Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.154

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c74.s2.154

Language
English

v2.c74.s2.154

आवर्तं दक्षिणं श्रेष्ठं वामावर्तं विगर्हितम् ।
येनावर्तो दृश्यते यत्र विपुलॊ मेखलान्वितः ॥
तल्लिङ्गं पूजयेन्नित्यं सर्वकामार्थसाधकम् ।
प्रासादो वा रथो वापि नन्द्यावर्तस्तथाङ्कुशम्॥
रम्भा कन्या पुष्पमाला शिवा च दर्पणं तथा ।
कलशं चैव हारं चाक्षसूत्रं पवित्रकम् ॥
वस्त्रयुग्मं कुण्डलं च तारकाकृतिकं तथा ।
कुण्डलं चेति विज्ञेयं लाञ्छनं शोभनं खलु ॥
सोमे सूर्ये वृषे पद्मे शङ्खे वै विपुलं धनम् ।
छत्रेषु चामरे चैव राज्यलाभं विनिर्दिशेत् ॥
हारे वस्त्रे भगे चैव स्वस्तिके विजयस्तथा ॥
लाञ्छना सरसंस्थाने शुभं वाप्यथवाशुभम् ।
वायव्याग्नेयमाहेन्द्रे वारुण्यां च यथा विधि ॥
अकारश्च उकारश्च एऐ ओऔ अंअस्तथा ।
गजडदबं च ज्ञात्वा यथा तत्र च दृश्यते ॥
एतेषु दृश्यमानेषु महाबन्धभयं भवेत् ।
आकारो दृश्यते यत्र अकारो वा तथैव च ॥
ऋ ऌ च दृश्यते यत्र उजघटयषस्तथा ।
नरपदाश्तचाक्षराणि आग्नेयां च प्रकीर्तिताः ॥
एतेषु दृश्यमानेषु अग्निदोषभयं भवेत् ।
(उच्चकारो लकारश्च) अनुनासिकसंज्ञकाः ॥
यन्माहेन्द्राश्रितं ज्ञेयं लिङ्गे चिन्हं शुभप्रदम् ।
ककारश्च लकारश्च छ्ञपथास्तथा ॥
शषसकारा विज्ञेयाः सकारश्च सुसम्भवः ॥
एभिस्तु लाञ्छनैर्लिङ्गं सर्वकामार्थ साधकम् ॥
कथितानि लाञ्छनानि शल्यदोषमतः शृणु ।
सयोनिमात्र संयुक्तं लक्षणीयं विपश्चिता ॥
⁝ तस्मिल्लिङ्गे चैव मण्डलं यत्र दृश्यते ।
सगर्भं तद्विजानीयात् जीवशल्यं विचक्षणम् ॥
मांनिष्ठामे मण्डलं स्यात् हर्रिते कर्कगे भवेत् ।
पीते गोधां विजानीयात् कृष्णे विद्यात् भुजङ्गमम् ॥
कपिले मूषको ज्ञेयः श्यामे तु कृकलांशकः ।
किंशुकाभे च खर्जूरः अतसीभे पिपीलिका ॥
भस्माभे स्मृमरो ज्ञेयः वाल्हिका श्वेतअस्मभे ।
विचित्रे वृश्चिकं विद्यात् स्वस्त्रोतमग्निसन्निभे॥
चम्पाभे कृमयः? प्रोक्ताः श्वेतवर्णे नरोत्तमः ।
इतित्याज्याः लिङ्गदोषाः मूर्तिदोषं विवर्जयेत्॥