Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c76.114

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c76.114

Language
English

v2.c76.114

यावन्ति विष्णुरूपाणि सुरूपाणीह लेखयेत् ।
तावद् युगसहस्राणि विष्णुलोके महीयते ॥
लेप्ये चित्रे हरिर्नित्यं सन्निधानमुपैति हि ।
तस्मात् सर्वप्रयत्नेन लेप्यचित्रगतं यजेत् ॥
कान्तिभूषणभावाद्यैश्चित्रे यस्मात् स्फुटं स्थितः ।
अतः सन्निधिमायाति चित्रजासु जनार्दनः ॥
तस्माच्चित्रार्चने पुण्यं स्मृतं शतगुणं बुधैः ।
चित्रस्थं पुण्डरीकाक्षं सविलासं सविभ्रमम् ॥
दृष्ट्वा विमुच्यते पापैर्जन्मकोटिसुसञ्चितैः ।
तस्माच्छुभार्थिभिर्धीरैः महापुण्यजिगीषया ॥
पटस्थः पूजनीयस्तु देवो नारायणो प्रभुः ।
— हयशीर्षपञ्चरात्रात् —

Cites (1)