Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.54.2

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.54.2

Language
English

v2.c83.54.2

ऊरुमध्यविस्तारमेकादशाङ्गुलं, जानुविस्तारं नवाधार्ङ्गुलं, जङ्घामूलमष्टाङ्गुलं जङ्घामध्यविस्तारं सप्ताङ्गुलं, नलकाविस्तारं सार्धचतुरङ्गुलम्, अक्षगुल्फान्तं पञ्चाङ्गुलं, पादविस्तारं सार्धपञ्चाङ्गुलं सार्धवेदाङ्गुलोत्सेधं, पाष्णिंविस्तारं सार्धत्रिमात्रं, (पादाङ्गुलिविस्तारम्) अङ्गुष्ठायामं चतुरङ्गुलं, तर्जनी तद्यवाधिका, तद्यवोनं मध्यमाङ्गुलं, त्रिमात्राधर्नामिला, कनिष्ठकाङ्गुलायामं त्रिमात्रं, कनिष्ठाद्यङ्गुष्ठान्तं क्रमात्सप्ताष्टाष्टार्धनवषोडशभिर्यवैरङ्गुलानां विस्तारं, ( शेषं विवरं ) बाहुमूलविस्तारं दशाङ्गुलं, बाहुमध्यं नवाङ्गुलं, कूर्परं सार्धसप्ताङ्गुलं, प्रकोष्ठमध्यधर्सप्ताङ्गुलं, मणिबन्धं चतुर्मात्रं, तलं सार्धषण्मात्रं, रुद्राष्टनवसप्तषड्चवविपुलात्यङ्गुष्ठादिकनिष्ठान्तमङ्गुल्यग्राणि, तद्यवार्धहीन सप्तवेदेषुतुर्याग्नियववमङ्गुष्ठादिनखानां विशालं, द्वियवाधिकमायामं, द्विपर्वाङ्गुष्ठमन्यानि त्रिपर्वाणि, अङ्गुष्ठमूलपर्वाधिकाङ्गुलं द्व्यर्धाङ्गुलमग्रपर्वं, तर्जनीमूलपर्वं चतुर्दशयवं, मध्यपर्वं त्रयोदशयवा, अग्रपर्वं द्वादशयवं, मध्यमाङ्गुलिमूलपव अष्टादशयवं, मध्यपर्वं षोडशयवा, अग्रपर्वं सार्धपञ्चदशयवा, अनामिकामूलपर्वं सार्धचतुर्दशयवा, मध्यपर्वं सार्धत्रयोदशयवा, अग्रपर्वं द्वादशयवा, कनिष्ठाङ्गुलिमूलपर्वं द्वादशयवा, मध्यपर्वेकादशयवा, अग्रपर्वं दशयवा, अङ्गुलीनामाग्ने द्वियवाधिकं नखाग्रं, पर्षिण्हस्तघनं वेदाङ्गुलं, तन्मध्यघनं द्व्यधार्ङ्गुलमग्रमङ्गुलीवत्क्षीणं, शुकोदरघनं द्व्यर्धाङ्गुलं, मणिबन्धात्तदायामं सयवं भागं, शुकोदरविशालं द्वियवोनं त्र्यङ्गुलं, पाष्णिहस्तविस्तारं द्वियवोनचतुरङ्गुलं, तस्याग्रे तर्जन्‍यादिकनिष्ठान्तनामङ्गुलीनां मूलतलं मांसलमर्ध- मात्रेण, शेषं तलं निम्नम्, अङ्गुष्ठतर्जनीमूलयोस्सार्धत्र्यङ्गुलम्, अङ्गुलीनामधो मूलसन्धिरङ्गुलम् (एकाग्रो वा नीचार्धाङ्गुलं ?) कनिष्ठिकादेशमूलात्तर्जनीमूल पार्श्वगा आयूरेखा, मध्यमाङ्गुल्यधो द्व्यङ्गुलं, तस्य षड्यवाधस्ताद्विद्यारेखा ।