Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.76
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.76
- Language
- English
v2.c83.76
अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु ।
यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणहितार्थिभिः ॥
अशास्त्रज्ञेन घटितं शिल्पिना दोषसंयुतम् ।
अपि माधुर्यसम्पन्नं न ग्राह्यं शास्त्रवेदिभिः ॥
अश्लिष्टसन्धिं विभ्रान्तां वक्रां चावनतां तथा ।
अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥
प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा ।
ईदृशीं देवतां प्राज्ञो हितार्थं नैव कारयेत् ।
अश्लिष्टसन्धया मरणं भ्रान्त्या स्थानविभ्रमम् ।
वक्रया कलहं विद्यान्नतया वयसः क्षयम् ॥
नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् ।
भयमुन्नतया विद्याद् हृद्रोगं च न संशयः ॥
देशनान्तरेषु गमनं सततं काकजङ्घया ।
प्रत्यङ्गहीनया नित्यं भर्तुः स्यादादपत्यता ॥
विकटाकारया ज्ञेयं भयं दारुणमर्चया ।
अधोमुख्य शिरोरोगं (तथानयापि च ?) ॥
एतैरुपैतादोषैर्या वर्जयेत् तां प्रयत्नतः ॥