Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.78
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.78
- Language
- English
v1.c66.78
गर्भाद्धंसमविस्तारा महानासाश्चतुर्दिशम् ।
तदर्द्धाद् वा त्रिपादाद् वा तासां निर्गम ईरितः ॥
क्षुद्रनासास्तदर्थाद् वा रामांशाद् वापि कारयेत् ।
नासिकानां तु करणमष्टाधोक्तं पुरातनैः ॥
सिंहपञ्जरमादौ स्यात् पञ्जरं चार्धपञ्जरम् ।
निर्यूहपञ्जरं चैव कथितं लम्बनासिकम् ॥
सिंहश्रोत्रं तथा खण्डनिर्यूहऋषपञ्जरम् ।
द्विदण्डादिचतुर्दण्डविस्तृतं शालयान्वितम् ॥
सूचिपादद्वयोपेतं श्लिष्टप्राकारनीप्रकम् ।
षड्वर्गसहितं व्याससमानिर्गममेव वा ॥
शक्तिध्वजयुतं चापि तथा सम्मुखपट्टिकम् ।
वेदिकाजालकस्तम्भयुक्तं स्यात् सिंहपञ्जरम् ॥
प्रासादनीप्रसंश्लिष्टस्वनीप्रादर्थनिर्गतम् ।
अधिष्ठानाङ्घ्रियुक्तं च प्रस्तरग्रीवसंयुतम् ॥
तद्वत् सशिखरं शक्तिध्वजसम्मुखपट्टिकम् ।
वेदिकाजालकर्णाढ्यं सार्धपञ्जरसंज्ञितम् ॥
प्राग्वच्छ्लेषं च विस्तारपादसम्मितनिर्गमम् ।
व्यासत्रिभागनिर्यूहं वृत्तस्फुटितकर्मवत् ॥
पञ्जराख्यं स्मृतं चाथ स्वतुल्यशिखराग्रकम् ।
श्लिष्टनीप्राङ्ककर्णं च कपोताद्यङ्गसंयुतम् ॥
निर्यूहपञ्जरं त्वेतल्लम्बनासिकमुच्यते ।
संश्लिष्टनीप्रकर्णाङ्घ्रि कृतनागदलाद्यपि ॥
निर्यूहसहितं युक्तसर्वाङ्गं लम्बनासिकम् ।