Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.4
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.4
- Language
- English
v1.c66.4
~~भूयदा~~ चतुरश्रा भूर्भूमिपानां विशेषतः ।
पुरस्य मध्यभागे वा निर्दिष्टे वा स्थलोत्तमे ।
भूपहर्म्यं प्रकर्तव्यं तल्लक्षणमनोहरम् ।
गभीरपरिखोपेतं द्वारोपद्वारशोभितम् ॥
चूलीहर्म्यैस्समायुक्तं पङ्क्तिशालाभिरन्वितम् ।
पञ्चाशद्दण्डमानाद्धि दण्डपञ्चशतावधि ॥
प्रमाणमिह निर्दिष्टं भूमिपालस्य मन्दिरे ।
अथवा भागमानेन कारयेन्नृपमन्दिरम् ॥
सूर्यैकं वास्त्वैकं वा तस्य मानमुदीरितम् ।
एकाननं वा द्विमुखं चतुराननमेव वा ॥
नैपे वा वह्निभागे वा मन्त्रिहर्म्यं प्रकल्पयेत् ।
आकाशे वाथ पवने सेनानाथस्य मन्दिरम् ॥
प्रासादभित्तिमभितो बहिर्वा तच्च कल्पयेत् ।
पुरोहितादिनिलयैस्सहितं वा विशेषतः ॥
द्वितीयावरणे वापि तृतीयावरणेऽपि वा ।
भूधरे रुद्रके भागे न्यायशाला विधीयते ॥
ईशाने देवतागारं सावित्रे कोशमन्दिरम् ।
मित्रभागे प्रहरणस्थानमुक्तं मुनीश्वरैः ॥
मध्यभागे राजवेश्म नवसौधतलावधि ।
नानाशालासमोपेतं कूटकोष्टाद्यलङ्कृतम् ॥
शिखरावलिसंरुद्धं कल्पनाशतशोभितम् ।
वातायनशतोपेतं मध्यचत्वरमण्डितम् ।
पाञ्चाली मागधी चान्या शौरसेनी च बाह्रिकी ।
कौसली चापि कालिङ्गी द्राविडीति क्रियाकला ॥
प्रसिद्धा शिल्पकार्येषु कल्पनाशतशोभिनी ।
देशभेदेन भूपालः स्वेच्छया तां समाश्रयेत् ॥
सोमे वा इन्द्रके भागे भोजनागारमीरितम् ।