Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.133

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.133

Language
English

v2.c83.133

हीरकं पद्मरागं च महानीलं च मौक्तिकम् ॥ मरकतं विद्रुमं पुष्पं गोमेदं लशुनं तथा । एतेभ्यश्च महादिव्या ग्रहाश्चैव यथा प्रभाः ॥ यद्धत्ते कंकणं दिव्यं शुद्धरत्नैः समावृतम् । तस्य गेहे महापोडा न भवन्ति कदाचन॥ गाङ्गेयं निकषे शुद्धं दिव्यं.........ग्रन्थितम् । महारत्नं तस्य मध्ये माणिक्यं वामदक्षिणे ॥ परिधौ हीरकं चैव तीक्ष्णधाराविवर्जितम् । हस्तकण्डं शशंभाव तंच पुरविश्वेकनिर्मितम् ? ॥ तन्मध्ये च पद्मरागं मरकतं वामदक्षिणे । मुक्ताश्च वामदेशे तु शुद्धशृङ्खलमेव च ॥ हारङ्ककणनिबद्धं मध्यदण्डसकेवलम् । करपद्मं च तन्नाम करालङ्कार उत्तमः ॥