Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.49
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.49
- Language
- English
v2.c83.49
अथातः प्रतिमासक्षणं वक्ष्ये । बेरस्य लम्बमानं पूर्वमेव परीक्ष्य कारयेत् । अष्टषष्ट्यङ्गुलार्यतां चतुर्विंशत्यङ्गुलविस्ताराँ द्व्यङ्गुलघनां लघ्वीं श्लक्ष्णां फलकां गृहीत्वा परितस्त्र्यङ्गुलं नीत्वा मानसूत्रं विन्यस्य प्राक्पश्चिमभागस्थानि सूत्राणि प्रसारयेत् । मध्ये सूत्रं विन्यस्य मध्यसूत्रादेकाङ्गुलं पुटपर्यन्तसूत्रं तदेव दृगन्तरी स्यात् । तस्मात् त्र्यर्धाङ्गुलं नेत्रपर्यन्तं तस्माद् द्वयर्धाङ्गुलं मुखपर्यन्तं तस्माद् द्व्यङ्गुलं कर्णपर्यन्तं तस्मात् त्र्यङ्गुलं कक्षपर्यन्तं तस्माद्दशाङ्गुलं बाहु पर्यन्तमेवं त्रयोदश सूत्राणि विन्यस्य परभुजस्य मणिबन्धावसानं मानसूत्रद्वयमेव तप्तारं नीत्वाभ्यन्तरं भवेत् । पुरतो मध्यसूत्रयोगं मध्यसूत्रं, तस्माद् द्व्यङ्गुलं पुटसूत्रं, तस्माद्वियवाधिकं द्व्यङ्गुलं नेत्रसूत्रं तदेव वक्त्रबाह्यं, तस्मात् त्र्यङ्गुलमन्तर्भुजावधिकं तदेव कक्षपर्यन्तं, तद्वदेव चतुरङ्गुलं बाहुपर्यन्तं तदेव मध्यमेध्यं कक्षाभ्यन्तरगतमङ्गपार्श्वमध्यं स्यात् । तस्माद् द्व्यङ्गुलं कर्णपर्यन्तं तस्मात् त्र्यङ्गुलं शिरःपृष्ठावसानकं तदेव परभुजावधि भवतीति । एवं दक्षिणोत्तरगतानि सूत्राणि षट् च विन्यस्य तत्तत्सूत्रसङ्गे सुषिरं कृत्वा तन्तुना यवान्तरमात्राणि सूत्राणि सुषिर संजोज्याग्रे प्रोतकुण्डलं लोहमयं मृन्मयं वा संबध्य सूत्राणि प्रलम्बयेत् ।