Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.46

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.46

Language
English

v2.c83.46

उत्तम दशतालाख्यं चतुर्विशच्छताङ्गुलम् ।
मध्यमं दशतालं स्याद् विंशाधिकशताङ्गुलम् ।।
अधमं दशतालं तु कलाधिकशताङ्गुलम् ।
तालं प्रत्ययमेवं तु क्रमाद् वेदांशहानितः ।।
उत्तमं नवतालादि बिम्बमानमुदाहृतम् ।
उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वराः ।।
मध्यमं दशतालेन तथैवोमासरस्वती ।
उषा भूमिश्च दुर्गा च लक्ष्मीर्ज्येष्ठा च मातरः ।।
मध्यमं दशतालेन वा त्रिमूर्तीन् प्रकल्पयेत् ।
कन्यसं दशलालेन चन्द्रादित्यावथाश्विनौ ।।
आर्यं शतमखं चैव चण्डेशं क्षेत्रपालकम् ।
महर्षीणां गणांश्चैव तेषां देवीश्च कारयेत् ।।
उत्तमं नवतालेन विद्येशान् लोकपालकान् ।
वसूंश्च दिक्पतींश्चैव अस्त्रमूर्तीश्च गुह्यकान् ।।
देवानन्यांश्च देवीस्ताः कारयेल्लक्षणान्वितम् ।
मध्यमं नवतालेनाप्यष्टमूर्तिमरुद्गणान् ।।
यक्षासुरगणांश्चैव करोतु शुभलक्षणम् ।
कन्यसं नवतालेन विद्याधरगणांस्तथा ।।
असुरान् सिद्धगन्धर्वान् पितरश्च तथैव च ।
अष्टतालेन मर्त्यांस्तु पिशाचाः सप्ततालतः ।।
षष्ठतालेन कुब्जांश्च तत्तच्छ्रेष्ठान्तराधमाः ।
तत्तदुत्तममध्यादिभेदेनैव भवन्त्यतः ।।
पञ्चतालोत्तमेनैव विघ्नेशं स्कन्दमेव च ।
वामनं च करोत्वस्य भूतान् मध्येन वाधमात् ।।
बालांस्तु वेदतालेन कुर्याद् भूतगणांस्तु वा ।
त्रितालेन तु कर्त्तव्या यक्षकिन्नरजातयः ।।
द्वितालेनैव कूष्माण्डांस्तालात् कूर्माकृतिर्हरिः ।
यथोक्तप्रतिमायां मूर्तिभेदवशादिह ।।
विभज्यार्काङ्गुलं तालं गोलकं वा कलां तथा ।
विदिताद्यङ्गुलं मानमङ्गुलाष्टांशकं यवम् ।।