Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.11
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.11
- Language
- English
v2.c83.11
मिश्रं चेति च तद् बिम्बमचलं च चलं तथा ॥ चलाचलमिति त्रेधा तत्प्रपञ्चः प्रदर्श्यते । निष्कलं केवलं लिङ्गमन्यत्त्ववयवान्वितम् ॥ तदेव चित्रमर्धाङ्गदर्शनं त्वर्धचित्रकम् । चित्राभासं तथा लेख्यमुत्तमादिक्रमेण तु ॥ सकलं त्रिविधं ज्ञेयं मिश्रलक्षणलक्षितम् । मिश्राख्यं मुखलिङ्गं स्यादचलादिकमुच्यते ॥ निधिकुम्भप्रतिष्ठादि सर्वमुक्तनुसारतः । कृत्वा प्रतिष्ठितं बिम्बमचलं परिकीर्तितम् ॥ पीठकोपरि संस्थाप्य पूजितं चलमेव हि । सौधं च पार्थिवं शैलं सङ्करं त्वचलं शुभम् ॥ रत्नजं दारुजं लौहं त्रयं चैतच्चलं शुभम् । धातुवर्णादिभिर्लेख्यं पटादौ तच्चलाचलम् ॥ लिङ्गं गर्भगृहद्वारस्तम्भाधिष्ठानकिष्कुभिः । तालमानाङ्गुलैश्चापि तथा मात्राङ्गुलैरपि । यजमानोच्चमानेन चैवं नवविधं स्मृतम् ।