Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.6

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.6

Language
English

v1.c66.6

यशोधनं कलत्रञ्च रक्षणीयं महीभुजा ।
तत् कोशरत्नजनकमनर्घं कथितं बुधैः ॥
तस्मात्तद् बहुधा रक्ष्यं सपत्नेन महीभुजा ।
प्राकारावृतहर्म्यान्तस्तत्स्थलं कार्यमीरितम् ॥
आपदेवस्य भागे वा वारुणे वा विशेषतः ।
चतुरश्रं दैर्घ्ययुतमथवा तत्प्रकल्पयेत् ॥
दण्डद्वादशवैशाल्यमण्डलाकारमध्यभाक् ।
त्रिभौमः पञ्चभौमो वा मध्ये वा स्थलसंयुतः ॥
मध्याधिष्ठानसंकॢप्तश्चोपशालावृताङ्गणः ।
तद्भागे क्रीडनस्थानं कल्पयेद्बहिरैव वा ॥
द्वारोपद्वारसंयुक्तः केसरक्रियया युतः ।
मध्यागारविनिष्क्रान्तकल्पनेन समन्वितः ॥
लक्ष्म्यादिलसितद्वारो बहुचित्रमनोहरः ।
शुद्धान्तो रक्षणोपेतः कार्यो भूपालसिद्धये ॥
कौबेर्यां भूषणं प्रोक्तं वारुणे वस्त्रकादिकम् ।
दक्षिणास्यां गन्धमाल्यं पूर्वे भोजनमीरितम् ॥
गन्धर्वदेवचित्राढ्यं कल्पयेच्छिल्पकोविदः ।
तटाकमथवा वापीं तत्पार्श्वे कल्पयेद्बुधः ॥
चेटीनां वासभवनैरन्वितश्च समन्ततः ।
वातायनशतोपेतो वितानादिभिरन्वितः ।
कलशादिसमोपेतः कल्पनीयो मनोहरः ॥