Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.41
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.41
- Language
- English
v1.c66.41
प्रतोलीश्च प्रवक्ष्यामि कनिष्ठमध्यमोत्तमाः ।
उच्छ्रयस्त्रिविधो वत्स द्वारां प्राकारतोऽपिच ॥
प्रतोत्या द्वार उत्सेधः पञ्चदशकरैः शुभः ।
मध्यस्त्रयोदशकरै रुद्रहस्तैः कनिष्ठकः ॥
कनिष्ठमेकभूमं च द्विभूमं चैव मध्यमम् ।
उत्तमं च त्रिभूमं स्यात् त्रिधोदितक्रमागतम् ॥
उत्तमं चाऽष्टहस्तैश्च सप्तहस्तैश्च मध्यमम् ।
कनिष्ठं चैव षड्ढस्तैर्विस्तारस्त्रिविधो मतः ॥
नवहस्तोच्छ्रिताः स्तम्भाः कुम्भकैः सुसमन्विता ।
ऊर्ध्वमेकद्वित्रिक्षणा मालिकाश्च ह्यनुक्रमात् ॥
मदलाः शीर्षैस्तम्भिका निर्यूहे मदलाः पुनः ।
स्वस्तिकाद्वयं शीर्षोर्ध्वे निर्यूहे मदला पुनः ॥
शीर्षोर्ध्वे च भवेत्पट्टः शाखार्धं चोत्तराङ्गकम् ।
तुला जयन्ती पीता सा ? निर्मलं कपिशीर्षकम् ॥
तदूर्ध्वे च पुनर्भू मिश्चतुर्द्वारं तृतीयके ।
दृढार्गलाः कपाटाश्चाऽपवरकास्ततः परम् ॥
वक्त्रद्वाराणि वक्ष्यामि प्रतोलीनां चतुष्टयम् ।
अनुक्रमेण कर्त्तव्यं कथयामि समासतः ॥
उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।
प्रतिकाय इति प्रोक्तं प्रतोलीनां चतुष्टयम् ॥
उत्तरामुख उत्सङ्गः पूर्णबाहुश्च पूर्वतः ।
अपरे हीनबाहुश्च प्रतिकायस्तु दक्षिणे ॥
सृष्टिप्रवेश उत्सङ्गः प्रतिकायोऽपसव्यतः ।
पूर्णबाहुः पूर्ववक्त्रो वामास्यो हीनबाहुकः ॥
वामभागे दिशि दिशि वामावर्तोद्भिवास्तु ये ।
द्वारं च दक्षिणावर्तं कथितं त्वपराजित ॥
एकपोल्यं त्रिपोल्यं वा पञ्चपोल्यमथोच्यते ।
एवंविधः प्रकर्तव्यः पोल्यानां तु समुच्चयः ॥