Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83: प्रथमो खण्डः: प्रतिमा-विज्ञानम्
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83
- Language
- English
Contents
- v2.c83.54 — 4 parts
- v2.c83.s1 पञ्चमो पटलः: देवी-प्रतिमा-लक्षणम् (शाक्त-प्रकरणम्) — 145 parts
- v2.c83.s2 षष्ठो पटलः: सौर-प्रतिमा-लक्षणम् — 100 parts
- v2.c83.s3 सप्तमो पटलः: मूर्त्यन्तराणि — 42 parts
- v2.c83.s4 अष्टमो पटलः: जैन-प्रतिमा-लक्षणं बौद्ध-प्रतिमा-लक्षणञ्च — 217 parts
प्रथमो खण्डः: प्रतिमा-विज्ञानम्
v2.c83.1
१. प्रतिमा-निर्माणोपक्रमविधिः
v2.c83.2
विविक्ते संवृते स्थाने स्थपतिः संयतेन्द्रियः ।
पूर्ववत् कालदेशज्ञः शास्त्रज्ञः शुक्लभूषणः ॥
प्रयतो नियताहारो देवताध्यानतत्परः ।
यजमानाानुकूलेन विद्वान् कर्म समाचरेत् ॥
v2.c83.3
प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रियः ।
हविष्यनियताहारो जपहोमपरायणः ॥
शयानो धरणीपृष्ठे (कुशास्तरणे तदन्तर ?) ।
v2.c83.4
सूत्रधारस्ततः प्राज्ञः शुक्लाम्बरधरः शुचिः ।
हविष्यनियताहारो जपहोमपरायणः ॥
सुसमीक्ष्य प्रदेशं तु कुङ्कुमाद्रं सुसञ्चितम् ।
इमं मे गङ्गे यमुनेऽभिषिच्यसलिलैः शुभैः ॥
कारयेन्मण्डपं पूर्वमार्द्रशाखोविनिर्गतम् ।
उत्तराभिमुखो विश्व कर्मरेखाकरो धृतिः ॥
अग्न आयाहि मन्त्रेण रेखास्तन्त्र प्रयोजयेत् ।
योगायोगेति मन्त्रेण कर्मसूत्रं समारभेत् ॥
अग्निर्ज्योतिर्हि मन्त्रेण ठङ्किकाग्रं च संस्पृशेत् ।
प्रज्वलद्विन्यसेदस्त्रं टङ्काग्रे सर्वतोमुखम् ॥
अमृतीशां हृदये न्यस्य अस्त्रेणोज्ज्वलति तदा ।
आदेव इति मन्त्रेण पुनः पठति टङ्किकाम् ॥
शिल्पिनो भोजयेत्तत्र वस्त्रालङ्कारसंयुतान् ।
ब्राह्मणान् भोजयेत्तत्र शुद्धसैन्यं तपस्विनाम् ॥
भूरि दानं ततः कुर्याद् भूत्वा चाऽकृपणस्तथा ।
समाचरेत् कर्म तत्र कृत्वा पञ्चमहोत्सवान् ॥
यस्य देवस्य या मूर्तिश्चिन्तयेत्तां हृदम्बुजे ।
उमान्माहं देहिनां जन्त्रवाहक ॥
व्यहारेत्रिषु लोकेषु यस्य कस्यचिदामयम् ।
तस्मात् सर्वेषु मन्त्रेषु हंसो बीजः स उच्यते ॥
हंसः सदाशिवो देवो हंसश्चैवेश्वरो हरिः ।
ब्रह्मा हंसो यमः सूर्योऽग्निर्हंसः सर्वदैवतम् ॥
v2.c83.5
आपो वायुश्च खं हंसो धर्मेन्द्रौ धनदः क्षितिः ।
v2.c83.6
ध्रुवं ते हंसमित्येव गतोहं विगतानि च ? ॥ एवं स गता हंसः सर्वात्मा परंपरा ? । हंसे लीना परा शक्तिरित्यर्थं व्याहरन्ति च ॥ वर्णा एकोनपञ्चाशन्निधनं यान्ति तत्र वै । निधनान्ते तु विज्ञेया वर्णास्ते तु महेश्वरः (रात्) ॥ निधनं तु मताशक्तिर्यदा मूर्ध्नि प्रलीयते । शून्यस्थानमिदं प्रोक्तं सेव्यते योगिभिः सदा ॥ मूर्ध्ना हृदयमायात्यमनस्कं परमं पदम् । स्थित्वासने सूत्रधारो जपेन्मन्त्रं सबीजकम् । या मूर्तिर्यस्य देवस्य शक्तिं तस्यैव तां न्यसेत् ॥
v2.c83.7
२. प्रतिमा-प्रकरणणि-बिम्बभेदाः
v2.c83.8
निष्कलं सकलं मिश्रं लिङ्गं चेति त्रिधा मतम्॥
v2.c83.9
निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते । मुखलिङ्गं तयोर्मिश्रं लिङ्गाचक्रितिसन्निभैः ॥ बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकैः । छन्नदेहप्रतिच्छन्दप्रतिमाङ्गैरस्तु नामभिः ॥ दृश्यो देवसभाख्यातो निष्कलं वक्ष्यतेऽधुना ।
v2.c83.10
अथ बिम्बं तु त्रिविधं निष्कलं सकलं तथा ।
v2.c83.11
मिश्रं चेति च तद् बिम्बमचलं च चलं तथा ॥ चलाचलमिति त्रेधा तत्प्रपञ्चः प्रदर्श्यते । निष्कलं केवलं लिङ्गमन्यत्त्ववयवान्वितम् ॥ तदेव चित्रमर्धाङ्गदर्शनं त्वर्धचित्रकम् । चित्राभासं तथा लेख्यमुत्तमादिक्रमेण तु ॥ सकलं त्रिविधं ज्ञेयं मिश्रलक्षणलक्षितम् । मिश्राख्यं मुखलिङ्गं स्यादचलादिकमुच्यते ॥ निधिकुम्भप्रतिष्ठादि सर्वमुक्तनुसारतः । कृत्वा प्रतिष्ठितं बिम्बमचलं परिकीर्तितम् ॥ पीठकोपरि संस्थाप्य पूजितं चलमेव हि । सौधं च पार्थिवं शैलं सङ्करं त्वचलं शुभम् ॥ रत्नजं दारुजं लौहं त्रयं चैतच्चलं शुभम् । धातुवर्णादिभिर्लेख्यं पटादौ तच्चलाचलम् ॥ लिङ्गं गर्भगृहद्वारस्तम्भाधिष्ठानकिष्कुभिः । तालमानाङ्गुलैश्चापि तथा मात्राङ्गुलैरपि । यजमानोच्चमानेन चैवं नवविधं स्मृतम् ।
v2.c83.12
३. द्रव्यभेदेन बिम्बभेदाः-प्रतिमाद्रव्याणि तत्फलभेदाश्च
v2.c83.13
शिलामयं मणिमयं लौहं दारुमयं तथा ।
मृन्मयं मिश्रकं लेख्यं बिम्बं सप्तविधं स्मृतम् ॥
v2.c83.14
बिम्बार्थं पुंशिला ग्राह्या पीठार्थं स्त्रीशिला तथा ।
नपुंसकशिला पादशिलार्थमखिले मता ॥
v2.c83.15
स्फटिकं पद्मरागं च वज्रं नीलं हिरण्मयम् ।
वैडूर्यं विद्रुमं पुष्यं रत्नबिम्बं तथाष्टधा ॥
स्फटिकं सूर्यकान्तं च चन्द्रकान्तमिति त्रिधा ।
स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥
v2.c83.16
फलम्—श्रियं कामं तथारोग्यमृद्धिं पुत्रं जयं सुखम् ।
लभते पद्मरागादिबिम्बानां क्रमशॊऽर्च॑नात् ॥
v2.c83.17
ग्रहरत्नानि—माणिक्यं च दिवाकरस्य शशिनो मुक्ताफलं विद्रुमं
भौमस्येन्दुसुतस्य वै मरकतं तत् पुष्यरागं गुरोः ॥
वज्रं दैत्यगुरोर्दिवाकरभुवो नीलं च गोमेदकं
राहोर्र्यद् ग्रहरत्नकं शृणु सखे! केतोश्च वैडूर्यकम् ॥
v2.c83.18
रत्न-नव-दोषाः—रत्नानामिह सर्वेषां दोषाः सामान्यतो नव ।
रेखाविन्दुः कलङ्कश्च काकाङ्घ्रिक्षतधूलयः ॥
तुषारत्रासरन्ध्राणि यत्नाद् रत्नेषु वर्जयेत् ।
रेखा विन्दुः कलङ्कञ्च त्रासः काकपदं क्षतम् ॥
खद्योतो मक्षिका छायाभेदाः सन्धितुषारके ।
निम्नमस्तकता चेति दोषा रत्नभवास्तथा ।
स्त्रीपुंनपुंसकभिदा न स्याद् रत्नेषु सर्वतः ।
v2.c83.19
सौवर्णं रजतं ताम्रं पैत्तलं कांस्यमायसम् ।
सैंसकं त्रापुषुषं चेति लौहं बिम्बं तथाष्टधा ॥
भुक्तिमुक्तिप्रदं हैमं लिङ्गं रौप्यं तु पुष्टिदम् ।
ताम्रजं पुत्रदं विद्यात् तथैव स्यात् तु पैत्तलम् ॥
आयुरारोग्यदं कांस्यमायसं मारणं स्मृतम् ।
सैंसकं त्रापुषं चापि विद्वेषोच्चाटनादिषु ॥
मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि ।
पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ॥
v2.c83.20
चन्दनं देवदारुश्च शमीपिप्पलशिंशपाः ।
खदिरासनमालूरमधूका बकुलस्तथा ॥
पद्मकं कर्णिकारं च विप्रादीनां त्रयं त्रयम् ।
क्रमाद् दारवलिङ्गानां विज्ञेयास्तरवः शुभाः ॥
v2.c83.21
५ मृन्मयम् तीर्थक्षेत्राचलारामपुण्यदेशोद्भवां मृदम् ।
शुक्लां रक्तां तथा पीतां कृष्णामादाय चूर्णयेत् ।।
(अ) आममृत्तिकमपक्वमित्यर्थः यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ।
लाक्षाश्रीवेष्टकश्यामासर्जानां च समांशकैः ।।
कुन्दुरिक्षस्य चांशेन मृच्चूर्णं सर्वसम्मतम् ।
कपिलापञ्चगव्येन सर्तलेन तु मर्दयेत् ।।
तां मृदं मर्दितां पक्षं मासमात्रोषितां पुनः
गृहीत्वा कारयेल्लिङ्गं सपीठं लक्षणान्वितम् ।।
मासं तु शोषयेद् धर्मे बिम्बमामं तु मृत्तिकम् ।
(ब) पक्वलिङ्गम् अथवा केवलां मृत्स्नां कर्मयोग्यां विचूर्णिताम् ।।
मर्दितां पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ।
गृहीत्वा कारयेल्लिङ्गं सपीठं त्विष्टमानतः ।।
विपचेत् कुशलैर्ग्नौ पक्वलिङ्गं तु तद् भवेत् ।
v2.c83.22
फलम्— “मृन्मयं वार्क्षिकं बिम्बं सर्वसिद्धिप्रदं सदा”
v2.c83.23
६ मिश्रमयम् कृत्वा दारुमयं शूलं लोहपट्टविभूषितम् ।
मृदा विविधदालिप्य शोषयेन्मिश्रलिङ्गकम् ।।
७ आलेख्य-मयम् १. ५२ भित्त्यादावालिखेद् वर्णैर्लेख्यबिम्बं यथोदितम्
v2.c83.24
सैकतगोमयादिलिङ्गानि सैकतं गोमयं पैष्टमाङ्गं गौळं फलात्मकम् ।
नावनीतं च लिङ्गानि त्यज्यतां प्रतिवासरम् ।।
नैतेषां पीठिका कार्य्या कुर्याल्लिङ्गं तदासने ।
नैषां त्रिखण्डमानं वा न शिरोवर्तनादिकम् ।।
नैषां कालमुहूर्ताद्यं नाधिवासादिकाः क्रियाः ।
निर्माण्य सद्यस्तल्लिङ्गे शिवमावाह्य पूजयेत् ।।
विसृज्य निरपेक्षं तल्लिङ्गमप्सु विनिक्षिपेत् ।
v2.c83.25
(ii) भ० पु० प्र० १३१, २-३ अर्चा सप्तविधा प्रोक्ता भक्तानां शुभवृद्धये ।
काञ्चनी राजती ताम्री पार्थिवी शैलजा स्मृताः ।।
वार्क्षी चालेख्यका चेति मूर्तिस्थानानि सप्त वै ।
v2.c83.26
(iii) शु० सा० चतु० ४.७२ प्रतिमा सैकती पैष्टी लेख्या लेप्या च मृन्मयी ।
वार्क्षी पाषाणधातूत्था स्थिरा ज्ञेया यथोत्तरा ।।
v2.c83.27
(iv) स० सू० सुवर्णरूप्यताम्राश्मदारुलेप्यानि शक्तितः ।
चित्रं चेति विनिर्दिष्टं द्रव्यमर्चासु सप्तधा ।।
सुवर्णं पुष्टिकृद् विद्याद् रजतं कीर्तिवर्धनम् ।
प्रजाविवृद्धि (जं? दं) ताम्रं शैलेयं भूज्यावहम् ।
आयुष्यं दारवं द्रव्यं लेप्यचित्रे धनावहे ।।
v2.c83.28
पुरा चाराधितं लिङ्गं धर्मभक्तिरतैस्तथा ।
लिङ्गं भद्र स्वरूपे च सम्प्राप्तः परमां गतिम् ॥
शक्रेणाराधितो देवो लिङ्गं वज्रमयं स्मृतम् ।
सुरराजपदं प्राप्तं रम्भाशक्तियुतात्मभिः ? ॥
धनदाराधितो देवो लिङ्गं स्वर्णमयं तथा ।
सम्प्राप्तो धनदत्वं च स्वयोनौ नाऽत्र संशयः ॥
विश्वेदेवाराधितो वै लिङ्ग रूप्यमयं स्मृतम् ।
प्राप्तः स विश्वेदेवत्वं स्वयोनौ नात्रसंशयः ॥
मारुताराधितो देवो लिङ्गं वै पित्तलात्मकम् ।
पवनत्वं स्म प्राप्नोति स्वयोनो नात्र संशयः ॥
आराधितोऽष्टवसुभिर्लिङ्गं कांस्यमयं स्मृतम् ।
वसुत्वाद्यपदं प्राप्तं स्वयोनौ नात्र संशयः ॥
मरीच्यादिगणैर्देवैः स्वल्प ? लिङ्गं पुराचितम् ।
शतार्थं विना त्वेकैश्च ? प्राप्ता देवपदं तथा ॥
तथा व्यन्तरजैर्देवो लिङ्गं वै पित्तलात्मकम् ।
आराधितं ततस्ते वै मुक्तिं प्राप्ता स्वयोनितः; ॥
शीशकोद्भवलिङ्गं तु पैशाचैरर्चितं पुरा ।
मुक्तिं प्राप्तास्तेन ते च स्वयोनेर्नाऽत्र संशयः ॥
वासुक्याद्यैश्च नागैश्च लिङ्गं तद्वयमनोर्चितिम् ? ।
ततः पाताल ाज्यं तु सम्प्राप्ताः कुलपन्नगाः ॥
दीप्तं वह्न्यर्चितं लिङ्गं ज्योतिर्मण्डलमध्यगम् ।
हुताशनः पदं प्राप्तः सर्वदेवमुखं तथा ॥
सूर्यकान्तमयं लिङ्गमादित्येन पुरार्चितम् ।
सूर्यत्वं च पदं प्राप्तं स्वयोनौ नात्र संशयः ॥
चन्द्रकान्तमयं लिङ्गं सोमेन च पुरार्चितम् ।
प्राप्तं नक्षत्राधिपत्यं स्वयोनौ नात्र संशयः ॥
प्रबालकमयं लिङ्गं पुरा मङ्गलपूजितम् ।
बुधेनाराधितं लिङ्गमिन्द्रनीलमयं पुरा ॥
पुष्परागयं लिङ्गं वाचस्पतिसुपूजितम् ।
शुक्रेण वै शङ्खमयं शशिना कृष्णनीलजम् ॥
केतुना वैडूर्यमयं गोमेधीयं च राहुणा ।
आर्हंतैः पूजितं लिङ्गं शुद्धस्फटिकजं तथा ॥
महालिङ्गं हैमवतं ब्रह्मणा स्वयमर्चितम् ।
हेमकूटे विरूपाक्षं तज्जनार्दनपूजितम् ॥
देवीभिश्च समस्ताभिरष्टलोहमयं तथा ।
भैरवैः क्षेत्रपालैश्च त्रिजद्यात्मकर्मचितम् ॥
v2.c83.29
योगिनीभिर्दिव्यलिङ्गं ब्रह्मरन्ध्रे च ध्यानजम् ।
शैलजं पार्थिवं लिङ्गं धातुजं रत्नजं तथा ॥
धर्मार्थकाममोक्षं च प्राप्नोति मनसि स्थितम् ।
लिङ्गं देवो रत्नजं च मुक्तिकामैर्नरेश्वरैः ॥
धातुदं शान्तिदं पूज्यं राजभिर्मुक्ति कीर्तिदम् ।
शैलजं च प्रवक्ष्यामि ह्यष्टवर्णमुदाहृतम् ॥
श्वेतं च पद्मवर्णं च कुमुदाभं च मुद्गभम् ।
पाण्डुरं माक्षिकनिभं कपोताभं च भृङ्गभम् ॥
श्वेतैर्विप्रा श्रवर्धन्ते राजानः पद्मवर्णकैः ।
वैश्याः कुमुदवर्णैश्च मुद्गाभैः शूद्रजातयः ॥
शेषवर्णैस्तथा चैव सामान्याननुलक्षयेत् ।
आरोग्यं पाण्डुवर्णे स्यात् माक्षिके विजयः स्मृतः ॥
कपोते चार्थवृद्धिश्च भृङ्गामे सुप्रजाः स्त्रियः ।
पृथ्वीमयं पार्थिवं स्याद्विधा तच्चैव भेदतः ॥
पक्वापक्वरेणुकाभिः सुखलिङ्गं प्रकीर्तितम् ।
सौभाग्यदं कुङ्कुमाढ्यैर्कपूरैः कामदं तथा ॥
कस्तूरिकाभवं लिङ्गं भुक्तिकामदिभोगदम् ।
मातुलिङ्गभवं पूज्यं भुक्तिकामैश्च राज्यदम् ॥
मद्यगं करवीराणां पूजितं श्रीपदं भवेत् ।
सन्तानवृद्धिदं पूज्यं लिङ्गं सर्वफलोद्भवम् ॥
यद्यत्फलोद्भवं लिङ्गं तै फलैर्नोपजीवयेत् ।
चित्रेऽथवागमे वापि नियमार्थं सुपूजितम् ॥
तथाक्षतमयं पूज्यं मन्त्रलिङ्गं च पूजयेत् ।
उक्त्वा षडक्षरं मन्त्रं पुण्यं लिङ्गस्य दर्शनम् ।
पञ्चवारं समुच्चार्य लिङ्गवक्त्रादिदर्शनम् ॥
v2.c83.30
४. प्रतिमा-मान-लक्षणम्
v2.c83.31
मानगणनम्
v2.c83.32
अथ विमानादिमानविभागार्थमङ्गुलीनां विधिं वक्ष्ये । मानाङ्गुलं मात्राङ्गुलं देहलब्धाङ्गुल मितित्रिविधं भवति । दिवादित्यरश्मौ जालकान्तः प्रविष्टे तद्गोचरा अत्यन्तं क्षुष्णा लवाः परमाणवः प्रोक्ताः । परमाणुभिरष्टाभी-रथरेणुः। रथरेणुनाऽष्टगुणितं रोमाग्रम् । रोमाग्रादष्टगुणितं लिक्ष्या (लिक्षा) । लिक्ष्यादष्टगुणितं यूकम् । यूकादष्टगुणितं यवम् । यवादिष्टगुणितं मानाङ्गुलमुत्तमम् । तदष्टांशोनं मध्यमम् । तत्तूरीयांशोनमधमम् । पुरुषस्य दक्षिणहस्तमध्यमाङ्गलेर्मध्यमपर्वणि विस्तारं (आयतं वा) मात्राङ्गुलम् । बेरोत्सेधं तत्तालवशेन विभज्यैकांशं देहलब्धाङ्गुलं तदष्टांशं यवमिति ।
v2.c83.33
त्रयाणामङ्गुलानां संज्ञा । मात्रं च मूर्तीन्दुविश्वम्भरामोक्षोक्तमित्येकाङ्गलस्य । कलागोलकाश्विनोयुग्मब्राह्मणविहगाक्षिपक्षाश्चेति द्वयङ्गुलस्य । अग्निरुद्राक्षगुणार्णकालशूलरामवर्गमध्या इति त्र्यङ्गुलस्य । वेदप्रतिष्ठाजातिकराब्जजाननयुगतुर्यतुरीयाणीति चतुरङ्गुलस्य । विषयेन्द्रियभूतेषु सुप्रतिष्ठापृथिव्यश्चेति पञ्चाङ्गुलस्य । कर्माङ्गरससमयगायत्रीकृत्तिकाकुमाराननकौशकतंवः षडङ्गुलस्य । पातालमुनिधातवो लोकोष्णिग्रोहिणीद्वीपाङ्गाम्भोनिधयश्चेति सप्ताङ्गुलस्य । लोकपालनागोरगवस्वनुष्टुब् गणाश्चेत्यष्टाङ्गुलस्य । बृहतीग्रहरन्ध्रनन्दसूत्राणि नवाङ्गुलस्य । दिक्प्रादुर्भाविनाडीपङ्क्तय इति दशाङ्गुलस्य । त्रिष्टुब्रद्राश्चेत्येकादशाङ्गुलस्य । वितस्तिर्मुखं तालं यमं चारुकोराशिर्र्जगती चेति द्वादशाङ्गुलस्य । अतिजगती त्रयोदशाङ्गुलस्य । शक्वरी मनुश्चतुर्दशाङ्गुलस्य । अतिशक्वरी तिथिश्चेति पञ्चदशाङ्गुलस्य । क्रियाष्टीन्दु कलाश्चेति षोडशाङ्गुलस्य । अस्यष्टिसप्तदशाङ्गुलस्य स्मृतिधृतिश्चेत्यष्टादशाङ्गुलस्य । अतिधृतिरेकोनविशस्य । कृतिविशदङ्गुलस्य प्रकृतिरेकविशदङ्गुलस्य । आकृतिर्द्वाविंशतेः । विकृतिस्त्रयोविंशतेः । सत्कृतिश्चतुर्विंशतेः । अतिकृतिः पञ्चविंशतेः । उत्कृतिष्षड्विंशतेः । नक्षत्रं सप्तविंशते इति ।
v2.c83.34
एवं मानानि भवन्ति । मान प्रमाणमुन्मानं परिमाणमुपमानं लम्बमानमिति षण्मानानि ।
v2.c83.35
आयाममायतं दोर्घम्मानमित्येकार्थवाचकाः । विस्तारं विस्तृतं तारं विसृतिविमृतं व्यासं विस्तारितं विपुलं ततं विष्कम्भं विशालमिति प्रमाणस्य । बहलं नीवं घनमिवि च । उच्छ्रायं तुङ्गमन्रतमुदयमुत्सेधमुच्चमित्युन्मानस्य । निष्क्रमं निष्कृतिर्निर्गमं निर्ग तिरुद्गममिति च । मार्गं प्रवेशनं नत परिणाहं नाहं वृत्तिरावृतमिति परिणामस्य । निवृत्तं विवरमन्तरमित्युपमानस्य । सूत्रालम्बनान्वितं (सूत्रं लम्बनेमुन्मितं) यत्तत्तल्लम्बमानमिति । एतैष्षण्मानैरायुतं बेरं कारयेत् ।
v2.c83.36
(ii) स० सू० ७५. १-३ ब्रूमोऽथ मानगणनम् परमाण्वादि तद् भवेत् ॥
परमाणू रजो रोम लिक्षा यूका यवोऽङ्गुलम् ।
क्रमशोऽष्टगुणा वृद्धिरै (व?वं) मानाङ्गुलं भवेत् ॥
द्वयङ्गुलो गोलको ज्ञेयः कलां वा तां प्रचक्षते ।
द्वे कले गोलेकौ वा द्वौ भागो मानेन तेन तु ॥
v2.c83.37
(iii) अ०पृ० २२५.६-१३ भास्करोदयनादिष्ट-दीप्ति-रश्मिप्रकाशतः ।
जालान्तरगतो रेणुर्दर्शने च पृथक् पृथक् ॥
उद्दिष्टं परमाण्वादि-प्रमाणं च समन्ततः ।
परमाण्वष्टकं रेणुः केशाग्रं च तदष्टतः ॥
अष्टाष्टगुणनादेवं केशाग्रं च प्रसिद्धयति ।
अष्टकेशाग्रतो लिक्षा यूका चैव तदष्टतः ॥
v2.c83.38
अष्टाभिश्चैव यूकाभिर्यवश्चैवं प्रमिद्यति ।
तथाङ्गुलं चाष्टयवैः प्रतीतं नत् प्रागुवधः ॥
रूपमानमिति प्रोक्तं परमाण्वादिपरिकल्पितम् ।
मूलनानं प्रोक्तमथो तनुभानंविनिर्णयम् ।।
अङ्गुलोद्भवमानं तु स्यान्मात्राङ्गुलसंज्ञकम् ।
कलाद्विमात्रा कथिता सैव गोलकउच्यते ।।
द्विमात्रं गोलकं विद्याद् भागं चैव द्विगोलतः ।
भागं त्रिगुणितं तालस्तन्मानात् प्रतिमा त्रिधा ॥
मानं तालात्मकं यत्तन् मूर्त्यार्जवसमुच्छ्रयः ।
पृष्ठाद्यङ्गुलतः कार्यं तालसूत्रे प्रसिध्यति ।।
v2.c83.39
५. प्रतिमा-निर्माणे मानाधाराणां पञ्चपुरुष-स्त्री-लक्षणम्
v2.c83.40
पञ्चानां हंसमुख्यानां देहबन्धाधिकं नृणाम् ।
दण्डिनी प्रमुखानां च स्त्रीणां तद् ब्रूमहे पृथक् ।।
हंसः शशोऽथ रूचको भद्रो मालव्य एव च ।
( पञ्चैते ) पुरुषास्तेषु मानं हंसस्य कथ्यते ।।
अष्टाशीत्यङ्गलो हंसस्यायामः परिकीर्तितः ।
विज्ञेया वृद्धिरन्येषां चतुर्णां द्व्यङ्गुलक्रमात् ।।
v2.c83.41
ताराग्रहैर्बलयुतैः स्वक्षेत्रस्वोच्चगैश्चतुष्टयगैः ।
पञ्चपुरुषाः प्रशस्ताः जायन्ते तानहं वक्ष्ये ।
जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च ।
भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ।।
षण्णवतितरङ्गुलानां व्यायामों दीर्घता च हंसस्य ।
शशरुचकभद्रमालव्यसंज्ञितास्त्र्यंगुलविवृद्धया ।।
v2.c83.42
६. तालमानं ताल-नियमश्च
v2.c83.43
अथ देवानां तालविधानम् । देवस्योत्तमं दशतालम् । तथैव ब्रह्म-शङ्करयोः । श्रीभूम्योरुमासरस्वत्योश्च मध्यमं दशतालम् । इन्द्रादि-लोकपालानामादित्यचन्द्रयोर्द्वादशादित्यानामेकादशरुद्राणामष्टवसूनाम-विश्वेभ्यो भृगुमार्कण्डेयथोर्वीशशेषकयोर्दुर्गागुहसप्तर्षीणामप्यधमं दशता-लम् । यक्षेशनवग्रहाद्यन्येदेवानां नवार्धतालमानेन । दैत्ययक्षो-रगेशसिद्धगन्धर्वचारणानामुत्तमंनवतालेन । देवकल्पमनुजानां सत्र्यङ्गुलं नवतालम् । निशाचरेन्द्र्राणामसुराणां च नवतालम् । मर्त्यानामष्ट-तालेन । वेतालानां सप्ततालेन । प्रेतानां षट्तालेन । कुब्जानां पञ्चतालेन । वामनानां चतुस्तालेन । भूतानां किन्नराणां च त्रितालेन कूष्माण्डानां द्वितालेन । कबन्धानामेकतालेन । तेषां प्रत्येकमु-त्तममध्यमाधमभेदानि भवन्ति । चतुर्विंशच्छताङ्गुलमृत्तमं दशतानम् ।
v2.c83.44
सत्रिंशतिशताङ्गुलं मध्यमं दशतालम् । षोडशाधिकशताङ्गुलमधमं दशतालम् ।
v2.c83.45
अङ्गुष्ठप्रदेशिनीभ्यां मितं प्रादेशम्, अङ्गुष्ठमध्यमाभ्यां मितं तालमङ्गुष्ठानामिकाभ्यां मितं वितस्तिरङ्गुष्ठकनिष्ठिकाभ्यां मितं गोकर्णम् । मानाङ्गुलेन चतुर्विशत्यङ्गुलं किष्कुः पञ्चविशत्यङ्गुलं प्राजापत्यं, षड्विंशत्यङ्गुलं धनुर्ग्रहं, सप्तविंशत्यङ्गुलं धनुर्मूष्टिश्चतु-र्गूणो दण्डस्तेन दण्डेन ग्रामादीनां विन्यासं कारयेत् ।
v2.c83.46
उत्तम दशतालाख्यं चतुर्विशच्छताङ्गुलम् ।
मध्यमं दशतालं स्याद् विंशाधिकशताङ्गुलम् ।।
अधमं दशतालं तु कलाधिकशताङ्गुलम् ।
तालं प्रत्ययमेवं तु क्रमाद् वेदांशहानितः ।।
उत्तमं नवतालादि बिम्बमानमुदाहृतम् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वराः ।।
मध्यमं दशतालेन तथैवोमासरस्वती ।
उषा भूमिश्च दुर्गा च लक्ष्मीर्ज्येष्ठा च मातरः ।।
मध्यमं दशतालेन वा त्रिमूर्तीन् प्रकल्पयेत् ।
कन्यसं दशलालेन चन्द्रादित्यावथाश्विनौ ।।
आर्यं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
महर्षीणां गणांश्चैव तेषां देवीश्च कारयेत् ।।
उत्तमं नवतालेन विद्येशान् लोकपालकान् ।
वसूंश्च दिक्पतींश्चैव अस्त्रमूर्तीश्च गुह्यकान् ।।
देवानन्यांश्च देवीस्ताः कारयेल्लक्षणान्वितम् ।
मध्यमं नवतालेनाप्यष्टमूर्तिमरुद्गणान् ।।
यक्षासुरगणांश्चैव करोतु शुभलक्षणम् ।
कन्यसं नवतालेन विद्याधरगणांस्तथा ।।
असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च ।
अष्टतालेन मर्त्यांस्तु पिशाचाः सप्ततालतः ।।
षष्ठतालेन कुब्जांश्च तत्तच्छ्रेष्ठान्तराधमाः ।
तत्तदुत्तममध्यादिभेदेनैव भवन्त्यतः ।।
पञ्चतालोत्तमेनैव विघ्नेशं स्कन्दमेव च ।
वामनं च करोत्वस्य भूतान् मध्येन वाधमात् ।।
बालांस्तु वेदतालेन कुर्याद् भूतगणांस्तु वा ।
त्रितालेन तु कर्त्तव्या यक्षकिन्नरजातयः ।।
द्वितालेनैव कूष्माण्डांस्तालात् कूर्माकृतिर्हरिः ।
यथोक्तप्रतिमायां मूर्तिभेदवशादिह ।।
विभज्यार्काङ्गुलं तालं गोलकं वा कलां तथा ।
विदिताद्यङ्गुलं मानमङ्गुलाष्टांशकं यवम् ।।
v2.c83.47
ज्ञेयं तालं कीर्तिवक्त्रं तथा जलचराः मताः ।
विहङ्गाश्च द्वितालाः स्युः कुञ्जराश्च त्रितालकाः ॥
चतुस्तालाश्च तुरगाः किन्नराः पञ्चतालकाः ।
गणनाधश्च षट्तालो यक्षाश्चैवं प्रकीर्तिताः ॥
सप्तताला मानवाश्च अष्टांशा दिव्ययोषितः ।
नवांशा सर्वदेवाश्च सम्प्रोक्ता वै तथैव च ॥
दशतालो भवेद्रामो विष्णुर्वैरोचनस्तथा ।
सिद्धास्तथा जिनवरास्तथा कार्या दशांशतः ॥
एकादशांशा रुद्रश्च भूतानि च तथैव च ।
द्वादशांसा मधुमुरौ वैताला रूपतो मताः ॥
त्रयोदश राक्षसानां दानवानां चतुर्दश ।
तालाः पञ्चदश प्रोक्ता श्वामुण्डा भृगुरूपकः ॥
नटामुकुटचन्द्रालङ्कृताः षोडशतालतः ।
कार्याः षोडशतालान्ताः शास्त्रतो नाधिकास्ततः ॥
v2.c83.48
७. मानभेदपूर्वकं प्रतिमा-विधानम्
v2.c83.49
अथातः प्रतिमासक्षणं वक्ष्ये । बेरस्य लम्बमानं पूर्वमेव परीक्ष्य कारयेत् । अष्टषष्ट्यङ्गुलार्यतां चतुर्विंशत्यङ्गुलविस्ताराँ द्व्यङ्गुलघनां लघ्वीं श्लक्ष्णां फलकां गृहीत्वा परितस्त्र्यङ्गुलं नीत्वा मानसूत्रं विन्यस्य प्राक्पश्चिमभागस्थानि सूत्राणि प्रसारयेत् । मध्ये सूत्रं विन्यस्य मध्यसूत्रादेकाङ्गुलं पुटपर्यन्तसूत्रं तदेव दृगन्तरी स्यात् । तस्मात् त्र्यर्धाङ्गुलं नेत्रपर्यन्तं तस्माद् द्वयर्धाङ्गुलं मुखपर्यन्तं तस्माद् द्व्यङ्गुलं कर्णपर्यन्तं तस्मात् त्र्यङ्गुलं कक्षपर्यन्तं तस्माद्दशाङ्गुलं बाहु पर्यन्तमेवं त्रयोदश सूत्राणि विन्यस्य परभुजस्य मणिबन्धावसानं मानसूत्रद्वयमेव तप्तारं नीत्वाभ्यन्तरं भवेत् । पुरतो मध्यसूत्रयोगं मध्यसूत्रं, तस्माद् द्व्यङ्गुलं पुटसूत्रं, तस्माद्वियवाधिकं द्व्यङ्गुलं नेत्रसूत्रं तदेव वक्त्रबाह्यं, तस्मात् त्र्यङ्गुलमन्तर्भुजावधिकं तदेव कक्षपर्यन्तं, तद्वदेव चतुरङ्गुलं बाहुपर्यन्तं तदेव मध्यमेध्यं कक्षाभ्यन्तरगतमङ्गपार्श्वमध्यं स्यात् । तस्माद् द्व्यङ्गुलं कर्णपर्यन्तं तस्मात् त्र्यङ्गुलं शिरःपृष्ठावसानकं तदेव परभुजावधि भवतीति । एवं दक्षिणोत्तरगतानि सूत्राणि षट् च विन्यस्य तत्तत्सूत्रसङ्गे सुषिरं कृत्वा तन्तुना यवान्तरमात्राणि सूत्राणि सुषिर संजोज्याग्रे प्रोतकुण्डलं लोहमयं मृन्मयं वा संबध्य सूत्राणि प्रलम्बयेत् ।
v2.c83.50
स्थानकस्य मध्यसूत्रं मौलिशिखामणेर्मध्ये मूर्ध्नो भ्रूसङ्गस्य नासाग्रस्यं च मध्ये कण्ठस्य हृदयस्य कुक्षेर्नाभेर्योनेः पादयोश्च मध्ये प्रलम्बयेत् । तत्सूत्र संस्पर्शं नासाग्रं कुक्षिमध्यं च । सूत्रान्मौल्यग्रान्तं
v2.c83.51
षडङ्गुलम्, हनुमध्यं यवाधिकचतुरङ्गुलं, हिक्कान्तं चतुरङ्गुलं, हृन्मध्यं द्वयर्धाङ्गुलं, नाभिष्षड्यवमेकाङ्गुलं, योनिमूलं द्व्यङ्गुलम्, ऊरुमध्यं त्र्यङ्गुलं, जान्वन्तरं षडङ्गुलं, जङ्घान्तरमष्टाङ्गुलं, नलकान्तरं षोडशाङ्गुलम्, (अष्टाङ्गुलं वा? ) सूत्रात्पूर्वं सार्धाङ्गुल मङ्गुष्ठाग्र सूत्रात्परतो द्वयर्धाङ्गुलमेवं मध्यसूत्रवशान्मानयेत् । बाहुपर्यन्तमेव पार्श्वसूत्रं स्यात् । चूडामणौ मूर्ध्नि कर्णपाल्यन्तरे बाहूकूर्परयोः पार्श्वे जानुजङ्घागुल्फानां मध्ये प्रलम्बयेत् । मौलौ मूर्धनि कृकाटिकाककुद्रंशस्फिक्पार्ष्णीनां मध्ये पृष्ठमध्यसूत्रं प्रलम्बयेत् । शिरःपार्श्वे वक्त्राबाह्वो गण्डपार्श्वे चूचुकाग्रमध्ये श्रोणिपार्श्वे चोरुजङ्घयोर्मध्ये वक्त्रबाह्यसूत्रं प्रलम्बयेत् । एतानि षट् च पीठावलम्बान्यन्यानि तत्तदङ्गसंस्पर्शान्येव लम्बयेत् । आसनस्योर्ध्वकायस्य पूर्ववन्मध्यसूत्रादीनि षट् सूत्राणि आसनस्योपरि लम्बयेत् । मध्यसूत्रं जानूपरिष्टात्केशान्तं तन्मध्यगं (बाहोरुपरिष्टात्केशान्तं तन्मध्यगं जान्वोः पार्श्वाभ्यां बाहुभ्यां च मध्यगं सूत्रं ? ) प्रलम्बयेत् । सूत्राद्दामजान्वन्तरमूर्ध्वकायसमं दक्षिणजान्वन्तरं तदेव चतुरङ्गुलं त्र्यङ्गुलं यवोनं वान्यत्सर्वं पूर्ववत्कारयेत् ।
v2.c83.52
अथात उपमानं वक्ष्ये । परभुजस्य मणिबन्धान्तरमष्टाङ्गुलमुष्णीषाच्छङ्खचक्रान्तरं मुखं, मध्योदरात्कूर्परान्तरं षडङ्गुल, अभयहस्तस्य मध्यमाङ्गुलाग्रान्नूचुगन्तरं त्रयोदशाङ्गुलं स्वागतस्य मध्यान्ताभ्यन्तरं दशाङ्गुलं, वरदस्य मध्याच्छ्रोण्यन्तरं नवाङ्गुलं, वामहस्तस्य मध्याङ्गुलान्मेढ्रान्तरं षडङ्गुलं, ऊरुमूलान्तरमेकाङ्गुलमूरुमध्यान्तरं द्वयर्धाङ्गुलं, जान्वन्तरं चतुरङ्गुलं, जङ्घयोर्मध्यं पञ्चाङ्गुलं, नलकान्तरं षडङ्गुलम्, अक्षयोरन्तरं पञ्चाङ्गुलं, पाष्र्ण्यन्तरं चतुरङ्गुलं, तन्मध्यान्तरं षडङ्गुलम्, अङ्गुष्ठान्तरमष्टाङ्गुलं, शयनस्य तिर्यग्गतब्रह्मसूत्रस्य दक्षिणतो मुखं त्र्यङ्गुलं पादाङ्गुष्ठयोर्मध्यं विंशत्यङ्गुलं, पर्ण्यन्तरं भागं, जान्वोरन्तरं चतुर्दशाङ्गुलं स्यात् । एवमुपमानं लक्षयेत् ।
v2.c83.53
ब—अथ देवेशस्योत्तमदशतालवशान्मानं वक्ष्ये । त्रियवाधिकमेकाङ्गुलमुष्णीषं, केशान्तं त्र्यङ्गुलं, दृक्सूत्रं त्रियवाधिकचतुरङ्गुलं तत्समं पुटान्तं, तत्समं हन्वन्तं, गलमर्धाङ्गुलं, हिक्का यवोनचतुरङ्गुलं, हिक्काया हृदग्रान्तं हृदयान्नाभ्यन्तं नाभेर्मेंढ्रान्तं क्रमात्त्रियवाधिकत्रयोदशाङ्गुलं, मेढ्रादूर्वायामं त्रियवोनसप्तविंशत्यङ्गुलं. जानु त्रियवाधिकं चतुरङ्गुलं, जङ्घा चोरुसमायामा, पादं सत्रियवचतुरङ्गुलं, पादायामं सप्तदशाङ्गुलं, हिक्कासूत्रादधस्ताद्बाहुदीर्घं-सप्तविंशत्यङ्गुलं, कूर्परं द्व्यङ्गुलं, प्रकोष्ठमेकविंशत्यङ्गुलं, तलं सप्ताङ्गुलं, तन्मध्यमाङ्गुलायामं षडर्धाङ्गुलं, तर्जनी यवाधिक- पञ्चाङ्गुलं, अनामिकातद्यवाधिका, अङ्गुष्ठं यवाधिकभागं, कनिष्ठाङ्गुलं तद्यवाधिकं स्यात् ।
v2.c83.54.1
अथ प्रमाणं वक्ष्ये । उष्णीषात्पूर्वकेशान्तं नवाङ्गुलं, द्विपाश्वयोस्तत्समं, पृष्ठकेशान्तं द्व्यङ्गुलं, (मुखस्य विस्तारं) चतुर्दशाङ्गुलं मुखं, द्विचत्वारिंशदङ्गुलं नाहं शिरसः, पृष्ठतः कर्णयोरन्तरं त्रयोदशाङ्गुलं, पूर्वतष्षड्विशाल्यङ्गुलं, शेषं कर्णयोस्स्थानं, भ्रुवोर्मध्यमेकाङ्गुलं केशान्ताद् भ्रुवोर्मध्यं त्र्यङ्गुलं (अष्टाङ्गुलार्धं तिर्यगुपक्षेपमक्षयामं ? ) मध्यमष्टाधार्ङ्गुलं, ग्रीवाग्रविस्तारंनवधार्ङ्गुलं, ग्रीवामूलविस्तारं बाह्वोर्पर्यन्तं चतुश्चत्वारिंशदङ्गुलं, वक्षोविशालं चतुर्विंशत्यङ्गुलं, हृदयविस्तारं विशत्यङ्गुलं स्तनयोरन्तरं चतुर्दशाङ्गुलं, (दशाङ्गुलं ? ) मध्योदरं षोडशांगुलं, श्रोणिविस्तारमष्टादशाङ्गुलं, कटिविस्तारं विशंत्यङ्गुलम् ऊरुमूलविशालं त्रियवाधिकं त्रयोदशाङ्गुलम् ।
v2.c83.54.2
ऊरुमध्यविस्तारमेकादशाङ्गुलं, जानुविस्तारं नवाधार्ङ्गुलं, जङ्घामूलमष्टाङ्गुलं जङ्घामध्यविस्तारं सप्ताङ्गुलं, नलकाविस्तारं सार्धचतुरङ्गुलम्, अक्षगुल्फान्तं पञ्चाङ्गुलं, पादविस्तारं सार्धपञ्चाङ्गुलं सार्धवेदाङ्गुलोत्सेधं, पाष्णिंविस्तारं सार्धत्रिमात्रं, (पादाङ्गुलिविस्तारम्) अङ्गुष्ठायामं चतुरङ्गुलं, तर्जनी तद्यवाधिका, तद्यवोनं मध्यमाङ्गुलं, त्रिमात्राधर्नामिला, कनिष्ठकाङ्गुलायामं त्रिमात्रं, कनिष्ठाद्यङ्गुष्ठान्तं क्रमात्सप्ताष्टाष्टार्धनवषोडशभिर्यवैरङ्गुलानां विस्तारं, ( शेषं विवरं ) बाहुमूलविस्तारं दशाङ्गुलं, बाहुमध्यं नवाङ्गुलं, कूर्परं सार्धसप्ताङ्गुलं, प्रकोष्ठमध्यधर्सप्ताङ्गुलं, मणिबन्धं चतुर्मात्रं, तलं सार्धषण्मात्रं, रुद्राष्टनवसप्तषड्चवविपुलात्यङ्गुष्ठादिकनिष्ठान्तमङ्गुल्यग्राणि, तद्यवार्धहीन सप्तवेदेषुतुर्याग्नियववमङ्गुष्ठादिनखानां विशालं, द्वियवाधिकमायामं, द्विपर्वाङ्गुष्ठमन्यानि त्रिपर्वाणि, अङ्गुष्ठमूलपर्वाधिकाङ्गुलं द्व्यर्धाङ्गुलमग्रपर्वं, तर्जनीमूलपर्वं चतुर्दशयवं, मध्यपर्वं त्रयोदशयवा, अग्रपर्वं द्वादशयवं, मध्यमाङ्गुलिमूलपव अष्टादशयवं, मध्यपर्वं षोडशयवा, अग्रपर्वं सार्धपञ्चदशयवा, अनामिकामूलपर्वं सार्धचतुर्दशयवा, मध्यपर्वं सार्धत्रयोदशयवा, अग्रपर्वं द्वादशयवा, कनिष्ठाङ्गुलिमूलपर्वं द्वादशयवा, मध्यपर्वेकादशयवा, अग्रपर्वं दशयवा, अङ्गुलीनामाग्ने द्वियवाधिकं नखाग्रं, पर्षिण्हस्तघनं वेदाङ्गुलं, तन्मध्यघनं द्व्यधार्ङ्गुलमग्रमङ्गुलीवत्क्षीणं, शुकोदरघनं द्व्यर्धाङ्गुलं, मणिबन्धात्तदायामं सयवं भागं, शुकोदरविशालं द्वियवोनं त्र्यङ्गुलं, पाष्णिहस्तविस्तारं द्वियवोनचतुरङ्गुलं, तस्याग्रे तर्जन्यादिकनिष्ठान्तनामङ्गुलीनां मूलतलं मांसलमर्ध- मात्रेण, शेषं तलं निम्नम्, अङ्गुष्ठतर्जनीमूलयोस्सार्धत्र्यङ्गुलम्, अङ्गुलीनामधो मूलसन्धिरङ्गुलम् (एकाग्रो वा नीचार्धाङ्गुलं ?) कनिष्ठिकादेशमूलात्तर्जनीमूल पार्श्वगा आयूरेखा, मध्यमाङ्गुल्यधो द्व्यङ्गुलं, तस्य षड्यवाधस्ताद्विद्यारेखा ।
v2.c83.54.3
तलमूलात्कराग्रान्तं ब्रह्मरेखा, दक्षिणे करतले चक्रशङ्खसमा रेखा भवेत् । उपक्षेपनिम्नं द्वियवम्, अन्तरावर्तं द्व्यङ्गुलम्, उपक्षेपविशालमध्यर्धाङ्गुलं, त्रियवोन्नतं हस्तिमस्तकवद्विस्तीर्णमस्तकं सोन्नतमङ्गुलम् (?)। (भ्रूतलं) भ्रूश्चतुर्यवा सार्धाङ्गुलायामा सार्धैकयवविस्तारानतार्धमात्रान्तर्या वक्रपुच्छका चापवत् । भ्रूलता स्निग्धरोमसंविता द्व्यङ्गुलं नेत्रतारं, भ्रूवस्थलादर्धाधिकाङ्गुलायामे अक्षिणी, अक्षिमण्डलमूर्ध्वाधोवर्मसंछन्नमूर्ध्ववर्म द्वादशयवमधोवर्म चतुर्यवमेतयोर्योगं नयनसूत्रम् । ऊर्ध्ववर्मविस्तारं द्वियवम्, अक्षिमोचन (?) विस्तारमेकाङ्गुलम्. ऊर्ध्ववर्म द्वादशयवमधोवमं चतुर्यवमूर्ध्ववर्मणा संस्पृशेत् । षड्यवं कृष्णमण्डलं, तस्योभयोः पार्श्वयोस्तदर्धाधिकायतौ शुक्लभागौ, कनीनिकाविस्तारायामं यवं, नेत्रान्तरक्तं यवार्धं, ज्योतिर्यवप्रमाणं, दृष्टियूंकमात्रोध्वर्वर्मततं द्वियवमधोवर्मततं यवार्धकं, वर्मणो घनमर्धयवं, नवतिः पक्ष्मरोमाणि, शेषं पक्ष्म, नासिकाप्रमध्यमूलान्तं क्रमादष्टादशषड्यवविस्तृतं, नासिकाग्रमङ्गलविस्तारं, गोजीमूलाग्रं द्व्यङ्गलोच्छ्रयं, पुष्करमष्टयवोत्सेधं, तन्मूलविस्तारं द्वियवं, मध्यविस्तारं द्व्यर्धयवम्, अग्रविशालं त्रियवं, पुटश्रोतोऽङ्गुलं, तिर्यग्यवपञ्चकं पुटस्य बहलं, यवमात्रायतान्वितं निष्पावबीजसदृशं तिलपुष्पसमाकारम् । नासिकापुटसूत्रान्नासाग्रं द्वियवार्धलम्बितं, सार्धचतुर्यवं गोजीतटं द्वियवविस्तारं, द्विवक्रा चोत्तरपाली सार्धयवविस्तृता, त्रियवार्धततं सार्धयववेदाङ्गुलायतमुत्तरोष्ठमास्थतारं तदेव ।
v2.c83.54.4
चत्वारः पुरतो दन्तास्त्रियवायामविस्तृताः, तावन्तोऽधरदन्ता द्वियवार्धततायताः, चतुर्यवायते दंष्ट्रे सदंशमुकुलोपमे ऊर्ध्वे, अधोदंष्ट्रे अर्धयवाधिके, पुरोदन्ताद्यवार्धनानायतास्तत्समविस्ताराः पञ्चोपदंष्ट्रा द्विपार्श्वगा द्वात्रिंशद् दन्तसङ्ख्या । अधरोत्तरयोर्दन्तायामसमावन्तस्तदर्धोदन्तरोपणो (?) जिह्वा षडङ्गुलायामार्धविस्तारा, घृतजिह्वाङ्गुलं (बाहु ?) कर्णरन्ध्रं कलाङ्गुलं षडङ्गुलायतं, तालुविस्तीर्णं त्र्यङ्गुलमास्यं नवयवान्तरं द्विगुणायतं षड्यवार्धमुत्सेधं, पालिका रक्ता, भागं ततमायामं द्विगुणम्, ओष्ठाधस्तात्चिचुबुका सार्धाष्टयवं, हनुस्तत्समं तस्माद्धनुचक्रं सद्द्वियवं, तदुन्नतं रुद्राक्षियवं, चिबुकं निम्नगं (?) हनोगलं गलात्कण्ठमङ्गुलार्धं, गलरेखाध्यर्धकलायामा चापसन्निभा, कर्णबन्धाद्धनोर्मध्यं दशाङ्गुलं, तस्माच्चतुष्कलं
v2.c83.55
सृक्का नेत्रादधस्तादपाङ्गनेत्रमङ्गुलम्, अपाङ्गात्कर्णमूलं षडङ्गुलं, कर्णं कलाततं, नेत्रसूत्रसमं कर्णस्रोतः, तत्कर्णतुङ्गतार (?) कर्णनालमूलं कलासार्धयवं, कर्णवर्त्ती सार्धयवतता, पाली चतुर्यवा, कर्णपिप्पली चतुर्यवविस्तारा द्विगुणायता, पिञ्छूषी द्वद्यङ्गुलायामा षड्यवविशाला कर्णवर्तीपिञ्छूषीचूलिका यवतुर्मनुतुर्ययवार्धविस्ताराः, पिञ्छूषीचूलिकाकर्णवर्त्युन्नत चूल्यन्तावदत्यर्धयवमर्धाङ्गुलं (?) कर्णचूलीपिञ्छूषीकनीनिकायवान्तरं पिप्पलीपाल्योः पाली बालेन्दुसन्निभा यवनिष्पावसदृशा, पिप्पली षड्यवायता चतुर्यविशाला, स्रोतोऽधोनेत्रसूत्रात्पिञ्छूष्यधः कर्णनालं मात्राधंघनयुक्तं, नालीं पूर्वापरी विवरं षड्यवमधोनाहं मात्रं स्यात् । कण्ठमूलादधो वपुः कार्यं, कृकाटी सार्धाङ्गुलनता तस्यापरं यवं भागं (?) तद् ग्रीवायामं तत्रार्धाङ्गुलं तारं द्वादशाङ्गुलं तं स्कन्धयोस्समे (?) कर्णबन्धादधस्स्कन्धसन्धिस्सार्धषडङ्गुलं, सप्ताङ्गुलो स्कन्धौ शोभान्वितौ, हिक्कासूत्रात्स्कन्धसन्ध्रुच्चं चतुरङ्गुलं, तन्मध्येऽध्यर्धाङ्गुलं जत्रु बाहुशिरस्सन्धिरंसान्तस्स्कन्धमूलतो नवाङ्गुलं द्वियवं, तस्माद् द्वियवं षडङ्गुल बाहुशिरो जत्रुसहितं कूर्परांसं पञ्चाङ्गुलायतं त्र्यङ्गुलायतमुत्क्षेपं समौ मुण्डितौ (?) भुजौ समनुन्नं मापयेदेवं नीत्वा भुजं नयेत् । कण्ठाधस्तात्ककुद्द्वागायताष्टकोलकं (?) ककुदः कटिसन्ध्यन्तं वंशं विंशतिर्भागाधिका तत्समं ककुदोऽधस्तात् षड्भागे कक्षोदरान्तरं (?) कक्षाधस्ताद्बाहुपर्यन्तं द्विनवं नवाङ्गुलं स्कन्धसन्धेरधस्तादंसपीठं सार्धेन्द्रियाङ्गुलं, तस्माद् द्वियवाङ्गुल असंसफलके स्तनसूत्रसमे, तत्रान्तरयोर्दशाङ्गुलं ककुद, धर·······त्रिमात्रान्तरं सप्ताङ्गुलं तद्वक्षसो मांसलं तयोस्सन्धिर्वंशतारं कलानतं वंशपार्श्वं चांसफलकाया अधो नवाङ्गुलं, बृहत्योस्तनान्तरं वन्शात्सुप्रतिष्ठाकलं तयोर्बृहतीस्तनयोर्मध्यं सप्तदशाङ्गुलं घनं बृहत्या कटिसन्ध्यन्तरं मध्यं सप्ताङ्गुलायतं तद्धनं स्याच्चतुर्भागं तदधोऽङ्गुलाधिकं कटि सार्धमुखं सार्धाङ्गुलं खण्डकान्तं खण्डस्य पुरस्तात्पायुर्भागाङ्गुलं सार्धधृतिमात्रं कटिबन्वविशालं जघनस्य वहिःपृष्ठे वंशपार्श्वद्वयोः ककुन्दरं षडर्धाङ्गुलं विशालं निम्नौ ककुन्दरस्यान्तं द्वद्यङ्गुलं बिन्दूखण्डकयोस्तिर्यक्कर्टिवेदार्धमात्रिका खण्डं द्वद्यङ्गुलं तारं सार्धतुर्याङ्गुलं स्फिगारम्भतारं नवाङ्गुलं सुवृत्तं कण्ठः कम्बुसमो वृत्तो द्विरेखावृतोऽधस्तान्नाडिकाधस्स्तद्वादशयवं कक्षाया हिक्कान्तं तावत् स्तनं कक्षादष्टाङ्गुलं षडङ्गुलं नम्रमुरः हृद् द्वियवाधिकं हृदयात्स्तनपीठतुङ्गमर्धाङ्गुलं कक्षाधारलम्बमत्युक्तं यवकोलकं स्तनपीठस्योन्नतिः कक्षस्याङ्गुल तत्पुरस्तानमुखं विप्राङ्गुलं यवं वृत्तं स्तनं यवोन्नतं स्तनाक्षं द्वियव- तारं तदधस्ताद्द्व्यङ्गुलं स्तनं हिक्का द्व्यङ्गुलं निम्नं जत्रुरेखा द्व्यङ्गुलं नाभिर्दक्षिणावर्ता षड्यवनिम्नायतेन्द्रियाङ्गुला नाभिः श्रोणिपार्श्वे त्रिकलाङ्गुलाद् द्व्यङ्गुलोर्ध्वकटिश्रोण्याश्शेषं मेढ्र-पीठं सार्धपञ्चाङ्गुलं लिङ्गायतं तारं द्विमात्रं मुष्कल्म्वं तुर्यार्थाङ्गुलं तत्समविस्तारं वृषाननसदृशं मेढ्रं रुद्राक्षाङ्गुलं प्रतिष्ठाङ्गुलं द्वियवं जानुमण्डलविष्कम्भं घनं द्वयर्धमात्रं पार्श्वबन्धं तुर्याङ्गुलं पृष्ठाज्जानुन्त्रिमात्रार्धयवविस्तारान्वितं पृष्ठजं कोलकं मध्यभागं शेषं पार्श्वयोरपि जान्वन्तादिन्द्रवस्त्यन्ने (?) तालं मत्स्यवदुन्नतं पृष्ठ-जङ्घाश्रितं मत्स्यपाष्णीं द्व्यङ्गुलविस्तारं 'ततुकपृष्ठपार्श्वयोरन्तरं तद्वहिर्गते अक्षगुल्फयोस्तुङ्गं मनुपङ्क्तियवैर्विपुलं क्रमेणाष्टादशद्वि-विंशतियवं प्रतिष्ठाधार्द्धाङ्गुलं पाष्णिंतारं तत्तुङ्गं शराङ्गुलं सार्धं प्रपदतुङ्गमङ्गुष्ठद्व्यङ्गुलं घनं शेषाणि विस्तारसमत्तुङ्गा-न्यष्टयवविस्ताराद्वैर्ध्या नखमुखपार्श्वे द्वयोस्तुर्ययवं नीत्वा नखं नयेत् । चतुरर्थचतुस्सार्धोग्न्यग्निययवैर्विश्वसार्धं (मध्यर्धं) यवैः क्रमा-न्नखानां विस्तारं तर्जन्यादिकनिष्ठान्तं त्रियवं तदर्धार्थेन नखाय-तास्तर्जन्यङ्गुष्ठयोरन्तरं चतुर्र्यवं, पर्वद्वयमङ्गुष्ठ मन्यानि त्रिप-र्वाणि, स्वतारसदृशमग्रे पर्वान्तं यवाधिकमङ्गुष्ठपर्वमूलाग्रं शेषा-ङ्गुलीनां द्वियवाधिक्यमेकैकं सर्वाङ्गुलिमूलानां मूलतलं मांसलं पाष्णिंभागे तलं पञ्चाङ्गुलायामं शेषं वर्तुलं कारयेत् । पादौ द्वौ चक्रशङ्खरेखासमन्वितौ । सर्वं सुव्यक्तं सुसम्पूर्णं बेरं सलक्षणं चक्षु-र्नन्दनमूर्ध्वकायमधः कायसममेव कृत्वा सर्वत्र विष्कम्भात्तिगुणं वृत्तं तत्परिमाणं स्यात् । सर्वेष्वङ्गेषु एकयवादिषड्यवान्तं हीना-धिक्यं न दोषाय भवति । तस्माद्यथोचितं युक्त्या कारयेदित्याह मरीचिः ।
v2.c83.56
षोडशप्रतिमादीनां विष्णुविभवसर्वतः ।
उष्णीषात्पादपर्यन्तं मानं संक्षिप्यतेऽधुना ॥
लिङ्गमानवशाद् विष्णुमूलबेरावशात्क्रमात् ।
उत्तमं मध्यमं चार्धंगर्भगेहविशालके ॥
हर्म्यतारवशाद् द्वारवशादधिष्ठानपादुके ।
हस्तमानवशाद् ग्राह्यं तालमाननवतालके ॥
यजमानवशान्मूलबेरलिङ्गाङ्गुलं तथा ।
मानाङ्गुलवशान्मानं मानद्वादशभेदकम् ॥
लिङ्गमानादिषण्मानं भोगमोक्षार्थधर्मदम् ।
हस्तादिश्वशान्मानं भोगमोक्षं प्रशंसितम् ॥
अङ्गुलं मुक्तिकामस्य कर्तुरिच्छा वशान्नयेत् ।
तस्मात्सन्मूललिङ्गादिमानं मानधृतमुच्यते ॥
v2.c83.57
लिङ्गे स्वयंभुवे ज्ञात्वा मानुषे च द्विधा भवेत् ।
स्वयंभुलिङ्गे तु शिरोमानं च संग्रहम् ॥
परिणाहे यथा स्थूलदेशे विस्तारं मानयेत् ।
मानुषलिङ्गतुङ्गे तु तच्छिरोमानकं त्यजेत् ॥
विस्तारे परिणाहे तु यदिच्छं देहं गृह्यते ।
एवं लिङ्गद्वयोत्तुङ्गे पीठमानं त्यजेद् बुधः ॥
लिङ्गशुद्धोदयं वाथ तत्तन्नाहसमं भवेत् ।
केचित्तत्त्रयमानं तु षोडशांशे विभाजिते ॥
तत्तदंशेन वृद्धिः स्याद्धीनं वा देशकालकम् ।
अथवा तत्तदंशेन लोकभूततलांशकम् ॥
नवमेकादशं चैव द्व्यधिक्यं वाथ हीनकम् ।
एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशादुच्यते ॥
मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् ।
हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥
नाभ्यन्तं मेढ्रसीमान्तं नवमानं चोत्सवोदयम् ।
तदर्थं कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ॥
शुद्धगर्भगेहं कृत्वा नन्दनन्दोदयं भवेत् ।
तदेवं नवमानं स्यान्नवतिविधमानकम् ॥
एवं गर्भगेहमानवशान्मानं प्रकल्पयेत् ।
प्रासादविस्तृते मानं गर्भगेहप्रमाणवत् ॥
शुद्धद्वारोदयं वाथ विस्तारे चायामे एव वा ।
तत्पादाधिकहीनं वा तत्तयोर्मध्यमानके ॥
समं वा पादमाधिक्यं द्वारमानं नवोदयम् ।
अधिष्ठानोदयं चैव पादतुङ्गं द्वयं ततः ॥
प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् ।
हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ॥
तालादिनवतालान्तं नवतालादिमानकम् ।
मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥
कर्तुस्तुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् ।
हन्वन्तं स्कन्धसीमान्तं स्तनान्तं हृदयान्तकम् ॥
नाभिमेढ्रविधानं स्यात्कर्तृमानं नवोदयम् ।
एतेषां चाष्टमानं तज्जात्यंशैस्तु नियोजयेत् ॥
तन्मानं शिल्पिभिः प्राज्ञैः षट्शुभायादि कारयेत् ।
अशुभायादिकं चोक्तं त्रिशद्भागे विभाजिते ॥
तद्भागेकेन वृद्धिः स्याद् यशच्छुभायादिसंभवम् ।
सकलं चोत्सवादीनां यच्छुभांशावसानकम् ॥
अंशकं मानमेवोक्तमङ्गुलैर्मानमुच्यते ।
v2.c83.58
यल्लिङ्गतुङ्गं संग्राsynchronizeह्य चतुर्विंशच्छतान्तकम् ॥
लिङ्गाङ्गुलमिति प्रोक्तं बेरं तालवशादपि ।
कृत्वा बेराङ्गुलं प्रोक्तं मानाङ्गुलमिहोच्यते ॥
यवताराष्टमात्रं स्याद् देवानामाङ्गुलं भवेत् ।
मध्यं मुनियवाङ्गुल्यं षट्पञ्चाङ्गुलायतम् ॥
मानाङ्गुलमिति प्रोक्तं देहलब्धाङ्गुलं भवेत् ।
अङ्गुलद्वयमारभ्य जात्यंशं विनोद्यं स्यात् ॥
द्वित्र्यङ्गुलं समारभ्य मध्ये भूताङ्गुलमारभेत् ।
सप्ताङ्गुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥
पञ्चविंशच्छतान्तं स्याद् यच्छुभायादसंभवम् ।
नागं नन्दं गुणं चाष्टनववेदगुणस्तथा ॥
भानुपङ्क्त्यष्टहर्क्षमुनिनन्दक्षयं क्रमात् ।
शेषमायं व्ययं योनिश्च नक्षत्रं वारमंशकम् ॥
दरिद्रं दारनाशं च श्रीकरं विजयाद्भुतम् ।
भुक्तिर्मुक्तिश्च भोगस्तु चार्थलाभद्वयावहम् ॥
कीर्तिदं पुष्कलं चैव द्वादशं च तत्फलम् ।
सिद्धिदं विजयं चैव श्रीकरं चार्थहानिकम् ॥
भोगं च शत्रुनाशं च चक्षुरायार्थलाभकम् ।
मुदितं सौख्यकं चैव दशधा व्ययस्य फलम् ॥
आयं सर्वहरं पुण्यं व्ययं सर्वहरं सुखम् ।
आयाधिक्यं व्ययं हीनं सर्वसंपत्करं सदा ॥
यत्फलं शुभयुक्तं चेदायहीनं तद्द्षणम् ।
पूज्यं व्ययं सममेवं तत्र दोषो न विद्यते ॥
ध्वजः सिंहो वृषो हस्ती स तेषां शुभयोनयः ।
जन्मद्वयं चतुष्षष्टिभिरष्टनन्दशुभर्क्षकम् ॥
नामजन्मादिनन्दं च गणनैस्तु विधीयते ।
कर्तृराश्यादिनारभ्य च मीनं द्वितीयान्तकम् ॥
तृतीये मीनजक्षादौ पूर्ववत् गुणनैस्तु वा ।
तस्मात्तृतीयपर्यन्तमृक्षैः सर्वशुभावहम् ॥
गुरुशुक्रबुधश्चन्द्रमुख्यवारं प्रशस्यते ।
तस्करोधनं षण्डञ्च प्रेष्यान्यानि शुभांशकम् ॥
वर्ज्यं षष्ठाष्टमं राशिमन्यत्सर्वं शुभं भवेत् ।
गजः सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥
एकनेत्रं द्विनेत्रं वा संयुक्तांशं विसर्जयेत् ।
शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ॥
यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते ।
तेषामधिकगुणं वान्यं सर्वदोषकरं भवेत् ॥
v2.c83.59
तस्मात्परिहरेद् विद्वान् जन्मेवं प्रकल्पयेत् ।
तन्मात्राङ्गुलमानोच्चमात्मार्थं प्रयोजयेत् ॥
कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमः ।
v2.c83.60
अन्योन्यमन्यतो ग्राह्यं चोक्तवत्तत्तवित्तमः ॥
ब्रह्माविष्णुश्च रुद्राणां बुद्धस्य जिनकस्य च ।
अन्येषां च प्रतिमानमेवं मानं तु संग्रहम् ॥
एवं तु चोत्सवादीनां स्थावरजङ्गमादिनाम् ॥
सर्वेषां देवदेवीनां शयनस्थानके चासने ।
मानसूत्रविधिं सम्यग्लक्षणं वक्ष्यतेऽधुना ॥
बेरायामसमं वापि त्रिपादं चार्धमेव वा ।
आयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् ॥
देहलब्धाङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम् ।
एवं प्रलम्बफलकालक्षणं चतुरश्रकम् ॥
तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन च ।
चतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥
आसनस्योपरि स्थाप्य मध्ये बेरं विनिक्षिपेत् ।
सपादबेरायतं वाप्यर्धेनाङ्घ्रितुङ्गकम् ॥
पादतारं यथायुक्त्या कारयेत्तक्षकेन तु ।
फलका चासने चैव मानसूत्रं प्रसारयेत् ॥
कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत् ।
सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥
तन्मध्ये सुषिरं कृत्वा बन्धयेच्छल्पिवित्तमः ।
फलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥
पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत् ।
स्थानके चासने चापि पञ्चसूत्रमुदीरितम् ॥
मुखान्तं द्विद्विमात्रं स्याल्लम्बं सप्तमिति स्मृतम् ।
तत्पृष्ठशिरः पार्श्वे तु वक्रान्तं रज्जुं लम्बयेत् ॥
नवसूत्रमिति प्रोक्तमेकादशमिहोच्यते ।
कक्षतारं द्वयं सूत्रं लम्बयेद् रुद्रसूत्रकम् ॥
अथवा पृष्ठमध्ये तु सूत्रं हन्वन्तं लम्बयेत् ।
चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥
अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत् ।
पुटपार्श्वौ मुखान्तौ च कुक्षौ वा बाहुपार्श्वकौ ॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादशस्तथा ।
परहस्तौ पुटपार्श्वे सूत्रं त्यक्त्वा चतुष्टयम् ॥
शेषं तु सर्वसूत्रं स्यादांसने च प्रकल्पयेत् ।
v2.c83.61
स्थानके ब्रह्मसूत्रं स्याल्लम्बयेत्तु विचक्षणः ॥
शिखामणौ तु मौल्यग्रे मध्यमे मौलिमध्यमे ।
मौलिमूले च पट्टे च ललाटस्य तु मध्यमे ॥
भ्रुवोर्मध्ये च नासिमध्ये हनूमध्यमे ।
हिक्काया मध्यमे चैव तथा हृदयमध्यमे ॥
तस्याधो नाभिमध्ये च मेढ्रमध्ये तथैव च
ऊरुमूलद्वयोर्मध्ये जान्वोर्मध्यमे तथा ॥
नलकाद्वयोर्मध्ये च पाष्ण्योर्मध्यमे तथा ।
तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥
एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधः
सूत्राच्छिखामाणि स्याद् द्वयन्तरं द्वादशाङ्गुलम् ॥
सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवत् ।
सूत्रं ललाटमध्यं तद् द्वयन्तरं द्वयङ्गुलं भवेत् ॥
हिक्कामध्यं तु सूत्रान्तं द्वयन्तरं तु षडङ्गुलम् ।
तत्सूत्राद्धृदयान्तं च द्वयन्तरं चार्थमात्रकम् ॥
तत्सूत्रान्नाभिसामान्तं द्वयन्तरं तु शिवाङ्गुलम् ।
तत्सूत्रान्मेढ्रमूलान्तं द्वयन्तरं तु गुणाङ्गुलम् ॥
स्थानके चासने वापि स्थानकेषु विशेषतः ।
पार्श्वसूत्रद्वयं काये द्वयन्तरं तदिहोच्यते ॥
तत्सूत्रादूरुमूलान्तं द्वयन्तरे तद् द्विमात्रकम् ।
सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥
तत्सूत्राज्जङ्घयोर्मध्यं द्वयन्तरं तु षडङ्गुलम् ।
सूत्रान्तं नलकान्तं स्यात्सार्धसप्ताङ्गुलं भवेत् ॥
समाङ्घ्रि स्थानकं कुर्यात्कायमृज्वायतं भवेत् ।
पादङ्गुष्ठद्वयोर्मध्ये द्वयन्तरं चाष्टमात्रकम् ॥
तलमध्यद्वयोर्मध्ये द्वयन्तरं तु पडङ्गुलम् ।
तत्पार्ष्णिंश्च द्वयोर्मध्ये च द्वयन्तरं वेदमात्रकम् ॥
नलकान्तद्वयोर्मध्ये द्वयन्तरं तु रसाङ्गुलम् ।
जङ्घामध्यद्वयोर्मध्ये द्वयन्तरं तु शराङ्गुलम् ॥
जानुमध्यद्वयोर्मध्ये द्वयन्तरं वेदमात्रकम् ।
ऊरुमध्यद्वयोर्मध्ये द्वयङ्गुलं चान्तरं भवेत् ॥
ऊरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत् ।
हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥
श्रोण्यात् कूर्परं पार्श्वं च द्वयन्तरं तु षडङ्गुलम् ।
प्रकोष्ठात्कटद्यन्तर द्वयन्तरं च त्र्यङ्गुलम् ॥
अथवा द्वयङ्गुलं वापि मणिबन्धं दशाङ्गुलम् ।
v2.c83.62
मध्याङ्गुलं च पार्श्वं च द्वयन्तरं दशमात्रकम् ॥
एवं तु देवदेवीनां स्थानके चासनेऽपि वा ।
ऊर्ध्वकायसमं कुर्यात्पद्मासनविशालकम् ॥
जानूर्ध्वोकेशपर्यन्तं तत्समं त्रिभुजाविति ।
मानयेज्जानुबाह्ये तु बाहुबाह्यं तु तत्समम् ॥
बाहुजानुद्वयं चैव सव्यापसव्यं मानयेत् ।
मेढ्रान्तं गुल्फस्याक्षान्तं द्वयन्तरं तु षडङ्गुलम् ॥
श्रोणिकूर्परपार्श्वे तु चान्तरं तु षडङ्गुलम् ।
प्रकोष्ठायतनं चैव पञ्चांसौ उपरि विन्यसेत् ॥
अर्धन्त्तिस्यासनं चेत्तु चैक पादं प्रलम्बयेत् ।
तज्जानुपार्श्वके तस्य द्वित्र्यङ्गलोनमेव च ॥
तत्सूत्राल्लम्बपादादौ द्वयन्तरं द्वादशाङ्गुलम् ।
सर्वासां देवदेवीनामेवं प्रोक्तं तदासनम् ॥
पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत् ।
तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यभे ॥
तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत् ।
जघनस्य द्वयोर्मध्ये चोरुद्वयोश्च मध्यमे ॥
पृष्ठजानुद्वयोर्मध्ये पाष्ण्योर्मध्ये च लम्बयेत् ।
एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥
कर्णयो सुषिरमध्ये पार्श्वकायस्थ मध्यमे ।
गुल्फस्य मध्यमे चैव पार्श्वसूत्र प्रलम्बयेत् ॥
पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमे ।
उरुजान्वोर् यथादेशे तर्जन्यङ्गलमध्यमे ॥
कक्षसूत्रात्कटिपार्श्वेऽपरे चाङ्गलाष्टकम् ।
शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥
बाह्यके मध्यमे वापि कटी च पुटपार्श्वके
एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥
परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम् ।
सर्वाङ्ग च ऋजुं कुर्यात्पूर्वापरयोर् योजयेत् ॥
ऋज्वाङ्गकभावं सामान्यमिति विद्यते ।
सर्वासां देवदेवीनां भङ्गमानमिहोच्यते ॥
आभङ्गं समभङ्गं तु चातिभङ्गं त्रिधा भवेत् ।
त्रिचतुष्पञ्चमात्रं स्यात्तुङ्गमानमितिक्रमात् ॥
उष्णीशमध्यमे चैव ललाटस्यैव मध्यमे ।
नासिकाग्रस्य मध्ये तु हिक्कायथोक्तपार्श्वके ॥
यथोक्तचूचुकस्यान्तं नाभिपार्श्वे यथोक्तवत् ।
यथोक्तश्चोरुगुल्फस्य पार्श्वसूत्रं प्रलम्बयेत ॥
v2.c83.63
एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यते ।
उष्णीषस्य तु यथापार्श्वे ललाटस्य तु पार्श्वके ॥
यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमे ।
नाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥
एवं तु लम्बयेत् सूत्रं समभङ्गमिति स्मृतम् ।
उष्णीषस्य पूर्वपार्श्वे तु यथोक्तं नेत्रमध्यमे ॥
स्तनपार्श्वे चोरुमध्ये जानुजङ्घा च मध्यतः ।
तद् गुल्फाक्षयोर्द्वयोर्मध्ये द्वयन्तरं तु गुणाङ्गुलम् ॥
जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत् ।
ऊरुमूलद्वयोर्मध्ये द्वयन्तरं द्वयर्धमात्रकम् ॥
अङ्गुष्ठाग्रद्वयोर्मध्ये द्वयन्तरं द्वादशाङ्गुलम् ।
आभङ्गात्तरं प्रोक्तं समभङ्गमिहोच्यते ॥
तत्पादाङ्गुष्ठद्वयोर्मध्ये द्वयन्तरं षोडशाङ्गुलम् ।
पाष्ण्र्यन्तरं चतुर्मात्रं दशाङ्गुलं जानुकान्तकम् ॥
ऊरुमूलद्वयोर्मध्ये द्वयन्तरं त्वङ्गुलं भवेत् ।
एवं तु समभङ्गं स्यादतिभङ्गमिहोच्यते ॥
पाष्ण्र्यन्तरं शराङ्गुल्यं तत्पादाङ्गुष्ठयोरग्रके ॥
तद्द्वयोर्मध्यमे विशदङ्गुल्यं द्वयन्तरं भवेत् ॥
तज्जानुद्वयोर्मध्ये द्वयन्तरं द्वादशाङ्गुलम् ।
ऊरुमूलद्वयोर्मध्ये सार्धद्व्यङ्गुलकान्तरम् ॥
एवमतिभङ्ग स्यादेतानि युक्तितो न्यसेत् ।
एवं त्रिभङ्गसूत्रं तु द्वयन्तरं मानमुच्यते ॥
सूत्रात्तु तल्ललाटान्तं द्वयन्तरं च द्विमात्रकम् ।
तत्सूत्राज्जानुकान्तं च द्वयन्तरं तु षडङ्गुलम् ॥
तत्सूत्रात् हृदयान्तं च द्वयन्तरं चाङ्गुलं भवेत् ।
तत्सूत्रान्नाभिसीमान्तमध्यर्धाङ्गुलकान्तरम् ॥
तत्सूत्रान्येठूसीमान्तं द्वयन्तरं तु गुणांशकम् ।
तत्सूत्रादुरूमध्ये तु द्वयन्तरं च द्विमात्रकम् ॥
तत्सूत्राज्जानुकान्तं स्याद् रसमात्रान्तरं भवेत् ।
तत्सूत्रं नलकान्तं स्याद् द्वयन्तरं चाष्टमात्रकम् ॥
स्थितपादान्तरे चैव कुर्यात्तु वर्धकिस्तथा ।
नासाग्रे कुक्षिदेशे तु सूत्रस्य स्पर्शनं भवेत् ॥
शक्तीनां कुक्षिदेशे चैकाङ्गुलान्तरं तु वा ।
शक्तीनां पूर्वहस्तं तु स्तनान्तं कटिकाग्रकम् ॥
तदङ्गुष्ठावसानान्तं च द्वयन्तरं चतुरङ्गुलम् ।
तच्छ्रेण्यात् कूर्परान्तं तु द्वयन्तरं षडङ्गुलम् ॥
अंसादालम्बनं हस्तं द्वयन्तरं पूर्ववद् भवेत् ।
v2.c83.64
तत्तद्विचित्रवर्णादिभूषणद्यैरलङ्कृतम् ॥
सर्वेषां वास्तुवस्तूनि प्रतिमादि यथोक्तवत् ।
कारयेत्सर्वसम्पत्त्यै भुक्तिमुक्तिफलप्रदम् ॥
अज्ञानाद् वास्तुवस्त्वादि विपरीतं चेद् विपत्करम् ।
तस्मात्परिहरेद् विद्वान्यथा पूर्वोक्तं सर्वतः ॥
एवं प्रोक्तं वास्तुवस्त्वादि हर्म्यैः प्राकाराहैर्मण्डपाद्यैश्च शालाभिः ।
भूपालाङ्गं भूपतीनां च लिङ्गैर्र देवादीनां कारयेत्सम्पदार्थम् ॥
v2.c83.65
प्रासादमानोद्भूवार्चा प्रमाणैस्त्रिविधोदिता ।
सीमागर्भद्वारमानं तुर्यो हस्ताङ्गुलैविधिः ॥
आदौ सीमा पुनर्दर्भ द्वारमानं तृतीयकम् ।
हस्ताङ्गुलक्रमोक्तं च आर्चामानं चतुर्थकम् ॥
सीमार्धं च षडंशोनं हस्तात्तुर्यकरान्तगम् ।
इषुरसात्मकहस्ते स्थिता सीमा त्रिभागतः ॥
पादोद्भूवा दशान्तं च षडंशोना ह्यमा तथा ।
पञ्चमांशा च पादोना हस्तविंशतिकावधि ॥
त्रिंशद्धस्ते षडंशेन त्रिभागेन प्रकल्पयेत् ।
सप्तांशेऽर्चामानं त्यक्तार्धं चत्वारिंशदंशकैः ॥
अष्टमांशं शतार्थे तु त्रिभागोनां प्रकल्पयेत् ।
सीमामानोद्भूवाख्याता ऊर्ध्वार्चा तु तथोत्तमा ॥
मध्यमा द्वादशांशोना अष्टांशोना कनिष्ठिका ।
ज्येष्ठमध्याधमाः ख्याताः सीमामाने त्रिधोदिताः ॥
—इतिसीमामानोद्भूवार्चा
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
चतुर्भागैश्च द्वै भित्ती शेषं गर्भ गृहं मतम् ॥
गर्भ गृहत्रिभागैश्च हार्चा कार्या सुशोभना ।
दशांशोना मध्यमा च पञ्चांशोना कनीयसी ॥
—इतिगर्भ मानम्
द्वारमानोद्भूवां वक्ष्ये हार्चां सर्वत्र शोभनाम् ।
ऊर्ध्वाऽऽसनस्था शय्यास्था प्रत्येका मानसंभवा ॥
तत्त्वयुग्मोद्भूवे द्वारे हार्चामानं त्रिधोदितम् ।
षट्चन्द्रौ तत्त्वेन्दू शक्राः ऊर्ध्वार्चांसङ्ख्या मता ॥
आसनस्था पूर्वमाने शक्रविश्वसूर्यांशतः ।
स्थितासना च केशान्तं प्रमाणं सूत्रतः स्मृतम् ॥
—इतिद्वारमानोद्भूवार्चा
v2.c83.66
हस्ताङ्गुलक्रमेणैव अर्चा प्रासादमानतः ।
तस्यानुक्रम उक्तश्च पङ्क्तसोपानसञ्चयः ॥
रुद्रादौ चैव दिग्वृद्धिर्हस्तैकाद्वेदहस्ततः ।
पक्षवृद्ध्यादिषूश्चान्त सन्धार्तांगुलोद्भवा ॥
एतन्मानोद्भवा ज्येष्ठा त्रिधोदितक्रमांगता ।
त्यक्तविंशत्यंशा मध्या दशांशोना कनीयसी ॥
उक्तमूर्ध्वार्चाप्रमाणं शय्यास्था त्वेकमानतः ।
न्यूना न्यूनाधिकार्थानां प्रमाणमिति सम्भवेत् ॥
हस्तपादादिवृद्धिश्च क्रमेण परिकीर्तिता ।
हस्ताद्यं तुर्यपर्यन्तमव ऊर्ध्वं न कारयेत् ॥
त्र्यङ्गुलतो दिगृहस्तान्तं वृद्धिं कुर्यादनुक्रमात् ।
दिगुत्तरं शतार्धान्तमेकैकाङ्गुलवृद्धितः ॥
विंशत्यंशैः कनिष्ठोना ज्येष्ठा तदंशवर्धनात् ।
इत्यादिकं तथाप्रोक्तं त्रिविधं मानमेव हि ॥
आसनस्थोद्भवा ख्याता शयनस्था क्रमोद्भवा ।
स्थित्वा शयनकेशान्तं प्रमाणमेतत्सम्भवम् ॥
v2.c83.67
यत्किञ्चित्प्रतिमायां विभजेन्नवभागतः ।
स्वकीयाङ्गुलमानेन भागं वै द्वादशाङ्गुलम् ॥
अष्टोत्तरशतं सङ्ख्यैरङ्गुलैरुच्छ्रयो भवेत् ।
नवतालः स विज्ञेयो व्यवहारे प्रसिद्धयति ॥
नवताले ततो वृद्धौ मस्तोर्ध्वे चतुरङ्गुलैः ।
विख्यातोऽर्चायमको द्वादशोत्तरशताङ्गुलः ॥
उष्णीषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते ।
तालो ललाटाद् गलान्तं सर्वत्रैव मुखे क्रमः ॥
त्र्यङ्गुलं च ललाटं स्यादङ्गुलं नेत्रसूत्रकम् ।
नेत्रसूत्रे तु कर्तव्या नासिका चतुरङ्गुला ॥
गोजका चैकमात्रा स्यादधरं त्रियववान्तरम् ।
ओष्ठो यवैः पञ्चभिः स्याद्धनुः सार्धाङ्गुला भवेत् ॥
विस्तारे वै द्वधङ्गुलं गलमर्धाङ्गुलं मतम् ।
ग्रीवा सार्धाङ्गुला स्तन-सूत्रं त्रयोदशाङ्गुलम् ॥
द्वादशाङ्गुलका नाभि उदरं चतुरङ्गुलम् ।
वलिकात्रयसम्भुक्तं गुह्यमष्टाङ्गुलं तथा ॥
पञ्चमात्रोद्भवं मेढ्रं वृषणश्चतुरङ्गुलः ।
. . . . . ॥
चतुर्विशत्यङ्गुला स्याज्जङ्घा जानुयुगाङ्गुलम् ।
जङ्घामानेन नलको गुल्फः स्याच्चतुरङ्गुलः ॥
उच्छ्रयः कथितश्चैवं मस्तान्तो नवतालकः ।
v2.c83.68
षट्त्रिंशदङ्गुलो मध्यो विस्तरं शृणु सम्प्रति ॥
चन्द्रोपमं ललाटं स्याद्विस्तारे चाष्टमात्रकम् ।
आयामे द्वयङ्गुले नेत्रे विस्तारे चाङ्गुलयते ॥
नासोर्ध्वं च भवेन्मात्रं द्विमात्रं नयनान्तरम् ।
सार्धाङ्गुला च नासा स्यात्पुटिः स्याद् द्वियवान्तरा ॥
निष्पावसदृशी श्रोत्रपुटिरर्धाङ्गुला तथा ।
पिप्पली पुटितुल्या च पिच्छली\* चतुरङ्गुला ॥(चम्पिका)\*
हनुका द्वयङ्गुलायामे गण्डौ वृत्तौ षडङ्गुलौ ।
द्वादशाङ्गुले विस्तारे कर्णौ चैककमङ्गुलम् ॥
कर्णपाश्र्वं द्विमात्रं च तत्तुल्यं चोन्नतौ भवेत् ।
अङ्गुष्ठाङ्गुलमायामे कर्णौ वै लक्षणान्वितः ॥
हनुकेशान्तयोर्मध्ये मानं षट्त्रिंशदङ्गुलम् ।
ग्रीवाष्टांशा परिणाहे चतुर्विंशतिमात्रका ॥
अष्टाङ्गुलो तथा स्कन्धौ स्तनोधर्वे द्वादशाङ्गुले ।
कक्षास्थानं प्रकोष्ठाम्यां षोडशाङ्गुलमीरितम् ॥
प्रकोष्ठान्मणिबन्धश्चाऽङ्गुलान्यष्टाऽथवा दश ।
सप्ताङ्गुलं करतालं मध्यमा पञ्चमात्रका ॥
तर्जनी चाऽनामिका च हीना च स्याच्चतुर्यवैः ।
अनामिका पञ्चयवैर्हीना सा स्यात्कनिष्ठिका ॥
अङ्गुष्ठं स्याच्चतुर्मात्रं तालार्धं च करोर्ध्वकम् ।
पञ्चाङ्गुलं च विस्तीर्णं कुर्यात्करतलं तथा ॥
अष्टयवान्तरेऽङ्गुष्ठं तर्जनी षड्यवान्तरे ।
मध्याद्यान्तिमान्ताः सप्त षट्पञ्चयवान्तराः ॥
त्रिपर्वकास्तथा सर्वा निम्ना अग्रे सुवृत्तकाः ।
पर्वाध्रेन नखास्ताभ्यस्ताभिः सार्धं विनिर्गताः ॥
सार्धद्विपर्वं चाङ्गुष्ठं पर्वाधं च नखाः स्मृताः ।
कुलरेखा च कर्तव्या अङ्गुष्ठमनुवर्तते ॥
कनिष्ठाधस्तर्जन्यन्तमायूरेखा समीरिता ।
मध्यमा च तथा रेखा धनरेखा तदूर्ध्वताः ॥
त्र्यङ्गुलो मणिबन्धः स्यान्नाहे सार्धदशाङ्गुलम् ।
गजहस्तोपमौ बाहू संस्थितौ च मनोहरौ ॥
विशंत्यङ्गुलकं चैव कक्षयोरुभयान्तरम् ।
सप्ताङ्गुलं भुजस्कन्धः कक्षे चैककमङ्गुलम् ॥
चतुर्दशाङ्गुलो मध्यो नाभ्यूर्ध्वं च षडङ्गुलम् ।
अष्टादशाङ्गुलं नाभेर्र्द्विमुखं चोरूमूलकम् ॥
एकादशाङ्गुला जङ्घा निम्नाग्रे च सुर्वर्तिता ।
v2.c83.69
सप्ताङ्गुलं जानुशिरो नलाग्रं निम्नमावृतम् ॥
वेदाङ्गुलं गुल्फमूलं नाहं च द्वादशोद्भवम् ।
षडङ्गुलं पूर्वपादः तर्जन्याः पूर्वभागतः ॥
सार्धत्र्यङ्गुलमङ्गुष्ठं तर्जनी चतुरङ्गुला ।
. . . . . ॥
अङ्गुष्ठसार्धाङ्गलोक्तं तर्जनी च तदर्धकम् ? ।
अङ्गुष्ठार्धं तु सूत्रेण कुर्यादग्रे कनिष्ठिकाम् ॥
निम्नमानक्रमः प्रोक्तः पर्वसङ्ख्याभिधीयते ।
त्रिपर्वकोद्भवश्चान्या अङ्गुष्ठं च द्विपर्वकम् ॥
पर्वाधं च नखं कुर्यात्स्मृतः सर्वेष्वयं विधिः ।
षण्मात्रः पादविस्तारश्चतुर्मात्रा च पाष्णिका ॥
पादमूलतले चापाकारे मध्योन्नते तथा ।
अक्षि ? गुल्फौ प्रकर्तव्यौ अर्धार्धमन्त्रकावुभौ ॥
स्कन्धौ समुन्नतकारौ पृष्ठमध्यस्तु वंशवत् ।
वंशक्षिप्तो ऋतपक्षौ ? सर्वावयवशोभनौ ॥
v2.c83.70
८. प्रतिमा-विधाने मधूच्छिष्ट-विधानम्
v2.c83.71
बिम्बानां तु मधूच्छिष्टक्रियां सम्यग् वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव कालमुखं महाव्रतम् ॥
वामं च भैरभं चैव तन्त्रोक्तज्योतिः षट्क्रमात ।
अगस्त्यः काश्यपश्चैव भृगुर्गौतमभागर्वाः ॥
गालवश्चेति ऋषयः प्रोक्ताः कर्षणादिरचनार्थकम् ।
तत्तन्त्रवशात्सर्वं कुर्यात् षट् संपदास्पदम् ॥
तत्तन्त्रविपरीतं चेद् विपत्तिं नित्यमावहेत् ।
अनुक्तं तत्र तन्त्रैस्तु ग्राह्यं दोषो न विद्यते ॥
विश्वकर्मा च विश्वेशः विश्वसारः प्रबोधकः ।
वृतश्चैव मयश्चैव त्वष्टा चैव मनुर्नलः ॥
मानविन्मानकल्पश्च मानसारो वहुश्रुतः ।
प्रष्टा च मानबोधश्च विश्वबोधो नयश्च तथा ॥
आदिसारो विशालश्च विश्वकाश्यपश्चैव च ।
वास्तुबोधो महातन्त्रो वास्तुविद्यापतिस्तथा ॥
पाराशरीयऋश्चैव कालयूपो महाऋषिः ।
चैत्याख्यः चित्रकश्चावर्यः साधकसारसंहितः ॥
भानुश्चेन्द्रश्च लोकज्ञः सौराख्यः शिल्पिवित्तमः ।
ते एव ऋषयः प्रोक्ता द्वात्रिंशतिः संख्यया ॥
तान् गोत्रवंशज्ज्ञात्वा शिल्पिनः सर्वत्र योग्यम् ।
शुक्लपक्षेऽथवा कृष्णे सर्वमासेषु कारयेत् ॥
v2.c83.72
शुभयोगे सुनक्षत्रे सुमुहूर्ते सुलग्नके ।
मन्त्रवत्कारयेद् गतं स्थपतिस्थापकावुभौ ॥
मधूच्छिष्टं योजयेच्छिल्पी शास्त्रतः कारयेत्क्रमात् ।
यथारूपं तथा ध्यात्वा स्थपत्याज्ञया वर्धकिः ॥
यन्मधूच्छिष्टबिम्बस्य पञ्चवर्णैरलंकृतम्
क्षणिकबेरमेवोक्तं चलं चाप्यचलं तथा ॥
तस्मात्सर्वप्रयत्नेन तत्रदोषो न विद्यते ।
अक्षैः स्फटिकसंयुक्तं लूतभाजनमेव च ॥
हस्तेन सर्वबिम्बानां ताम्रपत्रेण योजयेत् ।
अथवा पक्षकानां तु पक्षमूलेन विन्यसेत् ॥
नखसर्वेषु पादौ च संयुक्तं तु ताम्रेण च ।
अथवा शिखशल्यं स्याद् भूषणं च विशेषतः ॥
स्फटिकैः रत्नसंयुक्तं जीनपात्रेण विन्यसेत् ।
आम्रकद्रुमसर्वेषां युक्त्या वर्णं समाश्रितम् ॥
दारुकीलैश्च बिम्बानां यद्बलार्थं तु योजयेत् ।
आद्रव द्रव्यसंयुक्तं तस्माद् दोषमेवं न विद्यते ॥
सर्वालङ्कारसंयुक्तं बेरं ग्रामप्रदक्षिणम् ।
यजमानादि संवेक्ष्य सेव्यं तत्रार्चनं भवेत् ॥
तस्माद् दैवतार्यं संग्राह्य चान्यग्रामे विलासयेत् ।
पश्चात् शिल्पिशालां च बेरमेवं प्रविश्यते ॥
मानोन्मानप्रमाणेन शोभयेच्छल्पवित्तमः ।
द्विय्यङ्गुलमधिकं वाथ मधूच्छिष्टेन लेपयेत् ॥
तदूर्ध्वं मृत्तिकां लेप्य शोषयेत्तद् विचक्षणैः ।
तत्पिण्डमुत्तापयेद्वा मधूच्छिष्टोद्गमैः पुनः ॥
कर्तुरिच्छा यथा लौहैधृतम् एतत्प्रशस्यते ।
पूर्णयेज्जलं संप्रोक्ष्य त्यक्त्वा तदर्थमृत्तिकाम् ॥
बिम्बं सर्वाङ्गं संशोध्य श्वेतगन्धेनानुलेपयेत् ।
तत्पीठोपरि संस्थाप्य पुष्पमाल्यैरलङ्कृतम् ॥
ग्रामं प्रदक्षिणं कुर्यात्सर्वमङ्गलघोषवैः ।
शिल्पिशालां विशान्ति कारयेदुक्तवत्क्रमात् ॥
तस्योपाङ्गविहीनं चेत्पुनः सन्तानकं भवेत् ।
शिरो वा मध्यकायं वा हीनं चेद्विसृजेत्पुनः ॥
कर्तुं शिल्प्यचलं चित्तं कारयेत्पूर्ववद् भवेत् ।
चलं चित्ते न कुर्याच्चेत्स्थाननाशं धनक्षयम् ॥
अनेकजन्मार्जितं पुण्यं क्षिप्रमेवं विनश्यति ।
तस्मात्सर्वप्रयत्नेन पूतं च कारयेत्सुधी ॥
v2.c83.73
नवतालप्रमाणेन लक्षणेन समन्विताम् ॥
प्रतिमां कारयेत्पूर्वमुदितेन विचक्षणः ।
सर्वावयवसम्पूर्णां किञ्चित्पीतां दृशोः प्रियाम् ॥
यथोक्तैरायुधैर्युक्तां बाहुभिश्च यथोदितैः ।
तत्पृष्ठस्कन्धदेशे च क्रमाच्चामुकुटेऽथवा ॥
हेमपुष्पनिभं दीर्घं तालकं मदनोद्भवम् ।
स्थापयित्वा ततश्चाचां लिम्पेत्संस्कृतया मृदा ॥
मषीं तुषमयीं कृत्वा कार्पासं शतशः क्षतम् ।
लवणं चूर्णितं श्लक्ष्णं तथा संयोजयेन्मृदा ॥
पेषयेत्सर्वमेकत्र सुलक्षणे च शिलातले ।
वारत्रयं तदावर्त्य तेन लिम्पेत्समन्ततः ॥
स्वच्छः स्यात्प्रथमो लेपः छायायां कृतशोषणः ।
दिनद्वये व्यतीते तु द्वितीयस्स्यात्ततः पुनः ॥
तस्मिन् शुष्के तृतीयस्तु निबिडो लेप इष्यते ।
नालकस्य मुखं त्यक्त्वा सर्वमालेपयेन्मृदा ॥
शोषयेत्तत्प्रयत्नेन युक्तिभिर्बुद्धिमान्नरः ।
सिक्थकं तोलयेदादावर्चाग्नं विचक्षणः ॥
रीत्या ताम्रेण रौप्येन हेम्ना वा कारयेत्ततः ।
सिक्थादशगुणं ताम्रं रीतिद्रव्यं च कल्पयेत् ॥
रजतं द्वादशगुणं हेम स्यात् षोडशोत्तरम् ।
मृदा संवेष्टयेद्द्रव्यं यदीष्टं कनकादिकम् ॥
नालिकेराकृतिं मूषां पूर्ववत्परिशोषयेत् ।
वह्नौ प्रताप्य तामर्चां सिक्थं निस्सारयेत्ततः ॥
मूषां प्रतादयेत्पश्चात्पावकोच्छिष्टवह्निना ।
रीतिस्ताम्रं च रसतां नवाङ्गारैर्व्रजेद्ध्रुवम् ॥
तप्ताङ्गारैर्विनिक्षिप्तै रजतं रसतां व्रजेत् ।
सुवर्णं रसतां याति पञ्चकृत्वः प्रदीपितैः ॥
मूषामूर्धनि निर्माण रन्ध्रं लोहशलाकया ।
संदंशेन दृढं धृत्वा तप्तां मूषां समुद्धरेत् ॥
तप्तार्चानालकस्यास्ये वर्तिं प्रज्वलितां न्यसेत् ।
संदंशेन धृतां मूषां नमयित्वा प्रयत्नतः ॥
रसं तु नालकस्यास्ये क्षिपेदच्छिन्नधारया ।
नालकाननपर्यन्तं संपूर्णं विरमेत्ततः ॥
स्फोटयेत्तु समीपस्थं पावकं तापशान्तये ।
शीतलत्वं च यातायां प्रतिमायां स्वभावतः ॥
स्फोटयेन्मृत्तिकां दग्धां विदग्धो लघुहस्तकः ।
यथा द्रव्यमयी साऽर्चा यथा मदननिर्मिता ॥
जायते तादृशी साक्षादङ्गोपाङ्गोपशोभिता ।
यत्र क्वाप्यधिकं पश्येच्चारर्णैस्तत्प्रशान्तये ॥
नालकं छेदयेच्चापि पश्चादुज्ज्वलतां नयेत् ।
v2.c83.74
मधूच्छिष्टेन निर्माण सकलं निष्कलं तु वा ।
बद्ध्वा मृदा दृढं शुष्कमधूच्छिष्टं बहिः सृजेत् ॥
तत्र लोहार्द्रमापूर्य कारयेल्लौहमुत्तमम् ।
अथ तत्प्रक्रियां वक्ष्ये कर्मकारहिताय तु ॥
कठिना मन्दकठिना मृद्वी मृदुतरा तथा ।
मूषाकरणयोग्येति पञ्चधा मृत्तिका स्मृता ॥
पूर्वोक्तां नाकुजां वाथ मृत्स्नामादाय यत्नतः ।
मृल्लोष्टचूर्णसंयुक्तां यथायुक्ति विमर्दयेत् ॥
शुद्धाम्भसा पूगचर्मसारं युक्त्या सुयोजयेत् ।
कारयेत् कठिनामेवं शिलामुसलताडिताम् ॥
तस्मिन् गोमयसंयुक्ते स्यान्मन्दकठिना पुनः ।
मृद्भाण्डचूर्णसंयुक्तां तत्पादांशकमृत्तिकाम् ॥
पेषण्यां पेषयेद् यां सा मृद्वीति कथिता पुरा ।
तदेव गोमययुता मृत्स्ना मृदुतरा स्मृता ॥
तुषाद्यङ्गारचूर्णेन संयुक्ता घटमृत्तिका ।
कार्पासपटचूर्णेन समं मुसलपीडिता ॥
एषा मूषामृदाख्याता कर्तव्या सानया दृढम् ।
यत्किञ्चिदीप्सितं तन्तु किञ्चिन्न्यूनप्रमाणतः ॥
कृत्वा द्वितीया शुष्के तद्दृष्ट्वा लिप्त्वा पुनः पुनः ।
अन्ते गोमयसारेण लिप्त्वा श्लक्ष्णीकृते पुनः ॥
कृत्वा तस्मिन् मधूच्छिष्टपट्टं युक्तधनान्वितम् ।
इष्टप्रमाणं तत् सर्वं कृत्वा तेन सलक्षणम् ॥
भूषणादीनि सर्वाणि मधूच्छिष्टस्य तन्तुना ।
कृत्वा तिन्तिणिसारेण वेणुसारेण वा तथा ॥
कृतेन युक्तशस्त्रेण सुस्निग्धं कारयेदथ ।
पुनर्विलेपयेन्मृत्स्नामाद्र्र्रा मृदुतरं क्रमात् ॥
शुष्के तस्मिन् पुनर्लिप्त्वा मृद्वचा संशोषयेत् पुनः ।
कठिनेन पुनस्तत्र कृष्णायसपटादिभिः ॥
बद्ध्वा यथाबलं पश्चात् कठिनेन विलेपयेत् ।
आवृत्त्या लेपयेत् तेन यथातोषं यथाबलम् ॥
अप्रधानावयवगस्थाने स्याल्लोहपद्धतिः ।
एवं शुष्के पुनर्यन्त्रव
v2.c83.75
९. प्रतिमा-विधाने दोषा : तत्फलञ्च
v2.c83.76
अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु ।
यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणहितार्थिभिः ॥
अशास्त्रज्ञेन घटितं शिल्पिना दोषसंयुतम् ।
अपि माधुर्यसम्पन्नं न ग्राह्यं शास्त्रवेदिभिः ॥
अश्लिष्टसन्धिं विभ्रान्तां वक्रां चावनतां तथा ।
अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥
प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा ।
ईदृशीं देवतां प्राज्ञो हितार्थं नैव कारयेत् ।
अश्लिष्टसन्धया मरणं भ्रान्त्या स्थानविभ्रमम् ।
वक्रया कलहं विद्यान्नतया वयसः क्षयम् ॥
नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् ।
भयमुन्नतया विद्याद् हृद्रोगं च न संशयः ॥
देशनान्तरेषु गमनं सततं काकजङ्घया ।
प्रत्यङ्गहीनया नित्यं भर्तुः स्यादादपत्यता ॥
विकटाकारया ज्ञेयं भयं दारुणमर्चया ।
अधोमुख्य शिरोरोगं (तथानयापि च ?) ॥
एतैरुपैतादोषैर्या वर्जयेत् तां प्रयत्नतः ॥
v2.c83.77
बिम्ब-दोषाः
v2.c83.78
मांसवर्णैर्नखैर्वाथ पद्मताम्रनिभैस्तथा ।
संयुक्ताः प्रतिमा यत्र तत्रस्थाः सुखिनो नराः ॥
श्वेतैर्नखैर्दुःखिनश्च शूलाग्रैः स्फटिकोपमैः ।
दरिद्रतां भजन्त्येव तथैव हरितैर्नखैः ॥
(अंगुल्यः) प्रोन्नताग्राश्चेद् भवन्ति सुखदाः सदा ।
पादाङ्गुष्ठमतिक्रम्य प्रदेशिन्यनिवर्तयेत् ? ॥
लभन्ते तत्रदेशस्था नारीभोगमनुत्तमम् ।
कनिष्ठायों तु दीर्घायां बहुवित्तकरो भवेत् ॥
अङ्गुल्यः कुटिलाः शुक्ला विरला दुःखभागिनः ।
अस्वेदनौ मृदू रक्तौ पुष्पौ चारुदलाविव ॥
लग्नाङ्ग ली सुपाष्णीं च सिराविरहितौ तथाँ ।
मांसलौ गूढ़गुल्फौ च कूर्मपृष्ठसमावपि ॥
भवेतां चरणौ यस्य तत्रस्था राजवल्लभाः ।
विवृतौ शूर्पसङ्काशौ सस्वेदौ ह्रस्वपाण्डरौ ॥
रोमशौ चरणौ यस्य तत्रस्था दुःखभागिनः ।
वीर्घपादतले रेखा हलाङ्कुशनिभा यदि ॥
First 81 of 1,409 passages. Read on
Linked texts (14)
- Agnipurāṇa — Vyāsa, Sanskrit
- Samarāṅgaṇasūtradhāra — Bhoja, Sanskrit
- Mānasāra — Sanskrit
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Bṛhatsaṃhitā — Varāhamihira, Sanskrit
- Bhaviṣyapurāṇa — Vyāsa, Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Gāruḍa Upapurāṇa — Sanskrit
- Aparājitapṛcchā — Bhuvanadeva, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit
- Viśvakarmaśilpa — Viśvakarman, Sanskrit
- Vāstuśāstra (Giridhara) — Giridhara, Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit