Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.76

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.76

Language
English

v1.c66.76

यथाईस्तम्भविन्यासं शस्तदारुप्रचक्रियम्। फलकाभिश्चतं मध्ये कुड्यं स्यात् फलकामयम् ॥ मृत्तिकाभिः प्रशस्ताभिः कषायसलिन्नादिभिः। मर्दिताभ्युषिताभिश्च चितं कुड्यं तु मृन्मयम् ॥ कुड्यव्यासत्रिदेवांशबहलां वाग्रपङ्कजाम्। पट्टिकां चतुरश्रां वा कुड्योपरि नियोजयेत् ॥ स्तम्भान्तरं द्विहस्तादि भवेत् पञ्चकरान्तरम्। वितस्तिवृद्ध्या तन्मध्ये कार्या कुड्यलता त्रिधा ॥ कुड्यस्तम्भस्य विस्ताराद् द्विगुणं सार्धमुच्छ्रितम्। अधःपद्मासनं कुर्यात् तदूर्ध्वं च यथारुचि ॥ विनिर्गतोन्नतिं कुम्भं पार्श्वयोस्तस्य तन्मुखात्। पत्रैर्विनिर्गतैश्चित्रं यथाशोभं नियोजयेत् ॥ तदूर्ध्वं कुड्यकस्तम्भसमपादाम्बुजासनम्। अखण्डकलशं कुर्यात् पद्मकुम्भलतायुतम् ॥ सा तु कुम्भलता संज्ञा सैव खण्डोपरि क्रमात्। शक्रतोरणवन्यस्ता स्तम्भकुम्भलता मता ॥ कुम्भपद्मासनयुता सैव सर्वलत्वान्विता। पद्मकुम्भलता नाम विज्ञेया हि लता भवेत् ॥ तले तले विमानानां दिक्षु बेराणि विन्यसेत्। नन्दीश्वरमहाकालौ पूर्वद्वाराधिपौ न्यसेत् ॥ दक्षिणे दक्षिणामूर्तिं पश्चिमे लिङ्गसम्भवम्। विष्णुं वाप्यथ कौवेरे दुर्गां ब्रह्माणमेव वा ॥ मण्डपे मध्यपत्रे तु दक्षिणे च विनायकम्। उत्तरे नृत्तरूपं तु क्षेत्रेशं चैशगोचरे ॥ रुद्रावतारक्रीडादिकथारूपाणि चैव हि। मूलभित्तौ च परितो विन्यसेदुक्तलक्षणम्। अथोपरितलात् प्राच्यामिन्द्रं षण्मुखमेव वा ॥ दक्षिणे दक्षिणामूर्तिं वीरभद्रमथापि वा। पश्चिमे नरसिंहं चाप्युत्तरे चार्थदं विधिम् ॥ द्वितीये तु तले चैवं तृतीये तु मरुद्गणान्। तले तलेऽमरान् सिद्धान् यक्षविद्याधरानपि ॥ गन्धर्वांश्चाप्सरसः सिद्धान् नागांस्तथा मुनीन्। प्रमथांश्चैव दैत्यादीन् षोडश प्रतिमास्तथा ॥ कण्ठादधः प्रतेरूर्ध्वं कोणे कोणे वृषान् न्यसेत्।