Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.35

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.35

Language
English

v1.c66.35

सार्णभौमादिभिर्भू पैर्मोदाय मधुसेवनम् ।
काले कार्यमिति प्रोक्तं तन्त्रविद्भिर्मु नीश्वरैः ॥
तस्मात्तत्कल्पयेत्पुर्यामुद्याने भवनान्तरे ।
परितस्तु चतुश्शालं जलकुम्भादिशीतलम् ॥
प्राङ्मुखं कल्पनं शस्तं तदेव प्रीतिदायकम् ।
चतुर्दण्डप्रमाणेन हीनं नोत्तममीरितम् ॥
चतुश्शालावृते मध्यभागे मण्डलकल्पनम् ।
विश्रान्तिवेदी तत्रैव गन्धशैत्यादिभासुरा ॥
चत्वरादिसमोपेता सालङ्कारा सतोरणा ।
मुखीकरणयुक्तं वा मण्टपाकृति वा भवेत् ॥
चतुर्द्वारसमोपेतं नानाजणसमन्वितम् ।
एकभौमयुतं भौमं त्रिभौमं सार्णभौमिकम् ॥
योषितां तु पृथक् शाला कल्पनीया विशेषतः ।
नानासनसमोपेता सुहृदादिविभेदतः ॥
शीतलै रुपचारैश्च मेदुरा दिशि सर्वतः ।
चतुर्दिक्षुमण्टपं पूर्णमन्दिरं वा प्रकल्पयेत् ॥
क्षुद्राधिष्ठानसंयुक्तं सोपानावलिमञ्जुलम् ।
आलोकमण्टपोपेतमथवा गीतिशालकम् ॥
सतटाकं विहरणस्थानञ्च परिकल्पयेत् ।