Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.880
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.880
- Language
- English
v2.c83.880
| गुहसुब्रह्मण्यः श्रीतत्व० | चतुर्भुजं त्रिनेत्रं च हेमरत्नकिरीटिनम् । शूलं वज्रं धरं सव्ये वराभयकमन्यके ॥ श्वेतवस्त्रधरं देवं सर्वेषां रक्षणोन्मुखम् । जायया वामपार्श्वे तु कल्याणोत्सवविग्रहम् ॥ पादाम्बुजं हृदि ध्यात्वा गुहरूपं समाश्रये । |
| ब्रह्मचारिसुब्रह्मण्यः श्रीतत्व० | द्विनेत्रं द्विभुजं चैव बालसूर्यधरं प्रभुम् । दक्षभागे दण्डहस्तं वज्रवामोरुहस्तकम् ॥ सव्यापसव्यपादं तु स्थितं वा कुञ्चितं तु वा । शिखायज्ञोपवीताढ्यं मौञ्जीकौपीनसंयुतम् ॥ मेखलोपरिवण्डाणं रक्तपद्मोपरि स्थितम् । दिव्यरूपधरं देवं ब्रह्मचारिणमाश्रये ॥ |
| देशिकसुब्रह्मण्यः श्रीतत्व० | षड्भुजं चैकवदनं करण्डमकुटन्वितम् । शक्तिहस्तद्वयं चैव जपमालाधरं शुभम् ॥ मयूरवाहना रूढं वराभयकराम्बुजम् । इत्येवं विधिवद् ध्यायेच्छिवदेवस्य देशिकम् ॥ |
| शक्तिधरः कु० त० | एकास्यं द्विभुजं वामे वज्रं दक्षिणजे करे । इच्छाज्ञानक्रियाशक्तिरूपं शक्तिधरं भजे ॥ |
| गजवाहनः कु० त० | एकाननं द्विनयनं वरकुक्कुटौ च वामद्वये निशितशक्त्यभयद्वयं च । विभ्राणमीश्वरसुतं तपनायुताभं नित्यं नमामि गजवाहनमिष्टसिद्धयै ॥ |
| शरवणभवः (i) कु० त० | शक्तिं घण्टां ध्वजसरसिजे कुक्कुटं पाशदण्डौ टङ्कं बाण वरदमभयं कार्मुकं चोद्वहन्तम् । पीतं सौम्यं द्विदशनयनं देवसङ्घरुपास्यं सद्भिः पूज्यं शरवणभवं षण्मुखं भावयामि । |
| (i) श्रीतत्व० | षड्भुजं चैकवदनं बालसूर्यसमप्रभम् । सर्वाभरणसंयुक्तं सिंहस्थं दधतं भजे ॥ त्रिनेत्रं भसितोद्धूलं पुष्पबाणेक्षुकार्मुकम् । खड्गं खेटं च वज्रं च कुक्कुटध्वजधारिणम् ॥ |
| तारकारिः (i) कु० त० | वरदमङ्कुशध्वजे च कटको चापवज्र— मभयपाशचक्रखड्गमुसलशक्तिमन्वहम् । द्विदशपाणिभिर्दधानमरुणकोटिसन्निभं भजत तारकारिमत्र भवविनाशकारणम् ॥ |
| (ii) श्रीतत्व० | एकवक्त्रं त्रिनयनं गजपृष्ठोपरि स्थितम् । षण्मुखं चाभयं खड्गं शक्तिं वामेतरे दधम् ॥ |
Cites (2)
- Tattvanidhi — Kṛṣṇarāja III, Sanskrit
- Kumāratantra (Rāvaṇa) — Rāvaṇa, Sanskrit