखदां शुद्धवास्तुकाम् !

v1.c66.50

देवानां च पितॄणां च गोसेवाऽऽनन्दकारिणी ।
गोभिस्स्वर्गफलं विन्दन्मोदते दिवि मानवः ॥
गोभिरेव सुखं पुंसां जायते नात्र संशयः ।
तस्मात्स्थपतिभिस्स्थाप्या गोशाला शुभवास्तुके ॥
चतुर्थभागसीमान्ते निष्कुटाराममध्यमे ।
शोषे वा भृङ्गराजे वा पश्चाद्भागस्थलेऽथवा ॥
कल्पनेन समायुक्तं वियुक्तं वाऽथ कल्पयेत् ।
गोशाला मण्डपाकारा पार्श्वारङ्गणसमन्विता ॥
कूटकारा क्वचित्कार्या सपादा वा विपादका ।
सार्कप्रभा सावरणा हेमन्तादौ सुखप्रदा ॥
समसूत्रसभायुक्ता महाद्वारक्रियान्विता ।
सुधीरभागद्वारा वा सुखकल्पयुता क्वचित् ॥
सोपानद्वययुक्ता वा त्रिसोपाना क्वचिन्मता ।
नानाङ्गणविभक्ता वा नानारज्जुस्थलन्विता ॥
पञ्चालपट्टिकोपेता सुखनेदिकया युता ।

v1.c66.51

पञ्चकट्यसमोपेता नातिश्लक्ष्णा न कर्कशा ॥
चिक्कणैरिष्टिकाखण्डैः पाषाणैर्वा क्वचित्स्थली।
भूमिका कल्पनीयोऽत्र गोशालायां विशेषतः॥
मध्यचत्वरयुक्ता वा चत्वरानेकमण्डिता।
कल्पनीया विशालान्तर्भागिका रेखणान्विता ॥
वाजिशालाप्रमाणा वा क्वचित्कार्या नृपालये।
मुखाङ्गणसमोपेता मुखनासादिभूषिता ॥
कण्डूपट्टिकयोपेता .क्वचित्कार्या प्रकल्पना।
नातिनिम्नोन्नतस्था च न कण्टकमहीरुहा ॥
न जलस्रावकण्ठा च गोशाला ॰शुभदा मता।
मुखे वा द्वारपट्टे वा गोदेच्याकारकल्पनम् ॥
वंशशालां शावल्कां सौधकल्पयुतान्तु वा।
सुकल्पनं गवां क्षेमकारणं परिकीर्तितम् ॥

v1.c66.52

बालानां बालिकानां च युवतीनां विशेषतः।
शुद्धान्तसुन्दरीणां च चित्तहर्षाभिवृद्धये ॥
कल्पनं विविधं कार्यं स्थलजात्यादिभेदतः।
शुकानामपि कीराणां मयूराणामपि क्वचित् ॥
हरिणानां च वत्सानां लाल्यलीलादिनामपि।
शाला तु विविधा स्थाप्या लोहदारुसुधेष्टिकैः ॥
शुकानां पञ्जरः कुन्दा हरिणानां निगद्यते।
वत्सादीनां शालका च त्रैविध्यं मुख्यमीरितम् ॥
लोहदण्डं दारुदण्डं शृङ्खलान्वितमेव वा।
बहुरन्ध्रं सकटकं पञ्जरं कल्पयेद्बुधः॥
लोहदण्डमयी प्रायः कुन्ददारुमयी क्वचित्।
क्वचिच्छिलानुन्मयी सगवाक्षसतोरणा ॥
क्षुद्रशाला क्वचित्कार्या वत्सादीनां शुभे ॰स्थले।
नानाङ्गणसमोपेतशाला वाऽथ भौमिका ॥
सतोयपात्रा साधारा मध्यशृङ्खलिकान्विता।
वातायनस्थलकृता भीकैश्च विवर्जिता ॥
बहिः खेलनभूम्या वा शालया वा समेयुषी।
चतुर्दण्डाधिकोन्नत्या पटल्य्रा च विभूषिता ॥ -
कल्पनान्तरमूह्यैवं स्थाप्यं शिल्पविशारदैः॥

v1.c66.53

सर्वत्र मार्गभागेषु कल्पनं ॰भयनोदकम्।
सायुधानां भटानां च स्थितिधैर्यप्रदायिनी ॥
तस्मात्तत्कल्पयेच्छिल्पी क्रोशमात्रस्थलादिषु।

v1.c66.54

श्रान्तानां पथिकानां च विश्रान्तिस्थानकैर्युतम् ॥
दृढनष्टटकल्पं वा दृढकूटप्रकल्पनम् ।
द्विदण्डकल्पकं वापि नानातलसमन्वितम् ॥
त्रिभूमिनिगोपुरं वापि पञ्चभूतोपुरन्तु वा ।
सप्तभूमोगोपुरं वापि पृथुस्तम्भयुतन्तु वा ॥
योजयेत्कल्पविच्छिल्पो दृढं सुव्यक्तकल्पनम् ।
देवगन्धर्वभूपालचित्रभासुरकुड्यकम् ॥
नानाङ्गणसमोपेतं नानापङ्क्तिविराजितम् ।
मध्यचत्वरयुक्तं वा सविमानतलं क्वचित् ॥
लभ्ये लभ्येतरे भागे कण्ठालस्थापनं वरम् ।
वटोऽश्वत्थो नारिकेलः पनसस्सहकारकः ॥
वर्धनीयाः कुन्दलताः पूगना रङ्गभूर्जगाः ।
पुन्नागश्चापि नागाश्च निष्कुटार्हाः क्वचित्स्थले ॥
जलाशयः पल्वलश्च कर्तव्यः पृथुवारकः ।
वाहस्थानं वृषस्थानमन्तिके कारयेद्बुधः ॥
क्वचित्तु मदिरागेहं प्राणिनां सुखदायकम् ।
तृणस्थानमन्यान्यच्च कल्पयेत्क्रोशमात्रके ॥
पूर्वापरगृहद्वारयोरधस्थानं प्रकल्पयेत् ।
द्वारालङ्करणं कार्यमन्यच्च शुभदर्शनम् ॥
चतुर्वर्गप्रदीपाख्यं पञ्चगेहसमन्वितम् ।
तोरणैश्चित्रकैर्युक्तं मार्गद्वारप्रकल्पनम् ।
स्थापयेत्कल्पनां युक्त्या प्राणिनां सुखदायकम् ॥

v1.c66.55

यत्र स्वादुजलस्रावः सन्ततं स्थितिमाप्नुयात् ।
परीक्ष्य तत्र कर्तव्यं वापीकूपादितं मतम् ॥
चतुरश्रां वर्तुलां वा दीर्घां वा तां प्रकल्पयेत् ।
त्रिदण्डं वा चतुर्दण्डं पञ्चदण्डमथापि वा ॥
षडादिदशदण्डान्तं प्रमाणमिह योजयेत् ।
चतुर्मुखां वा द्विमुखां क्वचिदेकमुखां तु वा ॥
दशहस्तप्रमाणं वाऽधिकं वा तलमध्यभाक् ।
भित्तिकल्पनमत्रोक्तमैष्टिकं शैलकं तु वा ॥
जालान्विकेऽङ्गणं कल्प्यमाद्यमेतदुदीरितम् ।
द्वितीयाङ्गणकं वापि तृतीयाङ्गणकं तु वा ॥
सपादं वा विपादं वा युक्त्या स्थापनमीरितम् ।
कल्पनं दार्व्यसंयुक्तं पादसोपानसञ्चलम् ॥
मुण्डमण्डपयुक्तं वा कवाटादिसमन्वितम् ।

v1.c66.56

वाप्यां वर्तुलरूपायां भुजङ्गावेष्टनाकृति ॥
पङ्किं दृढां वा रचयेदथवा सूत्रपङ्क्तिकम्।
चतुर्विंशत्यङ्गुलेन विहीनं नेष्यते बुधैः ॥
घटीयन्त्रस्थलं तीरे रचयेत्साङ्गणं बुधः।
अवगाहतलोपेतद्वारकिन्नररूपकम् ॥
कल्पनं देवमूर्तीनामथवा संप्रयोजयेत् ।

v1.c66.57

तटाककल्पनाच्छ्रेयः प्राणिनां च सुखं मतम्।
तस्मात्तत्कल्पयेद्धीमान्ग्राममध्ये शुभस्थले ॥
मार्गस्य मध्यभागे च वास्तुभूमौ विशेषतः।
सततं स्वादुसलिलस्रावो यत्र च दृश्यते ॥
अन्तःकूपसमायुक्तं दक्षिणोत्तरदैर्घ्यकम्।
वरुणेन्द्रदिशाभागस्थायि वा स्थलयोग्यकम् ॥
तटाकनाम्ना भणितं महत्खातं हितप्रदम्।
निष्पङ्कागाधसलिलं पूरयेद्वा क्वचित्स्थलम् ॥
जलनिर्गमनोपेतमागमायनसंयुतम् ।
भान्वङ्गुलोन्नता पङ्किर्द्विगुणायतिका मता ॥
मध्ये महापङ्क्तियुक्तमृजुसूत्रे च निश्चलम्।
तीरमण्डपसंयुक्तं तीरव़ृक्षैश्च शोभितम् ॥
जलमण्डपसंयुक्ता क्वचित्कार्योत्तमे ।
दैवे तटाके तत्कल्प्यं विमानशिखरोज्ज्वलम् ॥
खण्डपङ्क्तिः क्वचित्कार्या तटाकेषु सरस्सु च।
मेदिनीपटिकोपेता जलं सर्वत्र कल्पयेत् ॥
रेखारूपं मीनरूपं लतारूपं च तक्षयेत्।
भूर्जपत्रक्षेपशं वा नानावर्णसमन्वितम् ॥
वानरक्रीडनं वापि तक्षयेत्सुमनोहरम्।
क्वचिदष्टमुखोपेतं तटाकं बहुपङ्क्तिकम् ॥
स्थापयेन्नृपतिर्देशे प्राणिनां सुखदायकम् ॥

v1.c66.58

श्रीमुखो विजयः प्रान्तो दुन्दुभिश्च मनोहरः।
चूडामणिश्च दिग्भद्रो जयो नन्दश्च शङ्करः ॥
चतुर्हस्तः श्रीमुखः स्याद् विजयः पञ्चहस्तकः।
षड्भिर्हस्तैर्भवेत् प्रान्तो दुन्दुभिःसप्तहस्तकः ॥
मनोहरश्चाष्टहस्तंश्चूडामणिर्नवकरः ।
दिग्भद्रो दशहस्तश्च ह्येकादशकरो जयः ॥
नन्दे च द्वादशकराः शङ्करेच त्रयोदश।
एवमादिगुणोपेता वृत्तकूपां दशोत्तमाः ॥

v1.c66.59

भवन-सज्जा

v1.c66.60

सर्वजनोचित-शयनासनादि—शयनानिः—

v1.c66.61

गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः ।
हेम्ना रूप्येण चानद्धा गजदन्तेन वा शुभा ॥

v1.c66.62

आरकूटेन वा नद्धा शय्या कार्या विचक्षणैः ।
श्रेष्ठैकद्रव्यजा शय्या मिश्रद्रव्या न शस्यते ॥
एकदाहं प्रशंसन्ति द्विदारुर्भयमावहेत् ।
त्रिदारुघटितायां तु स्वामिनो नियतो वधः ॥
शय्यायां जायते यस्मात् तस्मात्' तांपरिवर्जयेत् ।

v1.c66.63

मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः ॥
क्लेशावहश्चतुर्भागे शिरस्थो द्रव्यहानिकृत् ।
निर्दोषगात्रे पर्यङ्के पापस्वप्नो न दृश्यते ॥
ग्रन्थिकोटरवत् कुर्यात् तस्मान्न शयनासनम् ।
आसनं शयनीयं च ग्रन्थिकोटरवजितम् ॥
बहुपुत्रकरं प्राहुर्धर्मकामार्थसाधनम् ।

v1.c66.64

आरोहणे 'प्रचलति शयने कम्पते तथा ॥
विदेशयानकलहौ ते क्रमेण प्रयच्छतः ।
सुश्लिष्टां तामतः कुर्यान्निर्दोषों वर्णशालिनीम् ॥
दृढां स्थिरां च स्थपतिः पत्युः कामविवृद्धये ।

v1.c66.65

निष्कुटं कोलदृक् क्रोडनयनं वत्सनाभकम् ॥
कालकं वन्धकं चेति छिद्रसंक्षेप ईरितः ।

v1.c66.66

आसनानि—

v1.c66.67

शय्यार्थे कथितैः क्लृप्तं दारुभिः शस्तमासनम् ।
उपवेशसुखं मानं प्रशस्ताय प्रकल्पितम् ॥

v1.c66.68

गजदन्तमयः श्रेष्ठस्तथा शालोटवृक्षजः ।
मध्यमो दारुभिः शेषैर्जघन्यो सारदारुजः ॥
रूपकैः स्वस्तिकाद्यैर्वा स मध्ये स्यादलङ्कृतः ।

v1.c66.69

अङ्गुलेनाधिके पादात् कार्ये दैर्घ्येण पादुके ।
कृतायां पञ्चधा तस्यां कुर्याद् भागत्रयं पुरः ।

v1.c66.70

पश्चांङ्गु भागद्वयं तत्र सङ्ग्रहोऽस्या विधीयते ॥
अङ्गुलत्रयमुत्सेधो विस्तारोऽङ्गुष्ठानुसारतः ।
अङ्गुल्यङ्गुष्ठयोर्मध्यभागे मत्स्याद्यलङ्कृतौ ॥
कर्त्तव्यौ कीलकौ काष्ठदन्तशृङ्गादिसम्भवौ ।
गजेन्द्रदन्तः श्रीखण्डश्रीपर्ण्यो मेषशृङ्गिका ॥
शस्ताः पादुकयोः शाकक्षीरिणीचिरबिल्विकाः ।

v1.c66.71

नित्यार्चनासनं चैव नित्योत्सवासनमीरितम् ॥
विशेषाख्यार्चनार्थाय विशेषाख्यार्चनासनम् ।
चतुर्विधासनं प्रोक्तं देवानार्माप योग्यकम् ॥
आदौ पद्मासनं प्रोक्तं द्वितीयं पद्मकेसरम् ।
तृतीयं पद्मभद्रं स्याच्छ्रीभद्रं स्याच्चतुर्थकम् ॥
पञ्चमं श्रीविशालं स्यात्षष्ठं श्रीबन्धमेव च ।
सप्तमं श्रीमुखं चैव भद्रासनं तु चाष्टकम् ॥
नवमं पद्मं च भद्रं स्यात् दशमं पादबन्धकम् ।
आसनानां तु चैतानां नामानि कथितानि वै ॥

v1.c66.72

तैतिलाश्च नराश्चैव यस्मिन्यस्मिन् प्रतिष्ठिताः ।
तद्वस्तु सूरिभिः प्रोक्तं तथा वै वक्ष्यतेऽधुना ॥
धराहस्यादि यानं च पर्यङ्कादि चतुर्विधम् ।
धरा प्रधानवस्तु स्यात्तत्तज्जातिषु सर्वशः ॥
विमानादीनि वास्तूनि वस्तुतः वस्तुसंश्रयात् ।
तान्येव वस्तु चैवेति कथितं वास्तुविद्बुधैः ॥
प्रासादमण्डपं चैव सभाशालाप्रपास्तथा ।
अरङ्गमिति चैतानि हर्म्यमुक्तं पुरातनैः ॥
आदिकं स्यन्दनं शिल्पिन् शिविका च रथं तथा ।
सर्वं यानमिति ख्यातं शयनं वद्यते तथा ॥
पञ्जरं मञ्जली मञ्चं काकाष्टं फलकासनम् ।
तथैव बालपर्यङ्कपय्यंङ्कमिति कथ्यते ॥
कुम्भपादमिति प्रोक्तं तस्मादुच्चं प्रवेशनम् ।
तदेव हरिकाकर्णे सर्वाङ्गं पद्मवाजनम् ॥
वज्रपादमिति प्रोक्तं युक्त्या कुर्यान्मनोहरम् ।
अथवा मध्यकर्णौ चोर्ध्वादी पद्मवाजनम् ॥
पद्मपादमिति प्रोक्तं सर्वालङ्कारसंयुतम् ।
चतुः षट्पाद्युक्तं वा देवानां च द्विजातीनाम् ॥
देवानां भूतसिंहं वा पादमध्ये प्रयोजयेत् ।
नृपाणां सिंहपादं स्यात् शेषाणां पूर्ववद्भवेत् ॥

v1.c66.73

देवानां चक्रवर्त्यादिनृपावासकयोग्यकम् ।
सिंहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ॥
प्रथमाभिषेकयोग्यं स्यात्प्रथममासनमेव च ।
मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥
वीरात्वाभिषेकस्य च वीरासनमुदीरितम् ।
विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥
एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत् ।
अस्त्रग्राहस्य नृपतेः सिंहपादं न कारयेत् ॥
क्षुद्रभूपविशां शूद्रैः उपपीठादि योजयेत् ।
चतुरस्रसमायुक्तं सर्वेषां सर्वमासनम् ॥
देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ।
प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम् ॥
षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ।
तत्सर्वं प्राङ्मुखं कुर्याद्विपरीतं चेद्विनाशनम् ॥

v1.c66.74

तोरणं त्रिविधं ज्ञेयं मकरं चित्रपत्रके ।
देवद्विजनृपाणां तु शस्तं मकरतोरणम् ॥
विशां तु चित्रसंज्ञं स्याच्छूद्राणां पत्रतोरणम् ।
पार्श्वयोः पृष्ठतश्चापि प्रकुर्यात् कुड्यतोरणम् ॥
प्रतेरुत्तरसीमान्तं तोरणोदय ईरितः ।
तदर्धेनास्य विस्तारस्तद्व्यासेऽथ शरांशके ॥
त्रिभिर्मकरयुग्मं स्यादंशाभ्यां पादयोः स्थितिः ।
यथा शोभान्तरं तत्र गुहावेशो भवेदपि ॥
अर्धन्दुसदृशैः पत्रैश्चित्रितं पत्रतोरणम् ।
नक्रयोर्वदनासक्तमध्यपूरिममण्डितम् ॥
चित्रतोरणमुद्दिष्टं मध्यपूरिमपार्श्वयोः ।
विगृह्य मकरस्योत्थरत्नमालावरोपितैः ।
भूतविद्याधरव्यालयसिंहाश्चारूढबालकैः ॥
विलम्बितं तूभयतो भवेन्मकरतोरणम् ।
गुहासु तोरणानां तु यथार्हं प्रतिमास्तथा ॥
न्यस्येन्नारीनरादींश्च यथाशोभं विचित्रतम् ।
हारासु वलभीमध्ये प्रमाणभवनेऽपि वा ॥
कुड्येषु तोरणानि स्युस्तत्कुड्यं पञ्चधा स्मृतम् ।
शिलामयं चैष्टकं च जालकामयमित्यपि ॥
फलकामयमप्यन्यं मृन्मयं चापरं क्रमात् ।
यथार्हन्यासयुक्तं तत् कुड्यं शैलं शिलामयम् ॥

v1.c66.75

नानाजालकनिष्पन्नं कुड्यं यज्जालकामयम्।

v1.c66.76

यथाईस्तम्भविन्यासं शस्तदारुप्रचक्रियम्। फलकाभिश्चतं मध्ये कुड्यं स्यात् फलकामयम् ॥ मृत्तिकाभिः प्रशस्ताभिः कषायसलिन्नादिभिः। मर्दिताभ्युषिताभिश्च चितं कुड्यं तु मृन्मयम् ॥ कुड्यव्यासत्रिदेवांशबहलां वाग्रपङ्कजाम्। पट्टिकां चतुरश्रां वा कुड्योपरि नियोजयेत् ॥ स्तम्भान्तरं द्विहस्तादि भवेत् पञ्चकरान्तरम्। वितस्तिवृद्ध्या तन्मध्ये कार्या कुड्यलता त्रिधा ॥ कुड्यस्तम्भस्य विस्ताराद् द्विगुणं सार्धमुच्छ्रितम्। अधःपद्मासनं कुर्यात् तदूर्ध्वं च यथारुचि ॥ विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात्। पत्रैर्विनिर्गतैश्चित्रं यथाशोभं नियोजयेत् ॥ तदूर्ध्वं कुड्यकस्तम्भसमपादाम्बुजासनम्। अखण्डकलशं कुर्यात् पद्मकुम्भलतायुतम् ॥ सा तु कुम्भलता संज्ञा सैव खण्डोपरि क्रमात्। शक्रतोरणवन्यस्ता स्तम्भकुम्भलता मता ॥ कुम्भपद्मासनयुता सैव सर्वलत्वान्विता। पद्मकुम्भलता नाम विज्ञेया हि लता भवेत् ॥ तले तले विमानानां दिक्षु बेराणि विन्यसेत्। नन्दीश्वरमहाकालौ पूर्वद्वाराधिपौ न्यसेत् ॥ दक्षिणे दक्षिणामूर्तिं पश्चिमे लिङ्गसम्भवम्। विष्णुं वाप्यथ कौवेरे दुर्गां ब्रह्माणमेव वा ॥ मण्डपे मध्यपत्रे तु दक्षिणे च विनायकम्। उत्तरे नृत्तरूपं तु क्षेत्रेशं चैशगोचरे ॥ रुद्रावतारक्रीडादिकथारूपाणि चैव हि। मूलभित्तौ च परितो विन्यसेदुक्तलक्षणम्। अथोपरितलात् प्राच्यामिन्द्रं षण्मुखमेव वा ॥ दक्षिणे दक्षिणामूर्तिं वीरभद्रमथापि वा। पश्चिमे नरसिंहं चाप्युत्तरे चार्थदं विधिम् ॥ द्वितीये तु तले चैवं तृतीये तु मरुद्गणान्। तले तलेऽमरान् सिद्धान् यक्षविद्याधरानपि ॥ गन्धर्वांश्चाप्सरसः सिद्धान् नागांस्तथा मुनीन्। प्रमथांश्चैव दैत्यादीन् षोडश प्रतिमास्तथा ॥ कण्ठादधः प्रतेरूर्ध्वं कोणे कोणे वृषान् न्यसेत्।

v1.c66.77

सर्वेषामपि देवानां कोणे कोणे स्ववाहनम् ॥
कण्ठादधश्चान्त्यतले प्राकारादौ च विन्यसेत् ।
इत्येवमादिभियुक्तं विमानं सम्पदां पदम् ॥

v1.c66.78

गर्भाद्धंसमविस्तारा महानासाश्चतुर्दिशम् ।
तदर्द्धाद् वा त्रिपादाद् वा तासां निर्गम ईरितः ॥
क्षुद्रनासास्तदर्थाद् वा रामांशाद् वापि कारयेत् ।
नासिकानां तु करणमष्टाधोक्तं पुरातनैः ॥
सिंहपञ्जरमादौ स्यात् पञ्जरं चार्धपञ्जरम् ।
निर्यूहपञ्जरं चैव कथितं लम्बनासिकम् ॥
सिंहश्रोत्रं तथा खण्डनिर्यूहऋषपञ्जरम् ।
द्विदण्डादिचतुर्दण्डविस्तृतं शालयान्वितम् ॥
सूचिपादद्वयोपेतं श्लिष्टप्राकारनीप्रकम् ।
षड्वर्गसहितं व्याससमानिर्गममेव वा ॥
शक्तिध्वजयुतं चापि तथा सम्मुखपट्टिकम् ।
वेदिकाजालकस्तम्भयुक्तं स्यात् सिंहपञ्जरम् ॥
प्रासादनीप्रसंश्लिष्टस्वनीप्रादर्थनिर्गतम् ।
अधिष्ठानाङ्घ्रियुक्तं च प्रस्तरग्रीवसंयुतम् ॥
तद्वत् सशिखरं शक्तिध्वजसम्मुखपट्टिकम् ।
वेदिकाजालकर्णाढ्यं सार्धपञ्जरसंज्ञितम् ॥
प्राग्वच्छ्लेषं च विस्तारपादसम्मितनिर्गमम् ।
व्यासत्रिभागनिर्यूहं वृत्तस्फुटितकर्मवत् ॥
पञ्जराख्यं स्मृतं चाथ स्वतुल्यशिखराग्रकम् ।
श्लिष्टनीप्राङ्ककर्णं च कपोताद्यङ्गसंयुतम् ॥
निर्यूहपञ्जरं त्वेतल्लम्बनासिकमुच्यते ।
संश्लिष्टनीप्रकर्णाङ्घ्रि कृतनागदलाद्यपि ॥
निर्यूहसहितं युक्तसर्वाङ्गं लम्बनासिकम् ।

v1.c66.79

पत्रं पुष्पं च रत्नं च चित्रतोरणमेव च ।
एवं चतुर्विधं प्रोक्तं देवानां च त्रिमौलिनाम् ॥
अन्येषां भूपतीनां च पुष्पं रत्नं च तोरणम् ।
पत्रवल्ल्यादिभिः संभूष्य पत्र तोरणमीरितम् ॥
नानापुष्पैरलं कृत्य पुष्पतोराणमेव च ।
सर्वरत्नेरलं कृत्य कर्तव्यं रत्नतोरणम् ॥
नानालङ्कारसंयुक्तं यक्षविद्याधरादिभिः ।
तच्चित्रतोरणं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥
सर्वेषां तोरणमध्ये चोर्ध्वं तुम्बुरुनारदम् ।

v1.c66.80

तद्मदेशे द्विपार्श्वे तु मकरादिविभूषितम् ॥
तोरणस्याग्रमूले तु गृहा (ग्राह) पत्रैश्च भूषितम् ।
तोरणार्थं तु पत्रादिभूतवल्यासमान्वितम् ॥
पादानां च द्विपार्श्वे तु व्यालं तोरणधारिणम् ।
पत्रतोरणमित्युक्तं शेषं युक्त्या प्रयोजयेत् ॥
तदेव रत्नपुष्पैश्च नानालङ्कारसंयुतम् ।
यक्षविद्याधराद्यैश्च युक्तं स्याच्चित्रतोरणम् ॥
ग्राहकिन्नरीसंयुक्तं चित्रपङ्गादिभिर्विना ।
सर्वाङ्गं पुष्पसंयुक्तं सर्वालङ्कारसंयुतम् ॥
पुष्पंतोरणमित्युक्तं मकरन्दैश्च पुष्पकम् ।
सर्वाङ्गं नवरत्नैश्च ग्राहकिन्नरभूषितम् ॥
ग्राहपुच्छादिसर्वेषां सर्वरत्नेन बन्धयेत् ।
रत्नतारागणैर्युक्तं कुक्षिरावृत्तलम्बितम् ॥
तोरणस्योपरि देशे तु भुजङ्गपादद्वयोरपि ।
ग्रहान्तं सर्वरत्नैश्च पूरितं श्रेणिसंयुतम् ॥
रत्नतोरणमित्युक्तं सर्वालङ्कारसंयुतम् ।
वाजनपादालङ्कारं सर्वं प्रागुक्तवन्नयेत् ॥
तोरणंस्य कृतं मध्ये कमलं कुर्यात् तु वारणम् ।
तन्मध्ये कल्पयेल्लक्ष्मीं नानालङ्कारभूषिताम् ॥
ताटिकाफलकामुष्टिबन्धनं पत्रवल्लिकम् ।
मकरं किन्नरीवक्त्रं नाटकादौ भुजङ्गवत् ॥
केसरिमण्डनं भवति चित्रतोरणनाटकैः ।
पत्रपुष्पमयरत्नतोरणैः चित्रहीनमित्युच्चभूषणैः ॥
कल्पयेत्वपि च रत्नतोरणैः चित्रहीनमित्युच्चभूषणैः
कल्पयेत्वपि च तोरणैः पुष्पहीनमथ पत्रहीनकम् ॥
रत्नहीनमथ पत्रतोरणैः पद्मयुक्तमथ पुष्पतोराणैः ॥
पद्मपुष्पनहि ( हीनं ) चान्यभूषणं ।
कल्पयेत्वपि शिल्पिभिर्नरैः ॥

v1.c66.81

राज-भवन-सज्जा

v1.c66.82

यन्त्राणि

v1.c66.83

समराङ्गण-सूत्रधारात्—
यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना ।
नियम्यास्मिन् नयति यत् तद् यन्त्रमिति स्मृतम् ॥
तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोऽनिलः ।
आश्रयत्वेन चैतेषां वियदप्युपयुज्यते ।
स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम्
अन्यदन्तरितं वाह्यं वाह्यमन्यत् त्वदूरतः ॥
स्वयंवाहकमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् ।
तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ।
पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥
तदैव तेनोजजनितैस्तदेव मरुदुद्भवैः ।
आप्यमाप्यैस्तथा बीजैरानलैरानिलैरपि ॥
वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि ।
मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥
वह्निजातेऽपि बीजं स्यात् सूतः सोपि च वा(न ? नि) ले ।
पार्थिवानां भवेद् बीजमाप्यानामपि वा(रणे ? रुणम्) ॥
इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि ।
कु 'करणसूत्राणि भारगोलकपीडनम् ॥
लम्बनं लम्बकारे च चक्राणि विविधान्यपि ।
अयस्ताम्रं च तारं च त्रपु संविध्यमर्दने ॥
काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते ।
डर्दकः कर्तरी यष्टिश्चक्रं भ्रमरकस्तथा ॥
श्रृङ्कावली च नाराजः स्वबीजान्यौर्वरे विदुः ।
ताप उत्तेजनस्तोभः क्षोभश्च जलसङ्गजः ॥
एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते ।
धारा च जलभारश्च पयसो भ्रमणं तथा ॥
एवमादीनि भूजस्य जलजानि प्रचक्षते ।
यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥

v1.c66.84

अत्यन्तमूर्ध्वगामित्वं स्वबीजान्यन्यसस्तथा ।
मरुत् स्वभावजो गाढैग्राहकैश्च प्रतीप्सितः ॥
इत्याद्यैर्वीजनाद्यैश्च गजकर्णादिभिः कृतः ।
(छा?चा)शितो गालितश्चार्यं बीजं भवति भूभवे ॥
काष्ठं (भू?कृ) त्तिश्च लौहं च जलजे पार्थिवं भवेत् ।
अन्यदम्भस्तदप्यस्तु तिर्यगूर्ध्वमधस्तथा ॥
बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु ।
तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥
सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः ।
मरुद् बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥
वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे ।
पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥
वह्निर्गर्हे भवेद् बीजमोप आपस्तथा भवेत् ।
आद्यैर्हत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥
प्रत्येकं च जनकं प्रेरकं ग्राहकं तथा ।
सङ् ग्राहकं च भूजातं वीजं स्यादनिलोद्भवैः ॥
प्रेरणां चाभिघातश्च विवर्तो भ्रमणं तथा ।
जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥
सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि ।
प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥
प्रेरितः सङ्गृहीतश्च जनितंश्च समीररणः ।
आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥
भूतमेकमिहोद्रिक्तमन्यद्धीनं ततोऽधिकम् ।
अन्यद्धीनतरं चान्यदेवंप्रायैर्विकल्पितैः ॥
नाना भेदा भवन्त्येषां कस्तान् कार्त्स्न्येन वक्ष्यति ।

v1.c66.85

निष्क्रिया भूः क्रिया त्वंशं शेषेषु सहजा त्रिषु ॥
अतः प्रायेण सा जन्या चितावेव प्रयत्नतः ।
साध्यस्य रूपवशतः संनिवेशो यतो भवेत् ॥

v1.c66.86

यथावद्बीजसंयोगः सौश्लिष्टयं श्लक्ष्णतापि च ।
अलक्षता निर्वहणं लघुत्वं शब्दहीनता ॥
शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ।
वहनीषु समस्तासु सौश्लिष्टयं चास्खलद्गति ॥
यथाभीष्टार्थकारित्वं लयतालानुगामिता ।
इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्वसंवृतिः ॥
अनुल्वणत्वं ताद्रूप्यं दार्ढ्यं मसृणता तथा ।

v1.c66.87

चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः ॥
एकं बहूनि चालयेद् बहुभिश्चाल्येतऽपरम् ।
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ॥
अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ।
न विस्तारन्नसङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे ॥
कस्यचिद् सा क्रिया साध्या कालः कस्यापि कस्यचित् ।
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शो च कस्यचित् ॥
क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ।
तिर्यगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ॥
गमनं सरणं पात इति भेदा क्रियोद्भवाः ।
कालो मुहूर्त्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ॥
शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा।
उच्छ्रायस्तु जलस्य स्यात् क्वचिद् भूजेऽपि शस्यते ॥
गीतं नृत्यं च वाद्यं च पटहो वंश एव च ।
वीणा कांस्यतालश्च तृमिला करटापि च ॥
यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ।
समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् ॥
नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ।
राजमार्गेण देशी च यन्त्रात् सर्वं प्रसिध्यति ॥
तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातितः ।
ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ॥
भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमैः ।
चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ॥
जायन्ते यन्त्रनिर्मीणाद् विविधानोप्सितानि च ।
यथासुरा जिता देवैर्यथा निर्मथितोऽम्बधिः ॥
हिरण्यकशिपुर्देत्यो नृसिंहेन हतो यथा ।
प्लावनं हस्तियुद्धं च गजानामगडोडपि च ॥
नाना प्रकारा याश्चेष्टा नाना धारागृहाणि च ।
दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ॥
चित्रा सेना च कुट्यश्च स्वयंवाहकसेवकाः ।
सभाश्च विविधाकारा सत्या मायाः प्रकल्पिता ॥
एवं प्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ।

First 87 of 110 passages. Read on

Cites (3)