Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.44

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.44

Language
English

v1.c66.44

अष्टाशीतिकरं वेश्म महीशानां त्रिधा मतम्।
लक्षग्रामाधिपो यस्तु स महामण्डलेश्वरः॥
तस्य वेश्म प्रकर्त्तव्यं द्विहीनाशीतिहस्तकम्।
लक्षार्धं यस्तु भुङ्क्ते स मण्डलीकोऽभिधानतः॥
अष्टषष्टिकं तस्य कर्त्तव्यं भवनोत्तमम्।
अयुतद्वयग्रामेशो महासामन्तसंज्ञकः॥
तस्य वेश्माष्टपञ्चाशत्-करं कामफलप्रदम्।
सामन्तसंज्ञकः सोऽत्राऽयुतग्रामाधिपश्च यः॥
अष्टचत्वारिंशद्धस्तं भवनं सर्वशोभनम्।
ईशोऽयुतार्धग्रामाणां लघुसामन्तसंज्ञकः॥
अष्टत्रिंशत्करैर्युक्तं भवनं तस्य कामदम्।
सहस्त्रमेकं ग्रामाणां भुङ्क्ते स चतुरंशिकः॥
वेश्माष्टाविंशतिकरं कुर्याच्छान्तिकरं सदा।
ग्रामाणां विंशतिं भुङ्क्ते यः पञ्चदशकं तथा॥
ग्रामांस्त्रीन्द्वौ तथा चैकं भुङ्क्ते पर्यायसंस्थितः।
शतमेकं तु ग्रामाणां स्वल्पराष्ट्रं तु संज्ञितम्॥
अष्टादशकरं वेश्म कर्तव्यं सर्वकामदम्।
अष्टादशकरमध्ये ताः कर्तव्याः क्रमेण तु॥
सोपानपङ्क्तिमर्यादा कथिता त्वपराजित।
राजालये च यन्मानं तदर्धं दण्डनायके॥
तदर्धं मन्त्रिसंस्थानं मन्त्यर्धं द्वारपालके।
पुरोहिते तत्समं च तदर्धं जनसंकुले॥
अनुक्रमादिकं सर्वं ज्येष्ठमध्यकनिष्ठकम्।
अष्टहस्ते त्वेकभूमं द्विभूममष्टादशके॥
त्रिभूममष्टाविंशत्याऽष्टत्रिंशद्भिर्वेद्भूमम् ।
अष्टचत्वारिंशद्भिः पञ्चभू षड्भ्वमष्टपञ्चाशद्भिः॥
अष्टषष्ट्या सप्तभूममष्टम्वष्टसप्ततिभिः।
अष्टाशीत्या नवभूमं दशम्वष्टनवतिभिः॥
भद्रमेकादश भूममष्टोत्तरशतात्मके।
सिंहद्वारानुक्रमं च कथये त्वपराजित॥
द्वारत्रयन्तूत्तमे च कर्त्तव्यं चक्रवर्तिभिः।
उत्तमं पञ्चदश च मध्यमं च त्रयोदश॥
कनिष्ठं रुद्रहस्तान्तमुच्छ्रयेण तु योजितम्।
इदं सिंहद्वारमानं त्रिधा स्याच्चक्रवर्तिनि॥
राष्ट्रेश्वरे राज्ञि महामण्डलिकेश्वरे।

Cites (1)