Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.153
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.153
- Language
- English
v2.c74.s2.153
शाणाविद्धं शितं कृत्वा चले रक्षादिभिः क्रमात् ।
यावन्निर्वाणतां याति तावत्कुर्याद्विचक्षणः ॥
शुद्धं तसु निरीक्षेत तस्मिंश्चिह्नं शुभाशुभम् ।
तस्य चिन्हानुक्रमं च प्रवक्ष्यामि च नामतः ॥
पद्माकारं स्वस्तिकं च शङ्खाभं चक्रसन्निभम् ।
छत्राकृति ध्वजाकारं त्रिशूलाकृति पार्वतम् ॥
मत्स्यमकरकूर्माभं कलशाकृतिकं तथा ।
अर्धचन्द्राकृति तथा चैवं गोवृषभाकृति ॥
वज्रखड्गाकृतिकं च दण्डाभं चामराकृति ।
वृषाकृति ! लिङ्गाकारं सयोनिमानसंयुतम् ॥
स्थपतिस्थापकानां तु पुत्रपौत्रविवर्धकम् ।
बहूनि यत्र दृश्यन्ते लिङ्गे लिङ्गानि सर्वतः ॥
पूर्वापरयाम्योत्तरे दृश्यते लिङ्गमुन्नतम् ।
राजा भृत्यैर्मन्त्रिभिश्च वर्धते प्रजया सह ॥
दृश्यते पर्वतो यत्र ह्यनेकशेखराकृतिः ।
राजा सेनाबधं कुर्यान्मासेनात्र न संशयः ॥
समुद्रबीचिसंकाशं मण्डलाकृतिकं तथा ।
राजा परगतं राष्ट्रमचिराद्विनिवर्तयेत् ॥
गोब्राह्मणहितं चैव यजमानोऽपि वर्धते ।
सुखदं सर्ववर्णानां शान्तिपुष्टिप्रदायकम् ।
इन्द्रायुधनिभारेखा चतुर्वर्णोपशोभिता ।
शुक्ला विप्रस्य सुखदा रक्ता राज्ञो विधीयते ॥
वैश्यस्य पीतिका रेखा कृष्णा शूद्रस्य शस्यते ।
अविच्छिन्ना भवेद्वेखा पुत्रपौत्रविवर्धिनी ॥
विच्छिन्ना बिन्दुसंयुक्ता वर्जनीया प्रयत्नतः ।
बङ्कभासाकृतिश्चैव गृध्रकाकाकृतिस्तथा ॥
बलयाद्याकृतिश्चैव कौशिकाकृतिरेव च ।
कीटसर्पपतङ्गाश्च दृश्यन्ते यत्र वर्णतः ॥
अधमं तद्विजानीयात् प्रयत्नेन विवर्जयेत् ।
चिह्नं तु कथितं तेषां लाञ्छनानि ह्यतः शृणु॥