Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.87

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v1.c66.87

Language
English

v1.c66.87

चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः ॥
एकं बहूनि चालयेद् बहुभिश्चाल्येतऽपरम् ।
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ॥
अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ।
न विस्तारन्नसङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे ॥
कस्यचिद् सा क्रिया साध्या कालः कस्यापि कस्यचित् ।
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शो च कस्यचित् ॥
क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ।
तिर्यगूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ॥
गमनं सरणं पात इति भेदा क्रियोद्भवाः ।
कालो मुहूर्त्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ॥
शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा।
उच्छ्रायस्तु जलस्य स्यात् क्वचिद् भूजेऽपि शस्यते ॥
गीतं नृत्यं च वाद्यं च पटहो वंश एव च ।
वीणा कांस्यतालश्च तृमिला करटापि च ॥
यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ।
समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् ॥
नृत्ये तु नाटकं चोक्षस्ताण्डवं लास्यमेव च ।
राजमार्गेण देशी च यन्त्रात् सर्वं प्रसिध्यति ॥
तथा जात्यनुगाश्चेष्टा विरुद्धा यास्तु जातितः ।
ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ॥
भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमैः ।
चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ॥
जायन्ते यन्त्रनिर्मीणाद् विविधानोप्सितानि च ।
यथासुरा जिता देवैर्यथा निर्मथितोऽम्बधिः ॥
हिरण्यकशिपुर्देत्यो नृसिंहेन हतो यथा ।
प्लावनं हस्तियुद्धं च गजानामगडोडपि च ॥
नाना प्रकारा याश्चेष्टा नाना धारागृहाणि च ।
दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ॥
चित्रा सेना च कुट्यश्च स्वयंवाहकसेवकाः ।
सभाश्च विविधाकारा सत्या मायाः प्रकल्पिता ॥
एवं प्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ।