Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.65

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.65

Language
English

v2.c83.65

प्रासादमानोद्भूवार्चा प्रमाणैस्त्रिविधोदिता ।
सीमागर्भद्वारमानं तुर्यो हस्ताङ्गुलैविधिः ॥
आदौ सीमा पुनर्दर्भ द्वारमानं तृतीयकम् ।
हस्ताङ्गुलक्रमोक्तं च आर्चामानं चतुर्थकम् ॥
सीमार्धं च षडंशोनं हस्तात्तुर्यकरान्तगम् ।
इषुरसात्मकहस्ते स्थिता सीमा त्रिभागतः ॥
पादोद्भूवा दशान्तं च षडंशोना ह्यमा तथा ।
पञ्चमांशा च पादोना हस्तविंशतिकावधि ॥
त्रिंशद्धस्ते षडंशेन त्रिभागेन प्रकल्पयेत् ।
सप्तांशेऽर्चामानं त्यक्तार्धं चत्वारिंशदंशकैः ॥
अष्टमांशं शतार्थे तु त्रिभागोनां प्रकल्पयेत् ।
सीमामानोद्भूवाख्याता ऊर्ध्वार्चा तु तथोत्तमा ॥
मध्यमा द्वादशांशोना अष्टांशोना कनिष्ठिका ।
ज्येष्ठमध्याधमाः ख्याताः सीमामाने त्रिधोदिताः ॥
—इतिसीमामानोद्भूवार्चा
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
चतुर्भागैश्च द्वै भित्ती शेषं गर्भ गृहं मतम् ॥
गर्भ गृहत्रिभागैश्च हार्चा कार्या सुशोभना ।
दशांशोना मध्यमा च पञ्चांशोना कनीयसी ॥
—इतिगर्भ मानम्
द्वारमानोद्भूवां वक्ष्ये हार्चां सर्वत्र शोभनाम् ।
ऊर्ध्वाऽऽसनस्था शय्यास्था प्रत्येका मानसंभवा ॥
तत्त्वयुग्मोद्भूवे द्वारे हार्चामानं त्रिधोदितम् ।
षट्चन्द्रौ तत्त्वेन्दू शक्राः ऊर्ध्वार्चांसङ्ख्या मता ॥
आसनस्था पूर्वमाने शक्रविश्वसूर्यांशतः ।
स्थितासना च केशान्तं प्रमाणं सूत्रतः स्मृतम् ॥
—इतिद्वारमानोद्भूवार्चा